Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 606
________________ (५९४) सादर्शः ( आख्यातप्रकरणेधिकरणकालस्तस्य दर्शितविशिष्टाधेयतासंबन्धस्तादृशकृतौ बाधितोऽप्रसिद्धोवेति न शब्दप्रयोगाधिकरणतादृशकालमादाय दर्शितप्रयोगापत्तिः । संबन्धे स्वपदा. र्थस्य विशिष्य निवेशेप्युपपत्तिश्चिन्त्या ।। न च क्रियानुकूलकृतिशून्यान्तरालदशायां स्थूलकालमादाय 'पति' 'अधीते' इत्यादिवत् तादृशकृत्यधिकरणक्षणेपि स्थूलकालावच्छिन्नाभावमादाय 'न पचति ' 'नाधीते ' इत्यादिप्रयोगः- तत्र नओ वर्तमानक्षणमात्रान्वितताशक्रियानुकूलकृत्यभावबोधकतानियमात्, उक्तरीत्या विशिष्य शब्द. प्रयोगाधिकरणक्षणादिरूपकालस्यापि लट्प्रत्ययेन बोधनसंभवात् । लस्य कृतावन्वयः स्वीक्रियते तथा च विवक्षितक्रियाया आरम्भात् पूर्वकालस्य समाप्त्युत्तरकालस्य च विवक्षितकृतावुक्तविशिष्टाधेयतासंबन्धेनान्वयो न संभवति क्रियारम्भात् पूर्वकाले कृतेः प्रा. गमावाऽप्रतियोगिवासंभवात् क्रियासमाप्त्युत्तरकाले च क्रियाध्वंसस्यैव जातत्वेन धंसाप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वासंभवाचाऽध्ययनाद्यारम्भात् पूर्वमध्ययनादिसमाप्त्युत्तरं च न' अधीते । इत्यादिप्रयोगापत्तिरित्यर्थः । स्थूलकालगतमैक्यमादाय भूतभविष्यस्कालयोरपि तत्तत्पाकादिक्रियानुकूलकृत्यधिकरणत्वं संभवत्येवेत्यभिप्रायेणोक्तम्- तत्तक्रियानुकूलकृत्यधिकरणकाल इति । बाधित इति~ अध्ययने सति भूतभविष्यकालस्य संबन्धो बाधितः, यदि चाध्ययनमेवाऽसिद्धं तदाऽप्रसिद्ध इति विवेकः । संबन्धविशेषणे प्रथमदलमारम्भात् पूर्व तादृशप्रयोगवारणाय द्वितीयदलं च समाप्त्युत्तरं तादृशप्रयोगवारणाय विज्ञेयम् । नन्वत्रापि संबन्धमध्ये स्वपदार्थ निवेशादननु - गमापत्तिः स्यादित्याशङ्क्याह- संबन्धेति । चिन्त्येति-स्वपदवाच्याना कालव्यक्तीनां संबन्धमध्ये प्रवेशादुपस्थित्यपेक्षा नास्ति येनाननुगमः स्यादित्यर्थः ।। ननु स्थूलकाले कृतिरपि भवति कृत्यभावोपि भवति-स्थूलकालान्तर्गतकिंचित्क्षगादावेव कृतिसंभवादिति यथाऽध्ययनायनुकूलकृतिशून्यायामन्तरालदशायां स्थूलकालमादाय स्थूलकालवृत्तिकृतिमुद्दिश्य 'अधीते ' इत्यादिप्रयोगो भवति तथा स्थूलकालवृत्चितादृशकृत्यभावमादाय तादृशकृत्यधिकरणक्षणे ' नाधीते ' इत्यपि प्रयोगः स्यादित्याशङ्क्याहन चेति । उत्तरमाहतत्रेति, तत्र' नाधीते । इत्यत्र नत्रा वर्तमानक्षणमात्रान्चितो यस्तादृशक्रियानुकूलकृत्यभावः स बोध्यते वर्तमानक्षणे च तादृशक्रियानुकूलकृत्यभावो नास्तीति न स्थूलकालावच्छिन्नाभावमादाय तादृशकृत्यधिकरणक्षणे ' नाधीते ' इत्यादिप्रयोगापत्तिरित्यर्थः । किं च भावान्त्रयबोधस्थले किंचितक्षणावच्छेदेनाप्यऽध्ययनादिसंबन्धसत्वे 'मासमधीते, इत्यादिप्रयोगो भवति. अभावान्वयबोधस्थले त्वभावस्य विवक्षितकालस्य यावतक्षणकूटेन संबन्धे सत्येव 'नाधीते' इत्या. दिप्रयोगो भवति अन्यथाऽध्ययनस्येवाऽध्ययनामावस्यापि मासवृत्तिकिंचित्क्षणावच्छेदेन संबन्वस्य सत्त्वात् — मासमधीते । इतिवत् 'मासं नाधीते' इत्यपि प्रयोगः स्यादेव तथा चात्रापि स्थूलकालस्य यावतक्षणकूटेनाध्ययनाभावसंबन्धस्यासत्त्वात् 'नाधीते, इत्यादिप्रयोगस्योक्त "Aho Shrutgyanam'

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668