Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 567
________________ कर्तृत्वानभिधानपदार्थविचारः 1 व्युत्पत्तिवादः । ( ५५५ ) यदि च प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकतयैव धर्मिवेिषयतानिरूपितकर्तृत्वविषयताया आख्यातप्रयोज्यत्वं कर्तृत्वविषयतासामान्यं च नाख्यात पदज्ञान सामान्यजन्यतावच्छेदकं तादृशसामान्यकार्यकारणभावे मानाभावादित्युच्यते ?, तदापि ' चैत्रेण पच्यते तण्डुलः ' इत्यादिवाक्यार्थबोधस्य परस्परसमभिव्याहृतपदसमूहरूपवाक्यज्ञानहेतुकतया तद्वाक्यार्थविषयतान्तःपातिकर्तृत्वविषयताया वाक्यघटकाख्यातप्रयोज्यत्वं दुर्वारमेवेति । मैवम् - " अनभिहिते कर्तरि तृतीया " इत्यस्य ' कर्तृत्वविशेष्यतया प्रातिपदिकार्थेऽविवक्षिते सति तृतीया ' इत्यर्थः ' प्रातिपदिकार्थविशेषणतयैव कर्तृत्वेऽविवक्षिते इतियावत्, अवधारणतया च ' प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तदुत्तरं तृतीया ' इतिपर्यवसितम् । ननु न कर्तृत्वविषयतामात्रमाख्यातमात्रप्रयोज्यं भवति येन ' चैत्रेण पच्यते इत्यत्र धात्व. र्थविशेषणीभूताया अपि कर्तृत्वविषयताया: आख्यातप्रयोज्यत्वापत्त्या तृतीयाऽनुपपत्तिः स्यात् किंतु कर्तृभूतो यश्चेत्रादिरूपो धर्मी तन्निष्ठविषयता ( विशेष्यता ) निरूपिता या कर्तृत्ववि - यता ( कृतिनिष्ठा प्रकारता ) तस्या एव प्रथमान्तपदसमभिव्याहृताख्यातप्रयोज्यत्वमस्तीत्येतादृशविशेषरूप एक कार्यकारणभाव: स्वीक्रियते, कर्तृत्वविषयतासामान्यमाख्यातपदज्ञानसामान्यप्रयोज्यमिति सामान्यकार्यकारणभावे मानाभावात् तथा च प्रयोजकीभूताख्याते प्रथमान्तपदसमभिव्याहृतत्वमपेक्ष्यते प्रयोज्यभूतकर्तृत्वविषयतायां च प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकत्वम् ( बोध्यत्वम् ) धर्मिविषयतानिरूपितत्वं चापेक्ष्यते ' चैत्रेण पच्यते ' इत्यत्र च प्रथमान्तपदाभावेन प्रथमान्तपदसमभिव्याहृतमाख्यातमेव नास्ति यस्य कर्तृत्वविषयताप्रयोजकत्वं स्यात्तेन च कर्तृत्वाभिधानप्राप्त्या : तृतीयानुपपत्तिः स्यादित्याशङ्कयाह- यदीति । उत्तरमाह— तदापीति, ' चैत्रेण पच्यते तण्डुलः ' इत्येतद्वाक्यजन्यो बोध एतद्वाक्येनैव जन्यते एतद्वाक्यं चैतद्वाक्यघटकपद समूहरूपमेवेति वाक्ये आख्यातपदमपि वर्तते एतद्वाक्यजन्यबोधे च कर्तृत्वविषयतापि भासते एवेति एतद्वाक्यस्यैतद्वाक्यार्थ प्रयोजकत्वे एतद्वाक्यघटकाख्यातस्यैतद्वाक्यार्थघटक कर्तृत्वविषयताप्रयोजकत्वं प्राप्तमेवेति तृतीयानुपपत्तिस्तदवस्थैव- तृतीयाप्रयोजकस्य कर्तृत्वविषयत्वाप्रयोजकत्वरूपस्य कर्तृत्वानभिधायकत्वस्य लकारे प्राप्त्यभावादित्यर्थः । ८ " अनभिहिते कर्तरि तृतीया " इत्यत्राऽनभिहितपदस्य उक्ताऽवाचकत्वाद्यर्थकत्वे उक्तानु-पपत्तीनां सत्त्वान्न तथा व्याख्या कर्तव्या किं तु प्रदर्श्यमानरीत्यत्रोक्तवचनव्याख्या कर्तव्येत्य-. भिप्रायेणाह - मैवमिति, ' चैत्रेण पच्यते ' इत्यत्र ' चैत्रवृत्तिकृतिजन्यो व्यापारः ' इति वा चैत्रवृत्तिकृतिजन्यपाकजन्य विक्लित्त्याश्रयस्तण्डुलः ' इति वा बोधोदयात् कृतेः = कर्तृत्वस्य प्रातिपदिकार्थे चैत्रे विशेषणत्वं नास्ति - व्यापारे विशेषणत्वात् प्रातिपदिकार्थस्य च कृतिवि 7 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668