Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 407
________________ 50 VAISHALI INSTITUTE RESEARCH BULLETIN No. i सात, अकतुर्भोगानुपपत्तेः, भुजिक्रियानिवर्तनसमर्थस्यैव भोक्तृत्वात् । जपाकुसुमादिसंनिधानवशात् स्फटिके रक्तत्वादिव्यपदेशवदकर्तुरपि प्रकृत्युपधानवशात सुखदुःखादिभोगव्यपदेशो युक्तः । तथा हि-'प्रकृतिविकारदर्पणाकारबुद्धिसंक्रान्तानां सुखदुखःखात्मकानामर्थानां पुरुषः संनिधानमात्रेण भोजको व्यपदिश्यते, बुद्धयध्यवसितमर्थं पुरुषश्चेतयते'-इति वचनादिति चेत् , न, कथंचित सक्रियाकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वानुपपत्तेः, अप्रच्युतप्राचीनरूपस्य व्यपदेशानहत्वात्, तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्व मापततीति न्यायात । स्फटिकदृष्टान्तेऽपि जपाकुसुमादिसंनिधानादन्धोपलादौ रक्ततानाविर्भवन्ती तस्य तथाविधं परिणामं लक्षयति, अन्यथान्धोपलवत्तत्रापि न प्रादुःष्यात, तन्नाक्रियस्य भोक्तृतोपपद्यते इति । 'विवत्तिमान्' इत्यमुनात्वेकान्तनित्यमपरिणामिनं नैयायिकवैशेषिकादिप्रकल्पितं प्रमातारं निरस्यति, सर्वथा अविचलितरूपस्यार्थग्रहणपरिणामानुपपत्तेः। व्यतिरिक्तज्ञानसमवायादेकान्तनित्योऽपि प्रमिणोतीति चेत , न, समवायस्य प्रागेव प्रतिक्षिप्तत्वात् , संबन्धान्तरस्य च व्यतिरेकिणा साकमनुपपत्तेः, अन्यत्रं अन्यथानुपपन्नत्वात् । न च व्यतिरेकिणि ज्ञाने समस्ति, तद्ग्राहकप्रमाणाभावात, अव्यतिरेकानुभवस्य च तद्बाधकत्वात् । किं च यदि समवायबलादात्मनि ज्ञानं समवैति, तदा आत्मनां समवायस्य च विभुत्वादेकरूपत्वाच्च सर्वात्मसु किं न समवैति ? विशेषाभावात , तथा च देवदत्तज्ञानेन यज्ञदत्तादयोऽप्यर्थतत्त्वं बुद्धयेरन् । अन्यच्च विज्ञानोदयसमयेऽपि यादृशः प्रागवस्थायां तादृश एव संतिष्ठमानः प्रागप्रमाता पश्चात प्रमातेति ब्र वाणः खलून्मत्ततामात्मनि आविर्भावयति, नापरमित्यास्तां तावत् । पश्चार्धेन पुनर्भूतव्यतिरेकिणं स्वसंवेदनप्रत्यक्षनिर्ग्राह्य जीवं दर्शयच्चार्वाकदर्शनं तिरस्कुरुते, जडात्मकभूताव्यतिरेकेहि तद्धितलक्षणबोधरूपहर्षविषादादिविवर्तानुभवाभावप्रसङ्गात् । ननु करोति पुरुष उपभुङ्क्ते-इति । प्रकृतिविकारेत्यादि । सत्त्वरजस्तमा साम्यावस्था प्रकृतिः, तस्या विकारो वैषम्यम्, स चासो निर्मलत्वेन प्रतिबिम्बोत्पत्तियोग्यत्वात् दर्पणाकारा चासौ बुद्धिश्च तत्र प्रतिबिम्बितानां सुखदुःखादिरूपाणामर्थानामात्मा प्रकृतिसंनिधानात् भोक्ताभिधीयते। अयमभिप्राय:--प्रस्तावत् प्रकृत्यात्मके बुद्धिदर्पणे पूर्व प्रतिबिम्ब्यन्ते, प्रकृत्यभिन्नत्वभावार्थप्रतिबिम्बवती बुद्धिः, प्रात्मनीत्येष प्रतिबिम्बलक्षणो भोगः । वादमहार्णवोऽप्यस्मिन् दर्शने स्थितः प्राह-बुद्धिदर्पणसंक्रान्तसमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति, तदेवं भोक्तृत्वमस्य, न तु विकारापत्तिः - इति । तथा चाहुरासुरिप्रभृतय :-- विविक्तेदक्परिणती बुद्धी भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ।। अस्यार्थ :-विविक्ता स्पष्टा ईडग् विषयाकारपरिणतेन्द्रियाकारा परिणतिर्यस्या बुद्धेः सा तथा, तस्यां सत्यामस्यात्मनो भोगः कथ्यते । किं स्वरूपः ? प्रतिबिम्बोदयः, न वास्तवः । प्रतिबिम्बमात्रे दृष्टान्तमाह-यथा चन्द्रमसो निर्मले जले प्रतिबिम्बनम्, एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414