Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 597
________________ सकर्मक धातूनामर्थ : ] व्युत्पत्तिवादः । ( ५८५ ) 'चैत्रश्चैत्रं न गच्छति ' इत्यादौ च तादृशभेदान्वितक्रियाकर्तृत्वाभाव एव चैत्रे प्रतीयते न तु क्रियायां द्वितीयार्थविशिष्टभेदस्य प्रतियोगितावच्छेदकत्व संबन्धावच्छिन्नाभावः - वादृशसंबन्धस्य वृत्त्यनियामकत्वात् । यदि तात्पर्यविशेववशात् क्रियानुयोगिकोप्यभावः क्वचित् प्रतीयते इत्यनुभवसिद्धम् ? तदा प्रतियोगितावच्छेदकत्वेपि द्वितीयाद्यर्थत्वमुपगम्य विशिष्टभेदप्रतियोगितावच्छेदकत्वाभावान्वय एव तत्रोपगन्तव्य इति दिक् । फलावच्छिन्नव्यापारबोधकधातूनां फले व्यापारे च शक्तिद्वयम् । कर्त्राख्यातस्थले फलं धात्वर्थव्यापारविशेषणतया भासते तत्र द्वितीयार्थाधेयत्वान्वयः । कर्माख्यातस्थले फलं धात्वर्थव्यापारस्य विशेष्यतया भासते. तस्य विशेष्यतयाssख्यातार्थ आश्रयत्वम् (भासते ) तद्विशेष्यतया कर्म ( भासते ) इतिदीधितिकृतः । केचित्तु संयोगादिरूपफलावच्छिन्नव्यापारबोधकानां गमिप्रभृतीनां कर्म 6 नञ्समभिव्याहारस्थलीयोपपत्तिमाह- चैत्र इति, ' चैत्रश्चेत्रं न गच्छति' इत्यत्र च स्वप्रतियोगितावच्छेदकत्व संबन्धेन तादृशभेदविशिष्टायाः क्रियायाः कर्तृत्वाभाव एव चैत्रे प्रतीयते अस्ति चात्र चैत्रे चैत्रवृत्तिसंयोग विशिष्टभेदविशिष्टक्रियाकर्तृत्वाभाव इति नानुपपत्तिः, न तूकस्थले क्रियायां द्वितीयार्थेन फलेन संयोगेन विशिष्टभेदस्य स्वप्रतियोगितावच्छेदकत्व संबन्धेनाभावः प्रतीयते तादृशसंबन्धस्य = प्रतियोगितावच्छेदकत्वसंबन्धस्य वृत्त्यनियामकत्वेनाऽभावीयप्रतियोगितावच्छेदकत्वाऽभावादित्यर्थः । पक्षान्तरमाह- यदीति, यदि तात्पर्यविशेषवशात् कचित् क्रियानुयोगिकोप्यभावः =क्रियायामुक्तद्वितीयार्थ विशिष्टमेदस्याभावः प्रतीयते तदा प्रतियोगितावच्छेदकत्वस्यापि द्वितीयादिकर्मप्रत्ययार्थत्वमुपगम्य ' चैत्रश्चैत्रं न गच्छति ' इत्यादौ तत्र = चैत्रादिवृत्तिक्रियायामुक्तद्वितीयार्थविशिष्टभेद ( फलविशिष्टभेद ) प्रतियोगितावच्छेदकत्वस्यैवाभावः स्वीकर्तव्यो न तु प्रतियोगितावच्छेदकत्वसंबन्धेनोक्तभेदाभावः - प्रतियोगितावच्छेदकत्व संबन्धस्य वृत्त्यनियामकत्वादित्यर्थः । दीधितिकारमतमाह - फलावच्छिन्नेति, गम्यादीनां संयोगादिरूपफलावच्छिन्नव्यापारबोधकत्वं पूर्वमेवोक्तम् । कर्त्राख्यातस्थले = ' ग्रामं गच्छति चैत्र: ' इत्यादौ । तत्र = फले । ' ग्रामवृत्तिसंयोगजनकव्यापारानुकूलकृतिमांश्चैत्रः इतिबोधोदयात् फलस्य व्यापारविशेषणत्वं स्पष्टमेव । कर्मेति - कर्माख्यातस्थले - ' चैत्रेण गम्यते प्रामः ' इत्यादौ । तस्य संयोगादि| भासते इत्यनुवर्तनीयम् । तद्विशेष्यतया = आश्रयत्वविशेष्यतया । अत्रापि भासते इत्यनुवर्तनीयम् । अत्र ' चैत्रवृत्तिव्यापारजन्य संयोगाश्रयत्ववान् ग्रामः ' इतिबोधोदयाद् व्यापार विशेष्यत्वं संयोगे संयोगविशेष्यत्वमाश्रयत्वे आश्रयत्वविशेष्यत्वं कर्मणि प्रामे स्पष्टमेवेत्यन्वयः । रूपफलस्य परिहाराय मतान्तरमनुवदति - केचिदित्यादिना । गम्यादीनां संयोगाद्यनुकूलव्यापारबोध "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668