Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 610
________________ सादर्श: [ भाख्यातप्रकरणे ( ५९८ ) तथा च वर्तमानप्रागभावप्रतियोगित्वं प्रतियोगितासंबन्धेनाऽन्वयी वर्तमानमार्गभावो वा लट्प्रत्ययार्थः । प्रागभावानङ्गीकारे वर्तमानकालध्वंस एव तदर्थः, ध्वंसस्य कालोपाधित्वेन स्वसमानकालपदार्थाधारतयाऽऽधेयता संबन्धेन. अनागतकृतेर्वर्तमानकालध्वंसोत्पत्तिमत्तया उत्पत्तिसंबन्धन वा कृत्यादावन्वयः ॥ 6 व्यथ पचमानेप्युदीच्यपाकानुकूलकृतिमादाय पक्ष्यति' इत्यादिमयोगापत्तिः, पाकानुकूलकृतित्वावच्छेदेन चाऽनागतत्वबोधस्वीकारो न संभवतिपूर्वपूर्वपाकानुकूलकृतौ तद्वाधात् पक्ष्यमाणेपि ' पक्ष्यति' इतिप्रयोगानुपपत्तेः । इतिप्रयोगापत्तिर्नास्तीति बोध्यम् । एवमेव 'मविष्यति' इत्यत्रापि भविष्यत्कालस्योत्पत्तावेवान्वयो विज्ञेयो न तु घटे, अन्यथा वर्तमानघटमादायापि तस्य भाविकालसंबन्धसंभवेन ' भविष्यति इतिप्रयोगः स्यात् न चैतदिष्टम्, अनुत्पन्नघटमुद्दिश्यैव ' भविष्यति' इतिप्रयोगस्येष्टत्वादिति सारः । कालभूतलडमाह - तथा चेति, 'पक्ष्यति' इत्यादौ वर्तमान शब्दप्रयोगाधिकरणक्षणवृत्तिप्रागभावप्रतियोगित्वं पाककृत्यादी. 'ज्ञास्यति' इत्यादौ च ज्ञानादावस्त्येव, किं वोक्तकृत्यादौ वर्तमानप्रागभावप्रतियोगिता वर्तते एवेति तादृशप्रतियोगितासंबन्धेन कृत्यादौ यो वर्तमानप्रागभावः स ऌडर्थ इत्यर्थः । ननु : प्रागभावो हि स्वप्रतियोगिसमवायिकारणे एव भवति नान्यत्र नाशश्च ध्वंस एव ध्वंसस्य च न समवायिकारणं किमपि भवति यत्र व्वंसरूपनाशस्य प्रागभावः संभवेदिति 'नङ्क्ष्यति' इत्यत्र कथं नाशस्य वर्तमानप्रागभावप्रतियोगित्वं स्यादित्याशङ्क्याह- प्रागभाबानङ्गीकारेति, नाशस्येत्यादिः । नाशस्य प्रागभावानङ्गीकारे हि वर्तमानकालस्य व्वंस एव लुडर्थः । किंवा मीमांसकैकदेशिमतमुद्दिश्याह - प्रागभावानङ्गीकारे इति । 'पक्ष्यति' इत्यादावनागतकृतौ कालोपाधिस्वरूपवर्तमानकालध्वंसाधेयता वर्तत एव--वर्तमानकालध्वंसस्य कालोपाधित्वेन स्वसमानकालिक कृत्यादिपदार्थाधारत्वात् क्षणादिवदिति तादृशाधेयतासंबन्धेन वर्तमानकालध्वंसस्य तादृशकृत्यादावन्वयः, किं वा तादृशानागतकृतौ या वर्तमानकालध्वंसस्योत्पत्तिस्तत्संबन्धेन तादृशानागतकृत्यादौ वर्तमानकालध्वंसस्यान्वयो भविष्यति । भाविपदार्थानां बौद्धत्वेन सत्त्वं स्वीकृत्यैष विचारो विज्ञेयः । ' ८ शङ्कते - अथेति, पचमानपुरुषस्य पाकानुकूलकृतयोप्यवान्त रफूत्कारादिव्यापाराणां पूर्वापभावापन्नानां भेदादनेका भवन्ति तत्र पक्ष्यति' इत्यत्र भविष्यत्त्वस्य प्रागभावप्रतियोगित्वरूपस्योक्तस्य ऌडर्थस्य कृतावन्त्रयस्वीकारेप्युदीच्या पाकानुकूलकृतिम् = क्रियमाणपाकानुकूलामेवोदीच्यां कृतिमादाय पचमानेपि 古 " पक्ष्य इतिप्रयोगः स्यात् - उदीच्यतादृशकृतौ भविष्यत्त्वस्य सत्त्वादेवेत्यर्थः । ननु भविष्यत्त्वस्य कृतित्वावच्छेदेनान्वयः क्रियते इति क्रियमाणपाकानुकूलोदीच्यकृतौ भविष्यत्त्वसत्त्वेपि क्रियमाणपाकानुकूलयावदूकृतौ भविष्यत्त्वस्याऽसत्त्वान्न पचमाने ' पक्ष्यति' इतिप्रयोगापत्तिरित्याशङ्क्याह- पाकानुकूलकृतित्वेति, पूर्वपूर्वपाकानुकूलकृतीनां जातत्वेन तत्र तद्वाधात् = अनागतत्वान्त्रयबाधात्, करिष्यमाणपाकानुकूलकृतिष्वपि पूर्व "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668