Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 600
________________ (५८८) सादर्श: आख्यातप्रकरणेशक्तिभ्रमं लक्षणाग्रह च ' ग्रामं त्यजति ' इत्यादितः सत्यपि तात्पर्ये संयोगावच्छिन्नव्यापारामतीतेरानुभविकतया धातोः फलविशेषवाचिताया आवश्यकत्वात् । . 'ज्ञायते इष्यते क्रियते घटः ' इत्यादी विषयत्वरूपं कर्मत्वं तङर्थः । न च कृतिविषयतायाः फलतत्साधनतदुपादानसाधारणतया यत्र ‘घटः क्रियते' इत्यादि प्रयुज्यते तत्र ‘जलाहरणं क्रियते' 'कपालं क्रियते' इत्यादिप्रयोगस्यापतिरिति वाच्यम, कृत्यर्थकधातुसमाभिव्याहतकर्मप्रत्ययस्य चिकीर्षाप्रयोज्यसाध्यताख्यविलक्षणविषयत्वमेवार्थ उक्तस्थले च कपालादौ कृतेस्तादृशविषयत्वाभावानोक्तप्रयोगप्रसङ्गः । 'काशाः कटाः क्रियन्ते' इत्यादी साध्यताख्यविषयताश्रयकर्मान्तरसमभिव्याहृतकर्मप्रत्ययेन व्यापार्यतारूपविषयतापि प्रत्याय्यतेऽत उपादानतया कृतिविषयकाशादौ साध्यतारूपकृति विषयताविरहेपि न ताशप्रयोगानुपपत्तिः । तादृशकर्मसमभिव्याहाररूपतत्प्रयोजकविरहात् 'काशाः क्रियन्ते ' इत्यादौ काशादौ व्यापार्यताबोधानुपपत्तेर्न तादृशप्रयोग इति । फलवाचकत्वे तु त्यज्यादीनां विभागादिरूपफलवाचकत्वात् संयोगादिरूपफलप्रत्यायनेच्छया शक्तिभमं लक्षणाग्रहं वा विना त्यज्यादीनां प्रयोगो न भवतीति धातूनां विलक्षगबोधजनकत्वव्यवस्था संभवति न तु व्यापारमात्रवाचकत्वेपीति धातोः फलविशेषवाचकत्वमावश्यकमेवेत्यर्थः । ज्ञादिधातूत्तरकर्मप्रत्ययार्थमाह- ज्ञायत इत्यादिना । ' ज्ञायते घटः । इत्यस्य 'ज्ञानविषयो घटः' इत्यर्थः, एवमपि । ननु कृतिविषयता हि फले फलसाधने फलसाधनोपादानकारणे च तुल्यरूपैवेति — घटः क्रियते । इत्यत्र ' जलाहरणं क्रियते' इत्यपि प्रयोगः स्यादित्याशङ्कयाह- न चेति । ' जलाहरणम् ' इति फलम्, 'घटः' इति तत्साधनम्, 'कपालम् ' इति फलसाधनोपादानमिति विवेकः । उत्तरमाह- कृत्यर्थकेति, चिकीर्षाप्रयोज्या या साध्यताख्या विलक्षणविषयता सा कृत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययार्थोस्ति. उक्तस्थले 'घटः क्रियते । इत्यत्र च कृते:-कृतिनिरूपिता तादृशविषयता चिकीर्षाप्रयोज्यसाध्यतास्यविषयता घटे एवास्ति न तु कपालादाविति 'कपालं क्रियते । इत्यादिप्रयोगापत्तिर्नास्तीत्यर्थः । काशा इति- 'काशाः कटाः क्रियन्ते । इत्यत्र साध्यताख्यविषयताश्रयो यः काशापेक्षया कर्मान्तरं कटस्तत्सम भिव्याहृतेन 'क्रियन्ते । इतिधातूत्तरकर्मप्रत्ययेन व्यापार्यतारूपविषयता व्यापारविषयता ( व्यापारकर्मत्वम् ) अपि प्रत्यारपते साध्यताख्यविषयतापि प्रत्याय्यते तत्र साध्यताख्यविषयता कटेस्ति काशे च साध्यताख्यविषयताया असत्त्वेपि व्यापरविषयतास्त्येव- कटानुकूलव्यापारकर्मत्वादिति काशानामपि कर्मत्वप्राप्त्या ' काशाः कटाः क्रियन्ते । इतिप्रयोगानुपपत्तिर्नास्ति, अन्यथा काशे साध्यताविरहात् काशानां कर्मत्यासंभवादेतादृशप्रयोगो नोपपद्यतेत्यर्थः । कि वा ननु काशेषु साध्यताख्यविषयताविरहेण कर्मत्वासंभबात् 'काशाः कटाः क्रियन्ते ' इति प्रयोगो नोपपद्यतेत्याशझ्याह- काशा इति । साध्य "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668