Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 411
________________ 94 VAISHALI INSTITUTE RESEARCH BULLETIN NO, I प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका। सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता ॥३२॥ प्रमाणानि प्रत्यक्षादीनि, अादिशब्दात नयपरिग्रहस्तेषां व्यवस्था प्रतिनियतलक्षणादिरूपा मर्यादा सेयमनन्तरोक्तस्थित्या प्रकीर्तितेति संसर्गः। किंभूता ? आह-आदिः प्रभवः, निधनं पर्यन्तः, न विद्यते आदिनिधने यस्यासौ तथाविध आत्मा स्वरूपमस्याः सा अनादिनिधनात्मिका सर्वसंव्यवहतणां लौकिकतीथिकादिभेदभिन्नसमस्तव्यवहारवतां प्रसिद्धापि रूढापि, तदप्रसिद्धौ निखिलव्यवहारोच्छेदप्रसङ्गात् , तदुच्छेदे च विचारानुत्थानेन कस्यचित्तत्त्वस्यन प्रतिष्ठितिः, प्रकीर्तिता संशब्दिता, अव्युत्पन्नविप्रतिपन्नव्यामोहापोहायेति गम्यते, प्रमाणप्रसिद्धेऽप्यर्थे प्रवलावरणकुदर्शनवासनादितः केषांचिदनध्यवसायविपर्यासरूपव्यामोहसद्भावात , तदपनोदार्थं च सति सामर्थ्य करूणावतां प्रवृत्तेरिति ।।३२॥ स्याद्वादकेसरिसुभोषणनादभीतेरुत्त्रस्तलोलनयनान् प्रपलायमान् । हेतुर्नयाश्रितकुतीथिमृगाननन्यत्राणान् विहाय जिनमेति तमाश्रयध्वम् ॥१।। भक्तिर्मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान्न मतिः स्वकीया। मोहादतो यदिह किंचिदभूदसाधु तत्साधवः कृतकृपा मयिशोधयन्तु ।।२।। ___ लौकिकतीथिकादीति । लौकिका हलधरादयः, तीथिका नैयायिकादयः, आदिशब्दात् शेषपाखण्डिपरिग्रहः । वासनादित इति । प्रादिशब्दात विप्रतारकवचनादिग्रहः ॥३२॥ साम्प्रतं शास्त्रपरिसमाप्ती शास्त्रकृत् सिद्धः परममङ्गलपदे भगवति जिने स्वयमत्यन्तानुरागादतिवत्सलतया परेषामपि तदा तदाधानाय तावदुपदेशमाह स्याद्वादेत्यादि । स्याच्छब्दो अस्तेर्यात्प्रत्ययान्तस्य प्रतिरूपकोऽव्ययः, स च यद्यपि विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिः, तथाऽप्यनेकान्तवृत्तिरिह गृह्यते, एकान्तप्रतिक्षेपस्यैवात्र प्रस्तुतत्वात्, तेनोपलक्षितो वादो स्याद्वादः, स एव केसरिसिंहः, कि कित ज्ञाने-इत्यस्य पौणादिके दन्त्यादौ सरप्रत्यये केसरः सटा, तथा च शृङ्गारप्रकाशेऽपि-के मस्तके सरतीति केसर इत्यखण्डयत् । स चायं केसरशब्द पुनपुंसकः, मत्वर्थीयेन्प्रत्ययान्तश्च सिंहे वर्तते, तस्यातिभैरवः परप्रवादिमृगपूगभयंकरत्वाद् नादो वादकालभावी वागविलासस्तस्मात् भीतिस्तस्याः । अयमत्र समुदायार्थः-शरणविकलपुरुष इव हेतुः सत्त्वादिः कमपि शरणाय शरण्यं मार्यमाणः स्याद्वादसिंहनादभयात् स्वयमपि पलायमानान् कुतीथिमृगान् परित्यज्यानन्याशरणतयायं जिनमाश्रयति । अन्यत्र क्वचित् कथंचित् हेत्वाभासतोपपत्तया अत्रैव स्वरूपं लभते, तमेव जिनं यूयमपि भव्याः भजध्वम् । युक्तं चैतत् पक्षपातरहितानां सर्वहेतुपुरःसरमेव मतेनिवेशादिति । यथैकान्तक्षणिकत्वे नित्यत्वे वा न कश्चित् हेतुरुपपद्यते, तथा प्रागेव स्वयमेव वृत्तिकृता प्रपञ्चितमिति । अधुना प्रौद्धत्यमात्मनः परिहरन् सुलभत्वात् क्षमस्थानां मोहस्य शास्त्रशोधने, ततः प्रार्थयन्नाह भक्तिरित्यादि । तच्छासनांशेति । तस्य भगवतो जिनस्य शासनमागमः, तस्यांशो लवस्तदभिधानात् । अत इति । यतो भक्तिव्यंक्ता कृता, न तु गर्वोबुरकंधरतया स्वमनीषिका प्रकाशितेति ॥ सांप्रतं वैवग्ध्यभिधीनं दर्शयन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414