Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 552
________________ (५४०) सादर्श: [तद्धितप्रकरणेच मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वं न तु विंशत्तिाथरूपमासत्वमात्रम्-'यत्किचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारेपि चान्द्रसौरपौ'पादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात् । ___ अथैवमपि सौरे पौषादिव्यवहारस्य निर्विवादतया धनुःस्थरविविशिष्टत्वमेव न कथं पोषादिपदशक्यतावच्छेदकमुपेयते इतिचत् ?, : न- सौरे पौषादौ पौष्यादिपूर्णिमाया अलाभे योगरूढिलभ्यपौषपदार्थविलोपापत्तेः । न च तत्र रूढिमात्रमवलम्ब्यैव पौषादिव्यवहारः सौरपौषादौ मुख्य इति वाच्यम्, तथा सति योगार्थव्युत्पादनवैयर्थ्यात् । अथ विलुप्यतां वर्षविशेषे पौषादिपदमुख्यार्थः (व्यवहारः) का क्षतिः ? " सास्मिन् " इति सूत्रे तु संज्ञाग्रहणं नास्ति किं तु " संज्ञायां श्रवणाश्वत्थाभ्याम् " इतिसूत्रात् संज्ञापदमनुवर्त्यते । ननु मासपरपौषपदस्य कुत्र रूढिरस्तीति जिज्ञासायामाह- रूढिनिरूपकतेति, व्यवच्छेद्यमाह- न विति, यद्यपि कृष्णचतुर्थ्यादितिथिमारभ्य तदग्रिमकृष्णतृतीयादितिथिपर्यन्तं त्रिंशत्तिथिषु मासत्वव्यवहारो भवति तथापि चान्द्रसौरमासत्वव्यवहारस्तु नैव भवति चान्द्रमासव्यवहारस्य प्रतिपदमारभ्येव प्रवृत्तत्वात् सौरमासव्यवहारस्य च संक्रान्तिमारभ्यैव प्रवृत्तत्वादिति चान्द्रसौरमासभूतपोषादिबहिर्भूतासु पौष्यादि-पुष्ययुक्तपूर्णिमावटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहाराभावात् पौषादिपदरूढिनिरूपकतावच्छेदकं मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वमेव न तु त्रिंशत्तिथिरूपमासत्वमात्रमित्यर्थः । अत्र “तिथ्यन्तर्गत" इति पाठस्त्वधिक एवं प्रतिभाति । ननु सौरमासेपि पौषव्यवहारो मवत्येव तादृशसौरे पौषमासे कालिकसंबन्धेन धनुस्स्थरविधिक शिष्टत्वस्य सत्त्वाद् धनुस्स्थरविविशिष्टत्वमेव पौषपदशक्यतावच्छेदकमस्तु न तूक्तं मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वमित्याशङ्कते- अथैवमिति । परिहरति- नेति, धनुस्स्थरविविशिष्टत्वस्य पौषपदशक्यतावच्छेदकत्वे यदा सौरे पौषमासे पुष्ययुक्ता पूर्णिमा स्यात्तदैव तत्र पौषव्यवहारः स्यान्न तु पुष्ययुक्तपूर्णिमाया अलामेपि. यस्मिंश्च मासे पुष्ययुक्ता पूर्णिमा तस्मिन् धनुस्थरविविशिष्टत्वस्याभावादिति पौषपदार्थस्याऽभाव एव प्रसज्येत, योगरूढिपक्षे तु मासनिष्ठ. शुक्लप्रतिपदादिदीन्ततिथिसमुदायत्वस्य पौषपदशक्यतावच्छेदकत्वेन पौषपदार्थविलोपापत्तिर्नास्तीत्यर्थः । पुनराशङ्कते- न चेति, तत्र चोष्यादिपूर्णिमाया अलाभस्थले । रूढीति- पौषपदनिष्टरूढिमात्रमवलम्व्येत्यर्थः । परिहारहेतुमाह- तथा सतीति, “ सास्मिन् ' इतिसूत्रेण योगार्थव्युत्पादनस्य यस्मिन् मासे पुष्ययुक्ता पूर्णिमा स मासः पौष इति योगार्थव्युत्पादनस्य रूढिमात्रपक्षे वैयर्थं स्यादित्यर्थः । ननु वर्षविशेषे=कस्मिंश्चिद्वर्षे नाम यस्मिन् वर्षे सौरपौषमासे ( धनुस्स्थरविविशिष्टकाले ) पुष्ययुक्तपूर्णिमा नोपलभ्येत तादृशवर्षे-ताशवर्षवटकसौरपौषमासे विलुप्यतां पौषादिपदमु "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668