Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 612
________________ (६००) सादर्श: [आख्यातप्रकरणेवादेर्दर्शितविशिष्टसंबन्धाऽसत्त्वेनाऽतिप्रसङ्गविरहात् । ध्वंसपूर्वत्वं च तदनधिकरणत्वमेव । न चान्तरालिककृतिजन्यस्य पच्यर्थव्यापारस्प पूर्वव्यापारानुकूलकृत्यजन्यतयाऽऽन्तरालिककृतेः पूर्वकृतिजन्यपाकाननुकूलत्वमक्षतमेवेति तस्या अपि निरुक्तविशिष्टसंबन्धेन वर्तमानप्रागभावादिमत्त्वमक्षतमेवेति वाच्यम्, कृतिजन्यपाकेत्यत्रं कृतिजन्यव्यापाराधीनफलानुकूलव्यापारस्य विवक्षितत्वात् । वर्तमानकालध्वंसस्त्र लुडर्यस्य ' पक्ष्यति' इत्यत्र लुडर्यकृतावन्वयः स्वीक्रियते तथा च वर्तमानकालध्वंसस्य कालरूपत्वेन तदाधेयता भविष्यत्पाककृतौ वर्तते एव वर्तमानकालध्वंसरूपभविष्यत्कालात् पूर्वकालिककृतिजन्यो यः पचमानकर्तृकपाकस्तदननुकूलस्वमपि वर्तते इत्येताहशसंबन्धेन भविष्यत्पाककृती वर्तमानकालध्वंसान्वयसंभवान्न पक्ष्यमाणे 'पक्ष्यति ' इतिप्रयोगानुपपत्तिः, पचमानकर्तृकपाकानुकूलोदीच्यकृतौ तु पचमानकर्तृकपाकाननुकूलत्वस्य संबन्धघटकस्याऽसत्त्वान्न तादृशकृती वर्तमानकालध्वंसान्वयः संभवति येन पचमानेपि ‘पक्ष्यति ' इतिप्रयोगापत्तिः स्यादित्यन्वयः । फलमाह- उदीच्यकृताविति । उदीच्यकृती वर्तमानपाकोदी. ध्यकृतौ । द्वितीयसंबन्धस्वरूपे स्वपूर्वेति यदुक्तं तदर्थमाह- ध्वंसेति, स्वपूर्वकाल इत्यनेन वर्त, मानकालध्वंसानधिकरणकालो ग्राह्य इत्यर्थः । स च कालो वर्तमानकाल एव तादृशकालीनकृतिजन्यपाकाननुकूलत्यन्वयः । ननु पचमानकर्तृकपाकानुकूला ह्येकाऽऽद्या कृतिरपरोदीच्या कृतिरपरा च तन्मध्यकालवतिनी आन्तरालिककृतिरपि भवत्येव तत्रान्तरालि ककृतिजन्यो व्यापारः पूर्वव्यापारानुकूलकृतिजन्यो न भवति पूर्वकृतिजन्यश्च व्यापार आन्तरालिककृतिजन्यो न भवतीत्यान्तरालिककृती पूर्वकृतिजन्यपाकाननुकूलत्वमस्त्येवेत्यान्तरालिककृतावुक्तसंबन्धेन लुडर्थकालस्यान्वयसंभवात् पचमाने 'पक्ष्यति' इतिप्रयोगः स्यादेवेत्याशङ्कयाह- न चेति । परिहरति- कृतिजन्येति । विवक्षितत्वादिति- तथा च ' स्वविशिष्टकालवृत्तिकृतिजन्यव्यापाराधीनफलानुकूलव्यापाराननुकूलत्वसमानाधिकरणप्रतियोगितासंबन्धेन कृतौ वर्तमानप्रागभावस्य लडथस्थान्वयः' इति वक्तव्यं तथा च वर्तमानप्रागभावविशिष्टो यो वर्तमानकालस्तवृत्तिकृतिजन्यो यः पाकादिव्यापारस्तदधीनं यद् विक्लित्तिरूपं फलं तदनुकूलो यः स एव वर्तमानः पाकव्यापारस्तदननुकूलत्वं भविष्यत्पाककृतौ स्वस्तीति न पक्ष्यमाणे · पक्ष्यति । इतिप्रयोगानुपपत्तिः, आन्तरालिकोक्तकृती तु पूर्वकृतिजन्यपाकाधीनफलानुकूलतादृशपाकानुकूलत्वमेवास्ति न तु तदननुकूलत्वमिति नान्तरालि ककृतौ वर्त. मानप्रागभावान्वयः संभवति येन पचमानेपि त्वदुक्तरीत्या पक्ष्यति ' इतिप्रयोगापत्तिः स्यादित्यर्थः । पचमानकर्तृकव्यापाराणां फलान्नुकूलत्वं नास्ति फलानुकूलव्यापाराननुकूलत्वं च पचमानवृत्तिकृतिषु नास्तीति भावः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668