Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 583
________________ आख्यातार्थविचारः] व्युत्पत्तिवादः। (५७१) एवम्- 'चैत्रेण ज्ञायते' इत्यादावाधेयत्वस्य तृतीययाऽविवक्षणे प्रातिपदि. कार्थमात्र विवक्षया तद्विषयानुशिष्टप्रथमैव स्यात् । —जानाति चैत्रः । इत्यादी चाख्यातेन कर्तृत्वाविवक्षणे धात्वर्थरूपभावमात्रपरतया परस्मैपदस्य इनादिविकरणस्य चाऽसाधुतापत्ति:-" भावकर्मणोः" इत्यात्मनेपदविधायकानुशासनविषयत्वात् , “ कर्तरि" इत्यधिकारीयत्र्यादिभ्यः इनेत्यनुशासनाविषयत्वाञ्चेति तत्राख्यातस्य कर्तृत्वबोधकतायुक्तिस्तु न साधीयसी-इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षाया आत्मनेपदानुशासनविषयतोपगमादुक्तस्थले परस्मैपदसाधुतायाः. तादृशभावविवक्षादिविरहस्य श्नाद्यनुशासनविषयत्वोपगमेन इनादिविकरणस्य साधुतायाश्च निर्वाहसंभवात् । कर्तृत्ववदाधेयत्वस्यापि प्रकारत्वमेव युक्तं न संसर्गत्वमित्यर्थः । तादृशसंबन्धस्य अनुकूलकतिमत्त्वरूपकर्तृत्वसंबन्धस्य । - आधेयत्वस्य तृतीयार्थत्वाभावे दोषान्तरमाह- एवमिति, तद्विषयानुशिष्ट प्रातिपदिकार्थमात्रविषयानुशिष्ट । तथा च ' चैत्रो ज्ञायते ' इति स्यात् 'चैत्रेण ज्ञायते ' इति न स्यात्. न चैतदिष्टम् । कर्तृत्वस्याख्यातार्थत्वामावे दोषमाह- जानातीति । अविवक्षणेति- कर्तृत्वस्याख्यातार्थस्वाभावे इत्यर्थः । कर्तृत्वविवक्षायामेव परस्मैपदस्य श्नाप्रत्ययस्य च साधुत्वात् । परस्मैपदस्यासाधुतापत्तौ हेतुमाह- भावकर्मणोरिति । श्नाविकरणस्याऽसाधुतापत्तौ हेतुमाहकर्तरीति । इत्येवमाख्यातस्य कर्तृत्वबोधकतायुक्तिमुक्तामस्वीकुर्वन्नाह- इति तत्राख्यातस्पेति, न साधीयसीति-आख्यातस्य कर्तृत्वाबोधकत्वेपि यत्र धात्वर्थस्येतरविशेषणत्वं न भवति तत्रात्मनेपदं भवति यथा 'ज्ञायते' इत्यत्र धात्वर्यस्यैव प्रधानत्वात् यत्र चेतरविशेषगत्वं भवति तत्र परस्मैपदं भवति यथा 'जानाति' इत्यत्र धात्वर्थस्य प्रथमान्तार्थे विशेषणत्वादित्येवंयुक्त्या व्यवस्थासभवानोक्ता युक्तिः साधीयसीत्यर्थः। एतदेवोपपादयति- इतरेति । क्रियैव भाव इति क्रियाबोधपरत्वरूपैव भावविवक्षा ज्ञेया सा यत्रेतराऽविशेषणतया भवति तत्रैवात्मनेपदं भवतीत्युक्तस्थले'जानाति चैत्रः । इत्यत्र धातोश्चैत्रविशेषणतयैव क्रियाबोधपरत्वमस्तीत्यात्मनेपदाऽप्राप्त्या परस्मैपदस्य साधुतानिर्वाहः संभवति तथा तादृशमावविवक्षादिविरहस्य इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षा यत्र न भवति तत्र श्नादिविकरणं भवतीति 'जानाति । इत्यत्र धात्वर्थज्ञानस्य चैत्रे विशेषणत्वादितराविशेषणतया धातोः क्रियाबोधपरत्वं नास्तीति श्नादिविकरणस्य साधुतानिर्वाहः संभवत्येवेत्यर्थः । यद्याख्यातस्थ · कर्तृत्ववाचकत्वं विना ' जानाति , इत्यादौ परस्मैपदस्य साधुत्वं नोपपद्येत तदा परस्मैपदसाधुरवार्थमाख्यातस्य कर्तृत्ववाचकत्वमुक्तयुक्त्या प्राप्नुयात. उक्तयुक्तेश्च साधीयसीत्वं स्यादपि न चैवमस्ति- आख्यातस्य कर्तृत्वाऽवाचकत्वेपि मदुक्तयुक्त्या परस्मैपदनादिविकरणयोः ' जानाति । इत्यादौ साधुत्वसंमवादित्याक्षेपाभिप्रायः । तस्मात्-- 'जानाति । इत्यत्र नाख्यातस्य कर्तृत्ववाचकत्वं किं त्वाश्रयस्वार्थकत्वमेव पूर्वोक्तं विज्ञेयम् । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668