Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 573
________________ आख्यातार्थे मीमांसकादिमतम् ] व्युत्पत्तिवादः। (५६१) शक्त्युपगमे तत्राऽमुख्यार्थेऽनादितात्पर्यकल्पनायां गौरवात् । एवम् ‘बीजादिनाऽङ्कुरः कृतः' इत्यादौ विनापि यत्नं कृत्रः प्रयोगात् तस्यापि व्यापारसामान्यार्थकता, अतः करोतिविवरणीयार्थकत्वोपे नाख्यातस्य यत्नत्वावच्छिन्नवाचकता न वा' किं करोति ? ' 'पचति' इतिप्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् । अत्र केचित — पचति । इतिवाक्यजन्यबोधे सति यत्नत्वावच्छिन्ने वर्तमानत्वसंशयानुदयात् तत्र यत्नत्वावच्छिन्ने वर्तमानत्वबोधकत्वसिद्धौ तदवच्छिन्ने शक्तिलाघवात् सिद्ध्यति. न हि यत्नाविनाभूतक्रियाविशेषलिङ्गकानुमानलभ्येन यत्त्वावच्छिन्नेन समं वर्तमानत्वान्वयबोधकत्वमाऽऽख्यातस्यार्थाध्याहारमतेपि संभवति- लडादिजन्यवर्तमानत्वान्वयबोधे लडादितत्समभिव्याहृतधात्वन्यतरकृतित्वेन बोधस्य सविवादत्वान्न कृतित्वावच्छिन्ने शक्तिस्वीकार उचित इत्यर्थः । विपक्षे बाधकमाह- तथापीति, कृतित्वेन बोधस्य सविवादलेपि तदवच्छिन्ने कृतित्वावच्छिन्ने शक्तिस्वीकारे रथो गच्छति' इत्यादावऽमुख्यार्थे व्यापारे निरूढलक्षणापत्त्या गौरवमित्यर्थः । यथाऽऽख्यातस्य व्यापारवाचकता तथा कृधातोरपि व्यापारवाचकत्वमेव न तु यत्नवाचकत्वमित्याह-एवमिति । तस्य कृतः । नैयायिकैः ‘पचति ' इत्यस्य 'पाकं करोति । इत्येवं विवरणात् करोतेश्च यत्नवाचकवात् करोतिना वित्रियमाणाख्यातस्यापि यत्नवाचकत्वं प्राप्तं यत्न एव च कृतिरित्युक्तं तत् परिहरनाह-अत इति, करोतेरेव यत्नवाचकत्वं नास्ति येन तेन वित्रियमाणाख्यातस्य यत्नवाचकत्वं स्थात्. किं तु करोतेरप्युक्तरीत्या व्यापारवाचकत्वात् तेन वित्रियमाणाख्यातस्यापि व्यापारवाचकत्वमेव प्राप्तमित्यर्थः । एवम् ‘किं करोति' इति प्रश्ने ' पचति । इत्युत्तरं दीयते प्रश्नोत्तरवाक्ययोश्च समानविषयकत्वनियमात् समानप्रकारकबोधजनकत्वमस्ति तथा च ' किं करोति । इत्यस्य कृतित्वप्रकारकबोधजनकत्वेन ' पचति ' इत्यत्राख्यातस्यापि कृतित्वप्रकारकबोधजनकत्वं प्राप्तमिति कृतावेव शक्तिरिति यदुक्तं नैयायिकैस्तत्परिहरन्नाह- न वेति । 'किं करोति ' इत्यस्य कृतित्वप्रकारकबोधजनकत्वमेव नास्ति किं तु व्यापारत्वप्रकारकबोधजनकत्वमेव तथा च तदुत्तरवाक्यस्य 'पचति' इत्यादेरपि व्यापारत्वप्रकारकबोधजनकत्वं न कृतित्वप्रकारकबोधजनकत्वमित्यर्थः । तथात्वम् यत्नार्थकत्वम् ।। मीमांसकपराकर्तृमतविशेषमनुवदति-अत्रेति । सति जाते । तत्र= पचति ' इतिवाक्यजन्यबोधकाले । यत्नत्वावच्छिन्ने यत्ने-कृतौ । ननु यत्नं विना क्रिया न संभवतीति क्रियया यत्नानुमानं भवति तथा चानुमानेनाध्याहृते एव यत्ने लडर्थवर्तमानत्वस्वान्थयो भवतीत्याशङ्कयाह-न हीति । परिहारहेतुमाह- लडादीति, आख्यातार्थवर्तमानत्वान्वयं प्रति लडादिजन्या लडादिसमभिव्याहृतधातुजन्या वा या विशेष्यस्य यत्नस्योपस्थितिस्तस्याः कारणत्वमावश्यक तथा च ' पचति । इत्यत्र लडुपस्थितवर्तमानत्वस्य लडुपस्थितयत्नेऽन्वयः — करोति । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668