Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 605
________________ वर्तमानकाल निर्वचनम् ] व्युत्पत्तिवादः । ( ५९३ ) 6 राब्दशायामपि अयं चिन्तामणिमधीते ' इतिप्रयोगापत्तिः । यदि स्तुतिपाठादिविच्छेददशायामपि प्रत्यहमयं स्तुतिं पठति ' इत्यादिवदुक्तस्थलेपि दर्शितप्रयोग इष्ट एवेत्युच्यते ? तदापि स्वपदेन विशिष्य तत्तत्कृतीनामुपादानेनाननुगमो दुरुदर एवेतिचेत् ?, न - शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षणेनाऽनुगतीकृतततत्क्षणदिनमासवर्षत्वाद्यवच्छिन्ने एव काले लटः शक्तिः । क्रियारम्भात् पूर्वं कर्मसमाप्त्युत्तरं च ' अधीते ' ' पचति ' इत्यादिप्रयोगवारणाय कृत्यादिरूप - व्यापारे तादृशकालस्य स्ववृत्तिप्रागभावाऽप्रतियोगित्वस्ववृत्तिध्वंसाऽप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वाभ्यां विशेषितेनाधेयतासंबन्धेनोऽन्वयनियम उपगन्तव्यः, तत्तत् क्रियारम्भपूर्वमपि तत्समाप्युत्तरमपि वा वर्तते यस्तत्तत् क्रियानुकूलकृत्य C वेति विज्ञेयम् । ननु यथा स्तुतिपाठविच्छेददशायामपि ' प्रत्यहं स्तुतिं पठति' इतिप्रयोग इष्टस्तथा उक्तस्थले==प्रथमाध्ययनानन्तरं द्वितीयाध्ययनारम्भात् पूर्वमेतादृशान्तरालदशायामपि ' अधीते ' इतिप्रयोग इष्ट एवेति प्रयोगापत्तिर्न दोष इत्याशङ्क्याह- यदीति । अत्र दोषमाह - तदापीति, उक्ते " स्वप्रागभावानधिकरणस्व " इत्यादिपरिष्कारे स्वपदेन विशेषरूपेणैव तत्स्कृतीनां ग्रहणापत्त्याऽननुगमस्त्वऽपरिहार्य एवेत्यर्थः । अथेत्यादिना शङ्कितं परिहरति- नेति, ' अधीते ' इत्यादिशब्दप्रयोगाधिकरणीभूतो यः कालस्तद्वृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षणभूतेन विवक्षितकृत्यनुवृत्त्यधिकरणीभूतक्षणदिनमासवर्षादीनामनुगमः संभवत्येव तादृशानुगतीकृतकाले एव लटः शक्तिः स एव च वर्तमानकाल इत्युच्यते तथा च शब्दप्रयोगाधिकरण कालवृत्तिकालत्वव्याप्यधर्मोपलक्षितधर्मावच्छिन्ने ( क्षणदिनमासवर्षादौ ) लटः शक्तिरस्तीत्यत्र स्वपदप्रवेशो नास्तीति न त्वत्प्रदर्शिताऽनुगमापत्तिरित्यर्थः । नन्वेवं क्रियारम्भपूर्वकालस्य क्रियासमाप्त्युत्तरकालस्यापि च शब्दप्रयोगाधिकरणकालवृत्तिकाल - त्वव्याप्यधर्मोपलक्षितधर्मावच्छिन्नत्वात्तत्रापि पचति ' ' अधीते ' इत्यादिप्रयोगः स्यात्. न चैतदिष्टमित्याशङ्कयाह- क्रियारम्भादिति, कृत्यादिरूपव्यापारे = पाकाद्यनुकूलकृतौ तादृशकालस्य = शब्दप्रयोगाधिकरणकालवृत्तिकालत्वव्याप्यधर्मोपलक्षितधर्मा (क्षणत्वादि ) वच्छिन्नकालस्य स्ववृत्तीत्यादिविशेषणविशिष्टाधेयता संबन्धेनान्वयः कृतौ हि तादृशकाले वर्तमानत्वादाधेयत्वमस्त्येव, स्त्रवृत्तीति-- ' अधीते ' इत्यादी स्त्रं तादृशकालस्तद्वृत्तिप्रागभावाप्रतियोगित्वमध्ययनायनुकूलकृतावत्येव तादृशकाले तादृशकृतेजतत्वेन कृतिप्रागभावस्याऽसत्त्वात् स्वं तादृशकालस्तद्वृत्तिध्वंसाऽप्रतियोगिभूता या प्रकृताध्ययनादिरूपा क्रिया तत्कर्तृनिष्ठत्वमप्यध्ययनाद्यनुकूलकृतावस्त्येव - तादृशकाले क्रियाया वर्तमानत्वेन ध्वंसप्रतियोगित्वं नास्त्येव तादृशाध्ययनादिकृतावातापि वर्तते इति साधेयता सामानाधिकरण्यसंबन्धेन स्ववृत्तिप्रागभावाप्रतियोगित्वस्ववृत्तिध्वंसाप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वाभ्यां विशिष्टा जातेत्येतादृशविशिष्टाधेयतासंबन्धेनोक्तका ३८ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668