Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
NÝÂYÁVATÁRAÐ
91 च कायाकारपरिणतानि भूतान्येवात्मव्यतिरेकिणी चेतनामुत्कालयन्ति, सा च तथाविधपरिणामपरिणतेषु तेषु संतिष्ठते तदभावे पुनस्तेष्वेव निलीयते इति तद्वयतिरेकानुभवेऽपि न परलोकया यिजीवसिद्धिः, इयतैव दृष्टव्यवहारोपपत्तेः । नैतदस्ति, द्वयं हि तावदेतत संयोगमनुभवदुपलभ्यते--पञ्चभूतात्मकं शरीरं चेतना च । तत्रापि शरीरं बहिर्मुखाकारेण बोधनार्थरूपतया जडमनुभूयते, चेतना पुनरन्तर्मुखाकारेण स्वसंवेदनप्रत्यक्षेण साक्षाक्रियते, अत एवाव्यतिरेकः पक्षः प्रतिभासनिराकृतत्वान्नशङ्कितः। व्यतिरेकिणोः पुनः प्रकाशमानयोः यदि भूतान्येव चेतनामुत्कालयन्तीति भवद्भिः परिकल्प्यते, तदा चेतनैव भवान्तरादुत्पत्तिस्थानमायाता पञ्चभूतभ्रान्तिजनक शरीरं निवर्तयेत , पुनर्भवान्तर यातुकामा मुञ्चेत , तत्तयाधिष्ठितं गमनादिचेष्टां कुर्यात, तद्वियुक्त पुनः काष्ठवत्तिष्ठेदिति जीवसंपाद्यमेव शरीरम्, न पुनरसौ तत्संपाद्य इति । एतत्परिकल्पनं युक्ततरं पश्यामः, जीवस्य चेतनावतः सकर्मकतयापरापरभवभ्रमणपरापरशरीरनिर्वर्तनयोरुपपद्यमानत्वात । भवान्तरादागच्छन्नुत्पत्तिस्थानं जीवोऽध्यक्षेण नोपलभ्यते इति चेत् , भूतान्यपि तहि कायाकारधारणद्वारेण चेतनामुत्कालयन्तीति प्रत्यक्षेण नोपलक्ष्यन्ते इति समानो न्यायः । अथ कायाकारपरिणतेष्वेव भूतेषु चेतनोपलभ्यते नान्यदा इत्यन्यथानुपपत्तिवशात तज्जन्येति परिकल्प्यते, एवं तहि मृतावस्थायां कायाकारमाबिभ्राणेष्वपि नोपलब्धा, कायाकारपरिणामो वा कादाचित्कया हेत्वन्तरापेक्षी इत्यन्यथानुपपत्तिवशादेव तन्निवत नक्षमा चेतना भवान्तरागतचेतना जीवसंबन्धिनीति प्रतिपद्यामहे । किं च, जीवस्तावत् कर्मचैतन्यसंबन्धाच्छरीरंनिर्वर्तनार्थं प्रवर्तत इति युक्तमेवैतत , भूतानि पुनः किंभूतानि चेतनाकरणे प्रवर्तेरन् सचेतनानि निश्चेतनानि वा ? यद्याद्यः कल्पः, ततो विकल्पयुगलमवतरति तच्चैतन्यं तेभ्यो भिन्नमभिन्नं वा ? यदि भिन्नं तदा पुरुषशरीरवत तत्रापि भूतः सह वर्तमानमपि भूतविलक्षणमात्मकारणमनुविशिष्टाकारपरिणताया बुद्धे रात्मनीति । विभक्तत्यादिपाठान्तरेण व्याख्यानान्तरं तु हरिभद्रसूरिकृतं नेह प्रकाश्यते, बहु व्याख्याने व्यामोहप्रसङ्गात् । अन्ये तु विन्ध्यवासिप्रभृतयः
. पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् ।
मनः करोति सांनिध्यादुपाधिः स्फटिकं यथा ॥ इति भोगमाचक्षते । व्याख्या-यथोपाधिर्जपापुष्पपद्मरागादिरतद्रूपमपि स्फटिकं स्वकारां रक्तादिच्छायां करोति, एवमयमात्मा स्वरूपादप्रच्यवमानः चैतन्यं पुरुषस्य स्वं वचनमिति वचनादचेतनमपि मनो बुद्धिलक्षणमन्तःकरणं स्वनिर्भासं चेतनमिव करोति सांनिध्यात्, न पुनर्वस्तुतो मनसश्चैतन्यम्, विकारित्वात् । तथा हि-मनोऽचेतनम्, विकारित्वात् घटवदिति । अन्धेति । अन्धोपल: प्रतिबिम्बोत्पादनानह : खखट: पाषाणः । तदिति अन्यथानुपपन्नत्वम् । तद्वापकत्वात् व्यतिरेकबाधकत्वात् । उत्कालयन्तीति । कल-पिल-डिप क्षेपे चुरादावदन्तः, अधिकीकुर्वन्तीत्यर्थः तज्जन्येति । कायाकारपरिणामजन्या। तन्निर्वर्तनेति कायाकारपरिणामोत्पादनसमर्था । पुरुषशरीरेत्यावि। यथा पुरुषशरीरे यच्चैतन्यं तत् स्वोत्पत्तये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 406 407 408 409 410 411 412 413 414