Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 556
________________ (५४४) सादर्श: [तद्धितप्रकरणे-- न च “सास्मिन् पौर्णमासी ” इतिसूत्रस्य' अस्मिन् पौष्यादिपूर्णिमायोग्यता ' इत्यर्थविवक्षया धनुरादिराशिस्थरव्यारब्धशुक्लपतिपदादिदर्शान्ते तद्धिवान्तसमुदायरूढिप्राहकतयोपपत्तौ योगरूढिस्वीकारोऽनुचित इतिवाच्यम्, केवलरूढिपक्षे समुदायशक्यतावच्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात, पौषतैषमाषादिनानापदानां गुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य " सास्मिन् " इत्यर्थेऽणः प्रत्ययस्यैकशक्तिकल्पनाधिक्यस्योचितत्वात् ।। न च योगरूढिपक्षे पौषादिपदानां योगार्थरूढयर्थाभेदान्वयबोधजनकत्वक. ल्पनाधिक्येन गौरवमिति वाच्यम्, भवन्मतेपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सति च तत्तदाभेदान्वयपरत्वग्रहे तथान्वयबोधस्य दुरपहवतया तत्र तादृशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक् । त्वम्, यौगिकत्वं तु पुष्ययुक्तायां पूर्णिमाभिन्नायामेव तिथावित्यर्थः । किंचितस्वीकुर्वन्नुत्तरमाहभवत्विति । निरुक्तरूपावच्छिन्नपूर्णिमारूढम्-धनुरादिस्थरव्यारब्धपक्षीयत्वरूपावच्छिन्नपूर्णिमारूढम् । पौषीपदस्य केवलरूढत्वे सिद्धपि.मासादिपरपोषादिपदानां तु योगरूढत्वमेव- निरुक्तरूपावच्छिनपौर्णमासीयोगपुरस्कारेणैव मासादिवाचकवादित्यर्थः । भादिपदेन वर्षों ग्राह्यः । . पुनराशङ्कते-- न चेति । रूढिग्राहकता युक्तसूत्रस्य ज्ञेया । तद्धितान्तसमुदायस्य पौष इत्यादि पदस्य । अनुचित इति- योगरूढिपक्षे यौगिकार्थानुसंधानापत्त्या गौरवादित्यर्थः । परिहारमाह- केवलेति । समुदायशक्यतावच्छेदकशरीरे-पौषेत्यादितद्धितान्तसमुदायशक्यताव-. च्छेदके । त्वया हि धनुरादिस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्ते काले पौषादिपदस्य रूढिरूपा शक्तिरुक्तेति तत्रारब्धान्तस्य-धनुरादिस्थरव्यारब्धेतिविशेषणस्य प्रक्षेपण गौरवं तव मतेप्यस्त्ये. बेत्यर्थः । अनेकेषां तद्धितान्तसमुदायानां धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्तकाले शक्तिकल्पनापेक्षयाऽण्प्रत्ययस्यैव " सास्मिन् " इत्यर्थे शक्तिकल्पना युक्ता-- अणूप्रत्ययस्यैकत्वात् तद्धितान्तसमुदायानां पौषतेषमाघादीनां नानात्वादित्यर्थः । तस्मात् पौषादिपदानां तु योगरूढत्वमेव न तु केवलरूढत्वमिति भावः । ननु योगरूढिपक्षे य एव यौगिकार्थः स एव रूढार्थ इति तयोरभेदेनैवान्वयः स्यादिति पौषादिपदानां योगार्थरूढयर्थयोरभेदान्वयबोधजनकत्वेनैव गौरवं स्थादित्याशङ्कयाह-- न चेति । उत्तरमाह- भवन्मतेपीति । तत्तदर्थे-पौषमासादौ । तत्तदर्थाभेदान्वयपरत्वग्रहे-योगा. र्थरूढयर्थाभेदान्वयपरत्वग्रहे । तथान्वयबोधस्य अभेदान्वयबोधस्य । तत्र-पौषादिपदे । तादृशबोधहेतुताकल्पनस्य योगार्थरूढयर्थाभेदान्वयबोधजनकत्वकल्पनस्यावश्यकत्वादुक्तं गौरवं भवन्मतेप्यस्त्येवेति पौषादिपदानां योगरूढत्वमेव युक्तं न तु केवलरूढत्वमित्यर्थः । प्रकृतवादमुपसंहरति-इति दिगिति । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668