Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 404
________________ NYÁYÀVATÁRAN परमार्थतः पुनः समस्तवस्तुस्वरूपप्रतिपादीत्यर्थः, शब्दात्मकत्वात, निश्चयस्य बोधरूपत्वादिति । नयश्रुतं तर्हि संपूर्णार्थविनिश्चायि कस्मान्न भवति इत्याहनयानां नैगमादीनामेकनिष्ठानामेकधर्मग्रहणपर्यवसितानां श्रुतवम॑नि आगममार्गे प्रवृत्तेः प्रवर्तनात न तदेकैकाभिप्रायप्रतिबद्धं संपूर्णार्थविनिश्चायि, तत्समुदायस्यैव संपूर्णार्थविनिश्चायकत्वादित्याकूतम् ॥३०॥ तदेवं नयप्रमाणस्वरूपं प्रतिपाद्याधुना शेषनयप्रमाणव्यापकं तेषां तत्र तादात्म्येनावस्थानात प्रमातारमभिधातुकाम आह प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवत्तिमान् । . स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥३१॥ तत्र त्रिकालजीवनाज्जीवः, प्राणधारक आत्मेत्यर्थः, स प्रमिणोतीति प्रमाता प्रमेयपरिच्छेदकः । किं भूतः सन्नित्याह-स्वान्यौ आत्मपरौ निर्भासयितुं उद्योतयितुं शीलमस्येति स्वान्यनिर्भासी, स्वस्वरूपार्थयोः प्रकाशक इति यावत । तथा करोतीति कर्ता, भुङ्क्ते इति भोक्ता। विवर्तनमपरापरपर्यायेषु गमनं विवृत्तिः परिणामः, सा विद्यते यस्येति विवृत्तिमान् । स्व आत्मा संवेद्यतेऽनेनेति स्वसंवेदनं तेन सम्यक् सिद्धः प्रतिष्ठितः प्रतीतो वा स्वसंवेदनसंसिद्धः । क्षितिः पृथिव्यादिर्येषां तानि क्षित्यादीनि, आदिशब्दादम्बुतेजोवाय्वाकाशानि गृह्यन्ते । न विद्यते आत्मा स्वरूपमस्येत्यनात्मकः, किं स्वरूपरूपापेक्षया ? न, क्षित्यादीनामनात्मकः क्षित्याद्यनात्मकः क्षित्यादिस्वरूपो न भवतीत्यर्थः । तत्र 'जीवः प्रमाता' इत्यनेन ये पारमार्थिकं प्रमातारं नाभ्युपगच्छन्ति अपि तु विज्ञानक्षणपरंपरानुभवबलप्रबोधितानादिप्ररूढवासनासंपादितसत्ताकं मिथ्याविकल्पपरिकल्पितमपारमार्थिकं तं मन्यन्ते प्रतिक्षणविलयवादिनः तान्निराचष्टे, क्षणविलयस्य प्रागेव प्रतिषिद्धत्वात, बहिरन्तश्च परिणामिवस्तुनः प्रसाधनात् । ननु च घटादयस्तावद्विनाशमाविशन्तो दृश्यन्ते, तेषां च विनाशो लकुटादिकारणकलापेन अविनश्वरस्वभावानां वा क्रियेत विनश्वरस्वभावानां वा। यद्याद्यः कल्पः, तदयुक्तम्, स्वभावस्य प्रच्यावयितुमशक्यत्वात, तस्य नियतरूपत्वात , अन्यथा स्वभावत्वायोगात । अथैवंभूत एव तस्य स्वभावः स्वकारणबलायातो यदुत विनाशकारणमासाद्य विनङ्ख्यति इति ब्रूषे, तथापि तद्विनाशकारणसंनि कान्तार्थवृत्तिः स्याच्छब्दोऽव्ययः, अत्र तु सविभक्तिकनिर्देशः शब्दरूपापेक्षया; तेन स्याता, स्यादित्यनेन शब्देन युक्तो वाद् इत्यर्थः ॥३०॥ ___ त्रिकालजीवनादिति । जीवनं पञ्चेन्द्रियमनोवाक्कायोच्छवासनिःश्वासायुर्लक्षणदशविधप्राणधारणम्, तच्च यद्यपि मुक्तानां न संभवति, तथापि नाव्यापकम्, यतो मुक्तात्मानो मुक्तेर्वाग यथासंभवं दशविधानपि प्राणान् धारितवन्तः, इत्युपचाराद् मुक्तावस्थायामजीवितवन्तोऽपि जीवन्त इत्युच्यन्ते । यद्वा क्षायिकज्ञानदर्शनलक्षणं द्विविधभावप्राणधारणं जीवनम्, अस्मिश्च पक्षे त्रिकालप्राणधारणं निरुपचार मुक्तजीवानां विस्पष्टमेव । तत्स्वभावेति विनाश्यस्वभावसंपाद्यम् । तत्संनिधापकहेतूनामिति । तस्य विनाश कारणमुद्गरादे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414