Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 410
________________ NYAYAVATARAN 99 मस्ति, न च तेन परलोकगमनागमनादिकं चैतन्यस्योपलक्ष्यते, तेन दृष्टान्येव भूतानि तत्कारणतया कल्पनीयानीति चेत्, न, केवलप्रत्यक्षप्रतिक्षेपेण प्रमाणान्तराणां प्रागेव प्रसाधितत्वात , तथा च भूयांस्यनुमानानि परलोकानुयायिजीवसाधकानि प्रवरन् । तद्यथा-तदहर्जातबालकस्य पाद्यस्तनाभिलाषः पूर्वाभिलाषपूर्वकः, अभिलाषत्वात , द्वितीयदिवसादिस्तनाभिलाषवत । तदिदमनुमानमाद्यस्तनाभिलाषस्याभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्त्या परलोकयायिजीवमाक्षिपति, तज्जन्मन्यभिलाषान्तराभावात, एवमन्यदप्युदाहार्यमित्यास्तां तावत् । तदयं स्वपरप्रकाशः कर्ता भोक्ता नित्यानित्यात्मको भूतबिलक्षणः साक्षात - कृतकतिचिनिजपर्यायानुमितानाद्यनन्तकालभाविनिजानन्तपर्यायविवर्तःप्रमाणप्रतिष्ठितः पारमार्थिको जीवः सकलनयप्रमाणव्यापक: प्रमातेति स्थितम् ॥३१॥ __सांप्रतं पर्यन्तश्लोकेन प्रकरणार्थमुपसंहरन्नाह मत् न तद्विजातीयपरिणामः, यथा मृदात्मना सजातीयस्य मृत्पिण्डस्य परिणामो घट:, उत्पत्तिमच्चैतन्यम्, तस्मात् न विजातीयपरिणामः उत्पत्तिमत्त्वं सजातीयपरिणामत्वेन व्याप्तम्, तद्विरुद्धं च विजातीयपरिणामत्वम् । तत उत्पत्तिमत्त्वं स्वव्यापकाविरुद्धाद् विजातीयपरिणामत्वाद् विनिवृत्तं सत् सजातीयपरिणामत्वेऽवतिष्ठते इति विरुद्धव्यापकोपलब्धिः । सजातीयपरिणामत्वं वा साध्यम् । चैतन्यं सजातीयकारणपरिणामम्, उत्पत्तिमत्त्वात्, यदेवं तदेवम्, यथा मृत्परिणामो घटः, तथा चेदम् सजातीयपरिणामम् । तन्न निश्चेतनानि भूतानि चेतनाकरणे प्रवृत्तिभाजि भवितुमर्हन्तीति स्थितम् । अर्थापत्त्येति । यथा करतलाग्निसंयोगात् स्फोट: प्रत्यक्षेणोपलक्ष्यमाणो वढेर्दाहिकां शक्तिमुपकल्पयतीति, एवमेतस्मादनुमानादनुमीयमानोजन्माद्यस्तनाभिलाषात् प्राचीनोऽभिलाषश्चेतनावन्तमन्तरेणोपपद्यते, स्तम्भकुम्भाम्भोरुहादेरपि प्रसङ्गात् । यश्चेतनावान् स परलोकयायी जीव इति । एवमन्यदप्युवाहार्यमिति । सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वात्, यत् पुननिरात्मकं न तत् प्राणादिमत् यथा कुम्भः, प्राणादिमच्च जीवच्छरीरम, तस्मात् सात्मकमिति । साक्षावित्यादि । स्वसंवेदनप्रत्यक्षीकृतैः सत्त्वप्रमेयत्वद्रव्यत्वचिद्रूपत्वादिभिः कतिपयः स्वपर्यायरनमितोऽनाद्यनन्तकालभाविनामात्मीयानन्तपर्यायारणां व्यावृत्तः परिणामो यस्य जीवस्य स तथा । तथा हि--वर्तमानात्मपर्यायास्तदारमपर्यायान्तरपूर्वकाः, तान् विना तदनुपपत्तेः, यद्विना यनोपपद्यते तत् तत्पूर्वकम् यथा बीजमन्तरेणानुत्पद्यमानोऽङ्करो बीजपूर्वः, नोत्पद्यन्ते च पूर्वपर्यायानन्तरेण वर्तमानपर्यायाः, अतस्तेऽपि तत्पूर्वकाः । निर्हेतुकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणम् । एवं वर्तमानाः पर्यायाः पर्यायान्तरजनकाः, वस्तुत्वात्, यद् वस्तु तत् पर्यायान्तरस्य जनकम, यथा घट: कपालानाम्, वस्तूनि च विवादाध्यासिताः, तस्मात् पर्यायान्तरजनकाः। प्रत्राप्यवस्तुत्वप्रसङ्गो विपर्पये बाधकः, पर्यायाणं च पर्यायिणोऽभिन्नत्वात् वस्तु वस्त्वन्तरस्य जन्यं जनक चेत्युक्तं भवति । सकलनयप्रमाणव्यापक इति । ज्ञातुराशयात्मानो (नीयमाना) नयाः, प्रमाणानि प्रागभिहितस्वरूपाणि, ततः सकलशब्देन विशेषणसमासे तेषां व्यापकः वृक्षत्वमिव शिशपात्वस्य । अयमभिप्रायः-प्रात्मा हि ज्ञानरूपो नयप्रमाणे तु ज्ञानविशेषरूपे, ततो यथा वृक्षत्वविशेषः शिशपात्वं वृक्षत्वसामान्येन व्याप्यते, एवं ज्ञानविशेषात्मक नयप्रमाणे सामान्यज्ञानरूपेणारमना व्याप्येते इति ॥३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414