Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
88 VAISHALI INSTITUTE RESHARCH BULLETIN No. i धानं किं यादृच्छिकम्, उत तत्स्वभावसंपाद्यमेव । यदाद्यः कल्पः, तदा संनिहितस्यापि तत्प्रत्यनीकप्रत्ययोपनिपातेन निवर्तनात् तत्संनिधापकहेतुनामपि स्वसंनिधापककारणकलापसापेक्षत्वात संनिहितानामपि प्रतिद्वन्द्विना निवर्तनात्, यादृच्छिकत्वाच्च नावश्यंभावि तत्संनिधानम्, ततश्चासंनिहितस्वविनाशकारणकदम्बकः कश्चित्यटादिर्न विनश्येदपि, अनिष्टं चैतत्, सर्वकृतकानां विनाशाविगानात् । अथ द्वितीयः पक्षः, तथा सति पश्चादपि तद्वलाद्विनाशहेतवः संनिधास्यन्ति इति प्रथमक्षणे एव संनिदधतु, तथापि क्षणिकतैवार्थस्य । स्वहेतोरेव नियतकालात् परतोऽयं स्वविनाशहेतुं संनिधापयिष्यतीति एवंरूपो जात इति चेत , न, एवमपि क्षणभंगुरतायाता । तथा हि-स्वहेतुना किलासौ वर्षात्परतः स्वविनाशहेतुसंनिधापनक्षमस्वभावो व्यधायि, स च तस्योत्पादक्षणात द्वितीयक्षणे स्वभावोऽस्ति न वा ? अस्ति चेत , तथा सति पुनर्वर्षं तेन स्थातव्यम्, एवं यावद्वर्षोपान्त्यक्षणेऽपि यदि तत्स्वभाव एवासौ तदापरमपि वर्षान्तरं स्थितिरापद्येत, तदा चानन्तकल्पस्थायी भावः स्यात्, अप्रच्युतवर्षस्थायिस्वभावत्वादिति । अथ द्वितीयक्षरणे नास्ति स स्वभाव इति ब्रूषे, हन्त क्षणिकत्वमेवाढौकते, अतादवस्थ्यस्य तल्लक्षणत्वात । किं च । विनाशहेतुर्भावस्य विनाशं व्यतिरिक्तमव्यतिरिक्त वा कुर्यात, व्यतिरिक्तकरणे न किंचित् कृतं स्यात, ततश्च भावस्तादवस्थ्यमनुभवेत । तत्संवन्धः क्रियते इति चेत्, संबन्धस्य तादात्म्यतदुत्पत्तिव्यतिरिक्तस्य प्रतिषेधात् । न चानयोरन्यतरः संबन्धोऽत्र समस्ति, व्यतिरेकिणा साधू तादात्म्यायोगात, अन्यहेतुकस्य पश्चादुत्पन्नस्य तदुत्पत्तिवैकल्यात । तन्न व्यतिरिक्तो विनाशः कर्तुं युक्तः । अव्यतिरिक्तकरणे पुनस्तमेव भावं विनाशहेतुः करोतीति प्राप्तम्, अव्यतिरेकस्य तद्रूपतालक्षणत्वात् । न चासौ कर्तव्यः, स्वहेतोरेव निष्पन्नत्वात, तत्करणे च तस्यावस्थानमेव स्यान्न प्रलयः। तन्न अविनश्वरस्वभावानां पश्चात कथंचिदपि विनाशः कर्तुं शक्यः, विनश्वरस्वभावानां पुनः स्वहेतबलायातत्वात प्रागपि प्रतिक्षणभावी न कारणान्तरापेक्षः, स्वभावस्य नियतरूपत्वात, तस्मात प्राणिति अद्यापि प्रतिक्षणविलय इति । अत्रोच्यते-सत्यमेतत, किं तु यथा विनाशकारणायोगात रूपसर्गहेतवः पाण्यादयः । ननु यदृच्छा स्वेच्छावृत्ति रुच्यते, तत्कथमिह हेत्वपेक्षा युज्यते ? सत्यम्, विनाशस्वभावात् यादृच्छिकतमिह विवक्षितं न निहेतुकत्वम्, निर्हेतुकत्वमपि चाधिकृत्याभिधास्यति यादृच्छिकेत्यादि ।
कल्पस्थायीति । युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्यगम्-इति लौकिकाः कल्पमाहुः । अप्रेति । भावविनाशयोः । अन्त्येत्यादि । मुद्गरहेतुकस्य विनाश्योत्तरकालभाविनो विनाशस्य घटादेविनाश्यादुत्पत्त्यभावात् । तथैवेति ! स्थित्युत्पत्त्योः प्रतिक्षणभावित्वं बौद्धस्याभीष्टमेव, परं तथैव निर्हेतुकत्वेनैवेत्यत्र साध्यम् ।
ननु चेत्यादि । पूर्व हि बौद्धन विनाशस्य निर्हेतुकत्वेऽभिहिते परोपन्यस्ते युक्तिकलापेनैव मत्पक्षः सेत्स्यतीति मन्यमानेनाचार्येणोत्पादस्थिती अपि निर्हेतुके प्रत्यपादिषाताम्, तटस्थः पुनः सर्वत्रापि सहेतुकत्वं पश्यन्नेवं पूर्वपक्षयति । समाधानाभिप्रायस्तु सकलमपि
Jain Education International
For private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 403 404 405 406 407 408 409 410 411 412 413 414