Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 603
________________ वर्तमान काल विचारः ] व्युत्पत्तिवादः । ( ५९१ ) स्थत्ववच्छब्दप्रयोगाधिकरणत्वमुपलक्षणविधया व्यावर्तकं वाच्यम् । न च तत्तत्कालत्वस्यैवमप्यऽवाच्यत्वे तद्भानानुपपत्तिरसमाधेयैवेति वाच्यम्, शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेन तत्तत्कालत्वानामेवोपलक्षणीयत्वात् । अथ शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो वर्षत्वादिकमपि कालदयावृत्तिधर्मत्वनिवेशेप्येतद्रूपमासत्वादिव्यावर्तनमशक्यम्, क्षणद्वयावृत्तिक्षणवृत्ति धर्मत्वेन तद्व्यावर्तने चाऽध्ययनाद्यनधिकरणेप्यऽध्ययनाद्यधिकरणस्थूलकालान्तर्गतक्षणेऽसमाप्तारब्धाध्ययने पुंसि चिन्तामणिमयमधीते ' इत्यादिप्रयोगानुपपत्तिः । C लव्यक्तिबोधानुपपत्तिरित्यर्थः । ननु तत्तच्छब्दप्रयोगाधिकरणत्वोपलक्षितधर्मावच्छिन्नस्य वाच्यत्वे हि तत्तत्कालव्यक्तीनामेव वाच्यत्वं स्यात् तत्तत्कालव्यक्तीनां चानन्त्यादऽपूर्वकालव्यक्तिभानानुपपत्तिरस्त्येव, न चोक्तरीत्या कालत्वस्य वाच्यत्वं प्राप्तं येन कालत्वेन रूपेणापूर्व कालव्यक्तेरपि बोधः स्यादित्याशङ्क्याह-- न चेति । उत्तरमाह - शब्दप्रयोगेति, शब्दप्रयोगाधिकरणीभूतो यः कालस्तद्वृत्तिर्यः कालत्वव्याप्यधर्मस्तेन कालत्वव्याप्यधर्मत्वेन सामान्यरूपेण तत्तत्कालत्वानामेव शब्दप्रयोगाधिकरणत्वमुपलक्षणं स्त्रीक्रियते इति तत्कालत्वस्य वाच्यत्वं प्राप्तमेवेति नाऽपूर्वकालव्यक्तिज्ञानानुपपत्ति:- कालत्वेन रूपेण तासामप्याख्यातजन्यबोधविषयत्वसंभवादित्यर्थः प्रतिभाति । (2 तत्तत्कालत्वस्यैवमपि " इत्यत्र " तत्कालस्यैवं सति ' इत्यपि पाठो दृश्यते । शङ्कते - अथेति, शब्दप्रयोगाधिकरणीभूतो यः काकस्तद्वृत्तिकालत्वेन व्याप्यमेव वर्षत्वादिकमिति ' पचति ' इत्युक्ते पाकानुकूलकृतौ वर्षस्याप्यन्वयः स्यात् न च वर्षपर्यन्तं ताहशकृतिरनुवर्तते इत्यर्थः, ननु शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो हि कालद्वयाऽवृत्तिरेव धर्मो वर्षत्वं तु शब्दप्रयोगाधिकरणकाले शब्दप्रयोगानधिकरणकाले च वर्तते - वर्षस्य सखण्डकालत्वादिति वर्षत्वादिकं न गृह्यते इति नोक्तदोषापत्तिरित्याह- कालद्वयेति । अत्रापि दोषमाह - एतद्रूपेति, मासकालस्त्वखण्ड एवेति मासत्वं कालद्वयावृत्त्येवेति मासत्वग्रहणे प्राप्ते उक्तत्या पाकादिकृतौ मासाद्यखण्डकालस्यान्वयः स्यादेव न चैतदिष्टमित्यर्थः । ननु शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो हि क्षणद्वयावृत्तिक्षणवृत्तिधर्मो गृह्यते तादृशधर्मश्च क्षणत्वमेव क्षणत्वावच्छिन्नकालस्य च पाककृत्यादावन्वय इष्ट एव, मासत्वादिकं च क्षणवृत्त्यपि न क्षणद्वयावृत्तीति न पाकादिकृतौ मासाद्यऽन्वयापत्तिरित्याह- क्षणद्वयेति । तदूव्यावर्तने मासत्वादिव्यावर्तने । अत्रापि दोषमाह- अध्ययनेति, एवं हि ' अधीते ' इत्यत्राध्ययनानुकूलकृतावपि क्षणकालस्यैवान्वयः स्यादित्यऽध्ययनाधिकरणीभूतस्थूलकालान्तर्गतेऽध्ययनानधिकरणे क्षणे (रायनादिक्षणे ) ' अधीते ' इतिप्रयोगानुपपत्तिः स्यात् न चैतदिष्टम् - तादृशाध्ययनानधिकरणेपि क्षणे ' अधीते ' इतिप्रयोगस्येष्टत्वादित्यर्थः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668