Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 594
________________ सादर्श: [ आख्यातप्रकरणे जन्यफलाभाव एव तत्रान्वेतीत्युच्यते ?, तदापि यत्र चैत्रमैत्रयोरुभयकर्मजस योगस्तत्र चैत्रनिष्ठतादृशसंयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नभेदवत्वो. भवसंबन्धेन सत्त्वात् 'चैत्रेण चैत्रो न गम्यते' इत्यस्यानुपपत्तिः 'चैत्रेण चैत्री गम्यते' इत्यापत्तिश्च । ___ अत्रोच्यते-भेदः फलं च कर्माख्यातार्थः, स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन चैत्रादिनिष्ठक्रियाविशेषितभेदस्य स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वोभयसंबन्धेन फलेन्वयः, विशिष्टफलस्य नाऽसमभिव्याहारे विशिष्टफलाभावस्य नसमभिव्याहारे च कर्मण्यऽन्वयः। चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रवृत्तिक्रियावच्छिन्नभेदस्य चैत्रेऽसत्त्वेन विशिष्टफलाभावोऽक्षतः । -- - ------------ - मिव्याहारे चोक्तोभयसंबन्धेन क्रियाजन्यफलाभाव एव तत्र प्रथमान्तार्थकर्मण्यऽन्वेति नत्रा बोध्यते इत्यन्वयस्तथा च 'मल्लेन मल्लो न गम्यते' इत्यत्र मल्ले मल्लान्तरनिष्ठक्रियाजन्यसंयोगो नास्तीति तदभाव एव ना बोध्यते इति नैतत्प्रयोगानुपपत्तिरित्यर्थः । अत्र दोषमुद्घाटयति- तदा पीति, चैत्रनिष्ठस्य तादृशसंयोगस्य-उभयकर्मजसंयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नमेदवत्त्वोमयसंबन्धेन सत्त्वमेवास्ति- चैत्रे आश्रयत्वस्यापि सत्त्वात् तादशसंयोगजनिका या मैत्रनिष्ठा क्रिया तदवच्छिन्नो यो मैत्रनिष्ठक्रियावान्नेतिभेदस्तस्यापि च सत्त्वादिति नञा तदुभयसंबधावच्छिनफलाभावस्य चत्रे बोधनासंभवात् 'चैत्रेण चैत्रो न गम्यते' इतिप्रयोगो नोपपद्येत. चैने तादृशसंयोगस्य सत्त्वेन 'चैत्रेण चैत्रो गम्यते' इतिप्रयोगश्चापद्यतेत्यर्थः । निर्वस्तुमारमते- अत्रोच्यत इत्यादिना, भेदः फलं च पृथक् पृथगेव कर्माख्यातार्थ इत्यर्थः । क्रियाविशेषितभेदस्य क्रियाविशिष्टभेदस्य । स्वं क्रिया, क्रियावान्नेतिभेदस्य प्रतियोगितावच्छेदिका क्रियेवेति स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन क्रियाया मेदेऽन्वयस्तादृशक्रियाविशिष्टभेदस्य च स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वैतदुभयसंबन्धेन फलेऽन्वयः, यत्र ग्रामादौ फलं भवति तत्रैव भेदोपीति फले भेदसामानाधिकरण्यमप्यस्ति भेदस्य प्रतियोगितावच्छेदकीभूता या क्रिया तज्जन्यस्वमपि संबन्धभूतमस्त्येव. स्वं स्वं भेदः । तादृशोभयसंबन्धेन मेदविशिष्टफलस्य ' चैत्रेण गम्यते ग्रामः ' इत्यादौ नञऽसममिव्याहारे कर्मणि प्रामादावन्वयः, 'चैत्रेण चैत्रो न गम्यते । इत्यादौ नसमभिव्याहारे च कर्मणि प्रथमान्तार्थे चैत्रादावुक्तोभयसंबन्धेन भेदविशिष्टस्य फलस्याभावोऽन्वेति तथा च चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रे चैत्रवृत्तिक्रियावच्छिन्नभेद: चैत्रवृत्तिक्रियावान्नेतिभेदो नास्तीति चेत्रनिष्ठसंयोगे तादृशभेदसामानाधिकरण्यमपि न संभवतीति चैत्रे भेदसमानाधिकरणस्य विशिष्टफलस्य संयोगस्यामावोस्त्येव स एवं संयोगाभावो नञा प्रत्याय्यते इति · चैत्रेण चैत्रो न गम्यते । इतिप्रयोगस्यानुपपत्तिर्नास्ति, चैत्रे भेदसमानाधिकरणसंयोगस्यासत्त्वात् 'चैत्रेण चैत्रो गम्यते । इतिप्रयोगस्यापत्तिरपि "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668