Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 320
________________ NYAYĀVATĀRAN तद्वत्ताप्रकाशकेन वचसा तद्धेतूनामसिद्धतोद्भाव्यत इति । तदयुक्ततरम्, यतो यदीदमप्रमाणमिति नाभिधेयादीनि साक्षाल्लक्षयत् प्रवर्तयति, ततः परोपन्यस्तहेत्वसिद्धतां कथयतीति युक्तिरिक्त पश्यामः, अप्रमाणस्याकिंचित्करत्वात्, अन्यथा प्रमाणविचारणमानर्थक्यमश्नुवीत । तस्मादिदं प्रमाणभूतं सदभिधेयादीनि प्रतिपादयत् प्रेक्षावतः प्रवर्तयतीति प्रकरणादावुपन्यस्तम् । संबन्धशून्यत्वादस्य कथमर्थे प्रमाणतेति चेत्, प्रत्यक्षेऽपि कथं तहि सेति वाच्यम् । ग्राह्यग्राहकभावसंबन्धबलादिति चेत्, अत्रापि वाच्यवाचकभावादिति ब्रमः । स एव कथमिति चेत्, अध्यक्षेऽपि वेद्यवेदकभावः कथमिति वाच्यम् । तदुत्पत्तितदाकारताभ्यामिति चेत्, केयं तदुत्पत्तिर्नाम। तज्जन्यतेति चेत । प्रतिक्षणं भङ्गुरत्वे सैव दुरुपपादेत्याचक्ष्महे । तथा हि क्षणनश्वरोऽर्थः स्वक्षणे-पूर्व पश्चाद् वा कार्यं कुर्यादिति त्रयी गतिः । तत्र न तावदाद्यः पक्षः कक्षीकरणीयः, समकालभाविनिव्यापाराभावात्, इतरथैकक्षणवर्तिनां समस्तार्थक्षणानामितरतरं कार्यकारणभावः प्रसज्येत, तथा च तत्प्रयुक्तो ग्राह्यग्राहकभावश्चेत्यसमञ्जसमापनीपद्येत । अथ स्वक्षणात्पूर्वम्, अचारु एतदपि, स्वयमसतो भविष्यच्छङ्खचक्रवादेरिव पूर्वकालवर्तिनि कार्ये व्यापाराभावात् । अथ स्वक्षणादूर्ध्वं कार्य विधत्त इति मन्येथाः, एतदप्यसाधीयः, विनष्टस्य कार्यकरणाक्षमत्वात्, अन्यथा मतस्य शिखिन: केकायितं स्यात् ।। तदाकारतापि किमर्थाकारसंक्रान्त्या, अथ तत्सदशतयोत्पत्तेर्ज्ञानस्येति । यद्याद्यः कल्पः, तदयुक्तम, ज्ञाने स्वाकारार्पणादर्थस्य निराकारतानुषङ्गात्, स्वदेहे पृथुतरार्थदर्शनप्रसङ्गात्, शिरःस्फोटनप्लावनाद्यनर्थप्रसक्तेश्च । अथ द्वितीयः, तथा सति सादृश्यवशादर्थव्यवस्थेत्यायातम् । न च अभिधेयादिसूचने इति । प्रास्तामभिधेयादीनां प्रतिपादने। एवंवादीति । एवं वक्ष्यमाणप्रकारेण वादवान् एवं वदनशीलो वा । तदिति तस्मादर्थे अव्ययम् । अनेनादिवाक्येनास्य शास्त्रस्य तद्वत्ता अभिधेयादिमत्ता॥ संबन्धशून्यत्वादित्यादि। इह यद्यपि परमार्थतो जनानां कथंचित्तादात्म्यलक्षण: शब्दार्थयोः संबन्धः। यदाह भगवान् भद्रबाहुस्वामी-- अभिहाणं अभिहेयाउ होइ भिन्नं अभिन्नं च। खुरपग्गिमोयगुच्चारण म्मि जम्हा उ वयणसवणाणं ॥१॥ विच्छेदो न वि दाहो न पूरणं तेण भिन्नं तु । जम्हा य मोयगुच्चारणम्मि तत्थेव पच्चो होइ ।।२।। न य होइ स अन्नत्थे तेण अभिन्नं तदत्थाम्रो ॥ इति । [अभिधानमभिधेयाद् भवति भिन्नमभिन्न च । खुराग्निमोदकोच्चारणे यस्मात्तु वदनश्रवणयोः ॥१॥ विच्छेदो नापि दाहो न पूरणं तेन भिन्नं तु । यस्माद् मोदकोच्चारणे तत्रैव प्रत्ययो भवति ।।२।। न च भवति स प्रन्यार्थे तेनाभिन्नं तदर्थात् । (छाया) ] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414