Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 585
________________ कर्तृत्वशक्ततावच्छेदकविचारः] व्युत्पतिवादः। (१७३) वृत्त्यनियामकतयाऽभावप्रतियोगितानवच्छेदकत्वेन न नश्यति' इत्यादौ नाशनतियोगित्वाभावबोधस्यैव स्वीकरणीयतया न संसर्गतासंभवः । अथाख्यातस्य कर्तृत्वशक्ततावच्छेदकं रूपं दुर्वचम् । न च तिस्त्वं तथा-- तिप्तसादिसाधारणतिङ्त्वस्य दुर्वचत्वात् । न च पाणिनीयसंकेतसंबन्धेन तिङ्पदवत्वमेव तिङ्त्वं. तिवाद्यष्टादशसु तत्पदसंकेतग्राहकं च " आदिरन्त्येन" इतिसूत्रमेव तत्संकेतमविदुषामनधीतपाणिनीयतन्त्राणां तिप्त्वादिना शक्तिभ्र. मादेव शाब्दबोध इति वाच्यम्, एवं सति घटादिवाचकघटादिपदेष्वपि कस्यचिच्छब्दस्य पुरुषविशेषीयसंकेतसंभवेन तुल्ययुक्त्या तत्रापि तच्छब्दस्यैव शक्ततावच्छेदकतापत्या तिबादिषु पाणिनेस्तिङ्पदसंकेतवत् तत्र शब्दान्तरसंकेतस्याप्यन्यपुरुषीयस्थ संभवात् तत्तच्छब्दानामपि प्रवृत्तिनिमित्ततायाः सुवचत्वाद् विनिगमनानुपपत्तेः । ताकनाशाभावस्य घटादौ ना बोधनासंभवाद् नाशप्रतियोगित्वाभावस्यैव नत्रा बोधः स्वीकर्तव्य इति न प्रतियोगित्वरूपकर्तत्वस्यापि संसर्गत्वं संभवति. किं तु प्रकारत्वमेव तेन चाख्यातार्थवं प्राप्तमित्यर्थः । उक्तकमेणाख्यातस्य कर्तृत्वे शक्तिरिति ज्ञाते संप्रति शक्ततावच्छेदकज्ञानार्थमाशङ्कते-अथेति, आरूपाते कर्तृत्वनिरूपिता या शक्तता सा केन रूपेणास्तीति जिज्ञासास्ति । न चेति, तथा कर्तृत्वशक्ततावच्छेदकम् । दुर्वचत्वादिति- तिप्तसाद्यानुपूर्वीगां विभिन्नरूपत्वेन तित्वस्य तत्साधारणत्वाऽसंभवादित्यर्थः। ननु पाणिनिसंकेत आश्रयतासंबन्धेन तिङि संज्ञिनि वर्तत एवेति पाणिनिसंकेतसंबन्धेन तिपदवत्त्वं तिङ्पदबोध्ये तिङि यदस्ति तदेव तिङ्वं ज्ञेयं तिबाधष्टादशसु तत्पदसंकेतप्राहकम्-तिङ्पदसंकेतप्राहक :च “ अन्त्येनेतासहितआदिमध्यगानां स्वस्य च संज्ञा स्यात् " इतिवृत्त्युक्तरीत्या " आदिरन्स्येन " इतिसूत्रमेवेत्यर्थः । नन्वेवं तिपदस्य तिबाद्यष्टादशसु संकेतमस्तीतिज्ञानरहितानामवैयाकरणानां तिङ्पदसंकेतग्रहो न स्यात्तेन च शाब्दबोधानुपपत्तिरित्याशङ्क्याह-- तत्संकेतमविदुषामिति, तेषां तिप्त्वमेव शक्ततावच्छेदकम् 'पचति ' इत्यादौ श्रूयमाणतिप एव कर्तृत्वे शक्तिरिति भ्रमादेव कर्तृत्वविषयकशाब्दबोधो भवतीत्याशङ्क्याह-- न चेति । उत्तरमाह- एवमिति, यदा केनचित् पुंसा मदुक्तपटपदेन त्वया घटपदं ज्ञेयमिति संकेतः कृतस्तदा तत्पुरुषीयसंकेतसंबन्धस्यापि संभवित्वात् तत्पुरुषीयसंकेतसंबन्धेन घटपदस्य पटपदवत्वं प्राप्तमिति तत्र पटपदस्यैव शक्ततावच्छेदकत्वं भवेन्न तु घटपदत्वस्य न चैतदिष्टमित्यर्थः, किं च यथा पाणिनिना तिबादिषु तिपदसंकेतः कृतस्तथान्येन व्याकरणनिर्मात्रा तिबादिषु डिपदसंकेतोपि कर्तुं शक्यते इति तत्संकेतसंबन्धेन डिपदवत्त्वमपि तित्वं स्यादिति तत्तच्छब्दानाम्=पटतिडिङादिशब्दानां शक्ततावच्छेदकतापत्त्या तत्तछब्दानां प्रवृत्तिनिमित्तत्वं स्यादेव न चैतदिष्टम्, तिपदस्यैव प्रवृत्तिनिमित्तत्वं न डिङ्पद "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668