Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
NYAYAVATARAḤ
प्रतिक्षणभावीति नाशो भवद्भिः प्रतिपद्यते, तथैव स्थित्युत्पत्ती प्रतिक्षणभाविन्यो किं न प्रतिपद्येते, तद्धेतूनामपि विचार्यमाणानामयोगात् । तथा हि-स्थितिहेतुना तावत्स्वयम स्थिरस्वभावा भावा: स्थाप्येरन् स्थिरस्वभावा वा । न तावत्प्रथमः पक्षः क्षोदं क्षमते, स्वभावस्यान्यथा कर्तुमशक्यत्वात् तस्य प्रतिनियतरूपत्वात्, चेतनाचेतनस्वभाववत्, अन्यथा स्वभावताहानेः । द्वितीयपक्षे पुनः स्वयं स्थिरस्वभावानां किं स्थितिहेतुना ? परः स्थितिर्नेष्यते एव तेनानभ्युपगतोपालम्भ एवायमिति चेत्, हन्त हतोऽसि एवं हि भावाः क्षणमात्रमपि न तिष्ठेयुः । क्षणभाविनीष्यते एवेति चेत सा तर्हि प्रस्थितिस्वभावानां हेतुशतैरपि कर्तुं न पार्यते इति ब्रूमः । तत्स्वभावत्वे पुनर्हेतुव्यापारनैरर्थक्यात् । अहेतुका सती सकलकालं भवतीति दत्तो जलाञ्जलिः प्रतिक्षणविलयस्य । तथोत्पादहेतुरपि तत्स्वभावस्योत्पत्तिं विदध्यात अतत्स्वभावस्य वा । न तावदाद्यः पक्षः कक्षीकर्तु युक्तः, स्वयमुत्पादकस्योत्पादने व्याप्रियमाणो हि हेतुः पिष्टं पिनष्टि, शङ्ख धवलयतीति, तदभावेऽपि स्वयोग्यतयोत्पत्तेः । नापि द्वितीयः कल्पोऽङ्गीकरणार्हः, स्वयमनुत्पत्तिधर्मकस्योत्पादयितुमशक्यवात्, अन्यथा शशविषाणादयोऽप्युत्पाद्यकोटिमध्यासीरन्, विशेषाभावात, ततश्च न कश्चिदत्यन्ताभावः स्यात् । तद्यथानिर्हेतुकत्वात् नाशः प्रतिक्षणभावी, तथैव दर्शितयुक्तः स्थित्युत्पत्ती अपीति त्रयाक्रान्तं सकलवस्तुजातमभ्युपगन्तव्यम्, तथा सति जीवोऽपि जीवत्वचैतन्य - द्रव्यत्वादिभिः स्थेमानमाविभ्राण एव हर्षविषादादिभिरपरापरार्थग्रहणपरिणामैश्चोत्पादव्ययधर्मकः पारमार्थिकः प्रमातेति बलात सिद्धिमध्यास्ते । ननु च यद्युतपादव्यवस्थितीनां निर्हेतुकत्वात् सकलकालभाविता भवद्भिः साध्यते, तदान्वयव्यतिरेकाभ्यां प्रत्यक्षादिप्रमाणप्रसिद्धः खल्वयं तत्कारणकलापव्यापारः कथं नेयः ? न चायमपह्नोतुं शक्यः । तथा हि-कुलालादिकारणत्रातव्यापारे घटादयः समुपलभ्यन्ते, तदभावे च नोपलभ्यन्ते इति तज्जन्या इत्युच्यन्ते, स्थितिरपि विनाशकारणसंनिधानात् प्राक् तद्वलादेव, तथा नाशोऽपि मुद्गरादिसंनिधानासंनिधानाभ्यां सदसत्तामनुभवतस्तत्कृतः प्रतीयते नाहेतुकः, तत्कथमेत दिति । अत्रोच्यते न वयं सर्वथा हेतूतां व्यापारं वारयामः, किं तर्हि स्वयमुत्पादव्ययस्थित्यात्मना विवर्तमानस्य द्रव्यस्य हेतवस्तद्विशेषकरणे व्यापारमनुभवन्ति, तेनैव सार्धं तेषामन्वयव्यतिरेकानुकरणदर्शनात्, दृष्टस्य चापह्नवेऽस्माकमप्रवृत्तत्वात, प्रतीतियुक्तिलक्षणद्वयपक्षपातित्वात, केवलं प्रतीतिविकलां युक्ति युक्तिविनाकृतां वा प्रतीति नाङ्गीकुर्महे, असंभवदर्थगोचरतया निरालम्बनत्वात्तस्या इत्यास्तां तावत् । 'स्वान्यनिर्भासि' इत्यनेन प्रागुक्तस्वपराभासि प्रमाणविशेषणवन्मीमांसकान् परोक्षबुद्धिवादिनो योगाचारांश्च ज्ञानमात्रवादिनः प्रतिक्षिपति । कथम् ? ज्ञानज्ञानिनोः कथंचिदभेदेन तदुक्तन्यायाविशेषादिति । 'कर्ता भोक्ता' इति विशेषणद्वयेन सांख्यमतं विकुट्टयति, कर्ता सन् भोक्तापि इति काक्वोपन्या
त्रिलोकीगतं मृदादिद्रव्यमात्मनैव प्रतिक्षण मुदयव्यय ध्रौव्यात्मकम्, कुलाल लगुडादयस्तु घटघटीकपालादिविशेषकरणे एव व्याप्रियन्ते इति । अकर्तुरिति । यदाहुः सांख्या:- प्रकृति:
Jain Education International
89
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 404 405 406 407 408 409 410 411 412 413 414