Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 608
________________ सादर्श: [ आख्यातप्रकरणेव्यापाराबोधकेन च लडादिप्रत्ययेन क्रियायामेव वर्तमानत्वान्धयो बोध्यते 'जानाति' इत्यादौ न तु लडाश्रयत्वादी-ज्ञानाद्यऽसत्त्वेपि तदाश्रयत्वादिसंबन्धे सति 'जानाति' इत्यादिप्रयोगापत्तेः । ज्ञानादिविशिष्टे आश्रयत्वादौं। कालान्वयमुपगम्यातिप्रसङ्गवारणे ? विशेषणे ज्ञानादावपि तदन्क्यस्यावश्यकत्वे तस्यैव स्वीकारौचित्यात् । 'नश्यति ' इत्यादौ क्रियायां कालान्वयस्वीकारे विनष्टादावपि 'नश्यति । इत्यादिप्रयोगः स्यादिति तत्रोत्पत्तेरपि लडाद्यर्थत्वमुपगम्य तत्रैव कालान्वयं अभावप्रतियोगिन्येव त्वया कालान्वयस्वीकारात् तथा च कचित प्रतियोग्यऽप्रसिद्धिः स्यात् यतक्षणावच्छिन्नाया कृतेरभावो बोधनीयस्तत्क्षणे कृतेरसत्त्वे ततक्षणावच्छिन्नकृतेः प्रतियोगि भूताया अप्रसिद्धिः प्राप्ता, अप्रसिद्धप्रतियोगिकस्य चाभावस्य बोध एत्र न भवतीति तत्र 'नाधीते' इत्यादिवाक्यजन्यबोधाभावप्रसङ्गः स्यात् न चैतदिष्टमित्यर्थः । वस्तुतस्तु नसम: भिव्याहारस्थले प्रतियोगिनि कालान्वयस्वीकारे 'नाधीते' इत्यनेन शब्दप्रयोगाधिकरणतत्क्षणा: वच्छिन्नायाः कृतेरभावो बोधनीयो न च तत्क्षणे कृतिः संभवति तदभावस्यैव सत्त्वादिति सर्व त्रैव प्रतियोग्यप्रसिद्धिः, तत्क्षणे कृतिसत्त्वे च तदभावासंभवात् तद्बोधनं न संभवतीति विज्ञेयम् । तस्मात् नञ्समभिव्याहारस्थलेऽभावे एव कालान्वयः स्वीकार्यस्तथा च 'नाधीते' इत्यादिशब्द, प्रयोगाधिकरणक्षणे कृतिर्नास्ति तादृशकृत्यभावस्त्वस्त्येवेति क्षणान्तरवृत्त्यध्ययनकृतेः शब्दप्रयो गाधिकरणक्षणेऽभावबोधनं नत्रा नानुपपन्नमिति भावः । 'पचति । इत्यादी लडाद्यर्थकालस्य लडाद्यर्थकृतावेवान्वयेपि 'जानाति । इत्यादौ तु व कडाद्यर्थाश्रयत्वादी लडाद्यर्थकालस्यान्वयो भवति किं तु धात्वर्थज्ञानादिरूपक्रियायामेवान्वयो भव. तीत्याह- व्यापारेति । व्यापाराऽबोधकेनेति पचति' इत्यादिस्थले लडादेः कृतिरूपव्यापारबो. धकत्वं यदुक्तं तत् 'जानाति' इत्यादौ न संभवति--ज्ञानाद्यनुकूलकृतेरसंभवादित्याशयेन व्यापाराबोधकत्वमुक्तमित्याशयः । यदि लडाद्यर्थकालस्य जानाति' इत्यादी लडाद्यर्थाश्रयत्वेऽन्वयः स्यात्तदा ज्ञानाश्रयत्वं हि ज्ञानसमवाय एव समवायश्च नित्य एवेति ज्ञानासत्वेपि तदाश्रयत्वादिसंबन्धेसति ज्ञानाश्रयत्वरूपसमवायसंबन्धस्य सत्त्वात् ज्ञानाभावकालेपि 'जानाति' इतिप्रयोग आपद्येत न चैव दिष्टमित्याह- ज्ञानाद्यसत्त्वेपीति । ज्ञाने कालान्वये तु ज्ञानाभावकाले 'जानाति' इतिप्रयोगापत्ति स्तीत्यर्थः । ननु 'जानाति' इत्यत्र ज्ञानविशिष्टाश्रयत्वे कालान्वयं वक्ष्यामस्तथा च ज्ञानसमवाय नित्यत्वेपि ज्ञानस्यानित्यत्वेन ज्ञानाभावकाले ज्ञान विशिष्टाश्रयत्वमपि न संभवतीति न ज्ञानाभावका 'जानाति' इतिप्रयोगापत्तिरित्याशङ्क्याह- ज्ञानादिविशिष्ट इति । उत्तरमाह- विशेषण इति ज्ञानविशिष्टाश्रयत्वे कालान्वये विशेषणीभूतज्ञानेपि कालान्वयः प्राप्त एवेति तस्य-ज्ञाने एव काला न्वयस्य स्वीकार उचित इत्यर्थः । नश्यतीति- 'नश्यति' इत्यत्र नाशक्रियायां कालान्वये नाशस्य ध्वंसरूपत्वेनाऽनन्तत्वात विनष्टदशायामपि 'नश्यति' इतिप्रयोगापत्तिः स्यादिति तत्र='नश्यति' इत्यादौ नाशोत्पत्ते "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668