Book Title: Vismi Sadini Viral Vibhuti Part 02
Author(s): Hemvallabhvijay
Publisher: Sahasavan Kalyanakbhumi Tirthoddhar Samiti Junagadh
View full book text ________________
"अद्य उपवासप्रत्याख्यातः'
- प.पू. आ.कलाप्रभसूरिः
अधुनैव कच्छदेशीय-चित्रोऽग्राम वास्तव्येन श्रीमणिलाल महाभागेन कथितं यत् पू. हिमांशुविजयाः पू. नररत्नविजयाश्च (प्रायेण वि.सं. २०१६) अस्मदीये ग्रामे समागताः।
अस्माभिः ते विज्ञप्ताः पूज्यवराः आहारार्थं समागच्छन्तु तत्र भवन्तः । तैरुक्तं अत्र कियन्ति जैन-गृहाणि ? अस्माभिः कथितं दशमितानि वर्तन्ते प्रायेणः।
"अस्माभिस्तु अद्य उपवासः प्रत्याख्यातः । यतः अत्र चत्वारि एव गृहाणि वर्तन्ते इति अस्माभिः श्रुतमासीत् । दोषिताऽऽहारभयादेव एवं कृतमस्माभिः।" इति तेषां प्रतिवचनं श्रुत्वा अस्माकं मस्तकानि नतानि तेषां चरणेषु । तस्मिन् वर्षेच कच्छदेशस्थ - 'अङ्गीया' ग्रामे चातुर्मासं तैः विहितमासीत् ।
एकदा सिद्धचक्रपूजनप्रसङ्गे पण्डितधनंजयमुखात् ब्रुतमासीत् -
एतैः महापुरुषैः गिरिनारतीर्थे षोडशोपवासान् प्रत्याख्याय प्रतिदिनं पादाभ्यामेव उज्जयन्त तीर्थयात्रां विधाय एकादशे उपवासे ततः शत्रुञ्जयं प्रति प्रस्थितम् । पादाभ्यामेव गत्वा यात्रां च कृत्वैव ते वसतौ स्थिताः । एवं द्वात्रिंशतिउपवासेषु तैः प्रतिदिनं यात्रा विहिता । पारणकदिनेऽपि यात्रां कृत्वैव अपराहने चतुर्वादनवेलायामेव आचाम्लतपः विहितम् ।
एते महातपस्विनः आसन्-इति तु प्रायः सर्वेजानन्ति एव, किन्तु एते अस्मद्गुरुवर्यकलापूर्णसूरीश्वराणामपि महान्तः उपकारिणः आसन् । यतः तैः गृहस्थावस्थायां विधिपूर्वकं चतुर्थ व्रतं एतन्महात्ममुखादेव गृहीतमासीत् । ।
यद्यपि एते महात्मानः बहुशः मिलिताः सन्ति, परन्तु तस्मिन्नवसरे समयाभावात् अधिकः परिचय न जातः परं यदायदा वयं तेषां सान्निध्ये गताः तदा तदा सदैव मुखे प्रसन्नतैव दृष्टा । तपस्विनां मुखे प्रसन्नतादर्शनं प्रायेण दुर्लभं भवति, परन्तु एते पूज्याचार्याः तपस्विनः अपूर्वा प्रसन्नतामपि धारयन्ति स्म । “तपकरीए समता राखी घटमां" इति उक्तिं स्मारयति स्म तेषां प्रसन्नता ।
महामहिमशालिनां तेषां आचार्यप्रवराणां चरणेषु अनेकशः नतिततयः सन्तु।
TO
PUTUSE UNY
www.jainelibrary.org
Loading... Page Navigation 1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246