Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 412
________________ - 95 न्यायावतारविवृति विविधां विधित्सोः सिद्धः शुभो य इह पुण्यचयस्ततो मे । नित्यः परार्थकरणोद्यतमा भवान्ताद् भूयाज्जिनेन्द्रमतलम्पटमेव चेत ॥३॥ इति न्यायावतारविवृतिः समाप्ता ।। कृतिरियमाचार्यसिद्धव्याख्यानिकस्य । ग्रन्थाग्रम् २०७३॥ ग्रन्थकारः परमपदप्राप्ती बीजभूतां प्रार्थनामाह न्यायेत्यादि । सिद्ध इति । निष्पन्नः । अथ च व्याजेन ग्रन्थकर्ता स्वनामाभिधानद्वारेण सिद्धव्याख्याता प्रकरणमिदमकरोदिति प्रकाशितम् । जिनेन्द्रमतलम्पट इति । ननु च लाम्पट्यं सर्वानर्थहेतुत्वेन न प्रेक्षावतां प्रार्थनाविषयः, तत्कथं तद् भूयादित्याशास्यते? सत्यम्, विषयाधभिष्वङ्गरूपमेव लाम्पट्यमनर्थपरंपराहेतुत्वेन न प्रेक्षावद्भिराकाझ्यते । श्रवणमननध्यानादिरूपतया तु भगवद्वचनविषयं तत्परत्वं लाम्पट्यमपि परंपरया परमपदप्राप्तिहेतुत्वेन दक्षं प्रेक्षावतामाकाक्ष्यमाणं परमाभ्युदय हेतुरेव ।। प्रक्षामधाम्नोऽभयदेवसूरे नोरिवोजम्भितभव्यपमात् । प्रभूत्ततो हर्षपुरीयगच्छे श्रीहेमचन्द्रप्रभुरंशुराशिः ॥१॥ जीयात्तुणीकृतजगत्रितयो महिम्ना श्रीहेमसूरिरिति शिष्यमणिस्तदीयः । क्षीरोदविभ्रमयशःपटलेन येन शुभ्रीकृता दश दिशो मलधारिणापि ॥२॥ शैशवेभ्यस्यता तक रति तत्रैव वाञ्छता । तस्य शिष्यलवेनेदं चक्रे किमपि टिप्पनम् ।।३॥ न्यायावतारविवृतौ विषमं विभज्य किंचिन्मया यदिह पुण्यमवापि शुद्धम् । संत्यज्य मोहमखिलं भुवि शश्वदेव भट्टै कभूमिरमुना तु समस्तलोकः ॥४॥ इति न्यायावतारटिप्पनकं समाप्तम् ॥ग्रन्थानं १०५३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414