Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 537
________________ आधारताविचारः ] व्युत्पत्तिवादः । स्पर्शायाधारवाय्वादे रूपाद्याधारतावारणायाऽऽधेयभेदेनाधारत्वमतिरिक्तम्, इति न सत् - आधेयभेदभिन्नाधिकरणतानामऽतिरिक्तसमवायस्य च कल्पना - मपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगन्तुमुचितत्वात् । ( ५२५) अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु कुण्डबदरादिसंयोगानां कुण्डादिकमनुयोगि नतु बदरादिकमिति नातिप्रसङ्गः । न चैवमपि बदरादेः कुण्डादिनिष्टसंयोगानुयोगितया आधारतापत्तिः- तादृशसंयोगस्य कुण्डादिनिष्ठस्वेपि तत्प्रतियोगिकत्वानुपगमात् तत्प्रतियोगिकसंबन्धानुयोगिताया एव तदाधारव्यवहारप्रयोजकत्वात् । न चासौ संयोगो बदरादौ कुण्डादिविशिष्टबुद्विमयोजकतयोभयानुयोगिक एवमुभयप्रतियोगिकोपीति वाच्यम्, आधेये संयोगेनाधिकरणविशिष्टबुद्धेरप्रामाणिकत्वात्, 'कुण्डे बदरम्' इत्यादिवि " नन्वेवं हि वायौ स्पर्शसमवायोस्त्येव समवायश्चैक एवेति वायौ रूपसमत्रायप्रसक्त्या रूपा -- धारतापि प्रसज्येत न चैतदिष्टमिति तद्दारणायाऽधेयभेदेनाधारत्वं समवायाद्यतिरिक्तं स्वीक्रियते तथा च वायौ स्पर्शाधारतासत्त्वेपि रूपाधारताप्रसक्तिर्नास्ति- रूपाधारतायाः स्पर्शाधारतापेक्षयाऽतिरिक्तत्वात्तस्याश्च वायाबस्वीकारादित्याशयेनाह - स्पर्शेति । परिहारमाह- इति न सदिति । एवं ह्याधारमेदेनाधारतानामनन्तानां स्वीकारः प्राप्तः समवायस्यापि प्राप्त इति गौरखं स्यादित्याय भेदेन समत्रायभेद एव स्वीकर्तुमुचितस्तथा च वायौ स्पर्शसमवायसत्त्वेपि रूपसमवायाभावाद्रूपाधारताप्रसक्तिर्नास्तीत्यर्थः । शङ्कते - अथेति । संयोगानुयोगिनः कुण्डादेरेवाधारत्वस्वीकारान बदरादेः कुण्डाद्याधारतातिप्रसङ्ग इत्यर्थः । नन्वेषमपि कुण्डबदरयोः संयोगस्यैक्यात् यः स्खलु कुण्डे संयोगः स बदरेप्यस्त्येवेति कुण्डनिष्ठसंयोगानुयोगिता बदरेपि प्राप्तेति कुण्डनिष्टसंयोगानुयोगितया बदरस्य कुण्डाधारत्वं स्यादेव - अनुयोगिन आधारत्वस्वीकारादित्याशङ्क्याह- न चेति । अनुयोगिताया इति पाठे तु पञ्चम्यन्तं तत् । अत्र " बदरादेः" इत्यस्य स्थाने "कुण्डादेः" इति पाठस्त्वऽसङ्गत एव भाति । उत्तरमाह - तादृशेति । तादृशसंयोगस्य = कुण्डबदर संयोगस्य । तत्प्रतियोगिकत्वानुपगमात् कुण्ड प्रतियोगिकत्वानुपगमात् । नियामकमाह- तत्प्रतियोगिकेति, तथा च बदरे कुण्डानुयोगिकसंयोगानुयोगिता वर्त्तते न तु कुण्डप्रतियोगिकसंयोगानुयोगितेति न बदरस्य कुण्डाधारताप्रसक्तिः कुण्डे च बदर प्रतियोगिकसंयोगानुयोगिता वर्तते इति कुण्डस्य बदराधारता प्राप्तेत्यर्थः । ननु कुण्डबदरयोः संयोग एक एव तेन च कुण्डे बदरविशिष्टबुद्धिवद् बदरेपि कुण्डविशिष्टबुद्धिर्जायते एवेति स संयोग एकत्वाद् यथा कुण्डबदरोभयानुयोगिकस्तथोभयप्रतियो गिकोप्यस्त्येव तथा च बदरेपि कुण्डप्रतियोगिकसंयोगानुयोगिता प्राप्तेति बदरस्य कुण्डाधारत्वं किं न स्यादित्याशङ्क्याह- न चेति । परिहारमाह- आधेये इति, आधेये अधिकरणाधार ताज्ञानस्याप्रामाणिकत्वादेव नाधेयस्य बदरादेः कुण्डादिलक्षणत्वाधिकरणाधारतापत्तिरित्यर्थः । नियामकमाह- कुण्डे इति, यद्यपि ' बदरवत् कुण्डम् ' इत्यादौ कुण्डस्य प्रथमा - "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668