Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 579
________________ आख्यातार्थविचारः] व्युत्पत्तिवादः। (५६७) क्रियाप्रकारकनामार्थविषयकबोधस्याऽव्युत्पन्नत्वादितिचेत् ?, न- उक्तातिप्रसङ्गवारणाय धातोः कर्मतादिसंबन्धेन क्रियान्वयाऽबोधकत्वव्युत्पत्तेरुपगमाद् न त्वाश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाऽबोधकत्वव्युत्पत्तेरित्यदोषात् ।। न च तादृशातिप्रसङ्गवारणाय धातुजन्यकृत्यादिप्रकारकान्वयबोधे प्रत्यय जन्यविशेष्योपस्थितेहेतुता वाच्या ताशकारणाभावात् प्रातिपदिकार्थविशेष्यकबोधोपि न संभवतीति वाच्यम्, कर्मवादिसंबन्धेन कृत्यादिप्रकारकबोधस्याप्रसिद्ध्या सामय्यडकल्पनेनाऽऽपादकाभावात् तादृशकारणताया अकल्पनात् । .. न च ' क्रियते चैत्रः' इत्यादौ कृत्यादिप्रकारकान्वयबोधवारणायैवोक्ता कारणताकल्पनमावश्यकमिति वाच्यम्, सति तात्पर्ये इष्टत्वात् । कर्तृविशेष्यपत्त्यात्र घटकर्मककृतेर्बोधः आपद्येत न चैवमस्ति तस्मात् क्रियाया अपि प्रातिपदिकार्थे साक्षाद् भेदान्वयो नैव भवति तथा च ' करोति चैत्र: ' इत्यत्रापि कृतेश्चैत्रे साक्षादन्वयवारगायाख्यातस्य सार्थकत्वं स्वीकर्तव्यं येनाख्यातार्थे एव कृतेः साक्षादन्वयः स्यादित्यर्थः । परिहरति- नेति । उक्तातिप्रसङ्गवारणाय='घटः करोति ' इत्यादौ धात्वर्थकृतेः कर्मतासंब. न्वेन घटेऽन्वयापत्तिवारणाय धातुः कर्मतादिसंबन्धेन प्रातिपदिकार्थे स्वार्थक्रियान्वयं न बोधयति. आश्रयतासंबन्धेन तु बोधयति इति व्युत्पत्तिः स्वीक्रियते तथा च' घटः करोति' इत्यत्र धात्वर्थक्रियायाः कर्मतासंबन्धेन घटेऽन्वयापत्तिर्नास्ति, 'करोति चैत्रः । इत्यत्र त्वाश्रयतासंबन्धेनैव धात्वर्थकृतेश्चत्रेन्वय इष्टस्तत्र च बाधकाभावात् नानुपपत्तिरित्यर्थः । न वितिआश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाऽबोधकत्वव्युत्पत्तेस्त्वनुपगमात् ' इत्यन्वयः । ननु धात्वर्थकृत्यादिप्रकारकान्वयबोधं प्रति प्रत्ययजन्याया विशेष्योपस्थितेः कारणत्वं वक्ष्या. मस्तथा च 'धदः करोति ' इत्यत्र घटस्य प्रत्ययेनोपस्थितेरभावान्न घटे कृत्यन्वयापत्तिः 'घर्ट करोति चेत्रः' इत्यत्र च द्वितीयोपस्थितकर्मतायां कृत्यन्वयः स्यादेवेत्याशझ्याह-न चेति । प्रातिपदिकार्थेति- धात्वर्थप्रकारकप्रातिपदिकार्थविशेष्यकेत्यर्थः । उत्तरमाह-- कर्मत्वादीति, यदि कृतेः कर्मतासंबन्धेन साक्षात् प्रातिपदिकार्थेऽन्वयबोधः प्रसिद्धः स्यात्तदा तदापादकसामन्या तदापत्तौ प्राप्तायां त्वदुक्तरीत्या कार्यकारणभावकल्पनेन तनिरोधः क्रियेतापि न च कर्मत्वादिसंबन्धेन कृत्यादिप्रकारकबोधः प्रसिद्ध इत्यर्थः । सामग्रीति- प्रसिद्धस्यैव सामग्री प्रकल्प्यते न त्वप्रसिद्धस्येत्यर्थः । तादृशकारणताया:-धातुजन्येत्यादिनियमस्य । ननु कृत्यादिप्रकारकान्वयबोधं प्रति प्रत्ययजन्यविशेष्योपस्थितेः कारणत्वकल्पने तु ' क्रियते चैत्रः ' इत्यत्र चैत्रस्य प्रत्ययजन्योपस्थितेरभावात् कृतिप्रकारकचैत्रविशेष्यकबोधस्यापत्तिर्नास्ति, उक्तकारणाऽकल्पने च स्यादेवेत्युक्तकारणकल्पनावश्यकतेत्याशक्याह- न चेति । अभ्युपगम्याह- सतीति, ' क्रियते चैत्र: ' इत्यत्रापि कृतिप्रकारकचैत्रविशेष्यकबोधतात्पर्ये सति ताहशबोध इष्ट एवेत्यर्थः । नन्वेवम् ' क्रियते चैत्रः' इतिप्रयोगः कथं न क्रियते ? इत्याशङ्या "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668