Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
NYAYAVATĂRAW प्रतिपादकत्वात्सत्यम्, न चैवं वचनप्रवृत्तिः, घटोऽयं शुक्लो मूर्त इत्याद्ये कैकधर्मप्रतिपादननिष्ठतया व्यवहारे शब्दप्रयोगदर्शनात्, सर्वधर्माणां योगपोन वक्त मशक्यत्वात, तदभिधायकानामप्यानन्त्यात् । न चैकैकधर्मसंदर्शकत्वेऽप्यमूनि वचनान्यलीकानि वक्त पार्यन्ते, समस्तशाब्दव्यवहारोच्छेदप्रसङ्गात, तदलीकत्वे ततः प्रवृत्त्यसिद्धेरिति । अत्रोच्यते, इह तावद् द्वये वस्तुप्रतिपादकाः, लौकिकास्तत्त्वचिन्तकाश्च । तत्र प्रत्यक्षादिप्रसिद्धमर्थमर्थित्ववशाल्लौकिकास्तावद् मध्यस्थभावेन व्यवहारकाले व्यपदिशन्ति-यदुत नीलमुत्पलं सुगन्धि कोमलमिति, न तु तमिगतधर्मान्तरमहणनिराकरणयोराद्रियन्ते, अनथित्वात , तावतैव विवक्षितव्यवहारपरिसमाप्तेः । न च तद्वचनानामलीकता, शेषधर्मान्तरप्रतिक्षेपाभावात , तत्प्रतिक्षेपकारिणामेवालीकत्वात । परः सर्वं वचनं सावधारणमिति न्यायात तेषामपि शेषधर्मतिरस्कारित्वसिद्धर्भवन्नीत्यालीकतापद्यते इति चेत , न, अवधारणस्य तदसंभवमात्रयव्वच्छेदे व्यापारात । अनेकपुरुषसंपूर्णे सदसि द्वारादौ स्थितस्य किमत्र देवदत्तः समस्ति नास्तीति वा दोलायमानबुद्धेः केनचिदभिधीयते-यथा देवदत्तोऽस्तीति । अत्र यद्यप्युपन्यस्तपदद्वयस्य सावधारणता गम्यते, अन्यथा तदुच्चारणवैयर्थ्यप्रसङ्गात, तथाप्यवधारणं तदसंभवमात्रं व्यवच्छिनत्ति, न शेषपुरुषान्तराणि । नापिपररूपेण नास्तित्वम्, तद्व्यवच्छेदाभिप्रायेण प्रस्तुतवाक्यप्रयोगात , प्रयोक्त रभिप्रायादिसापेक्षतयैव ध्वनेः स्वार्थप्रतिपादनसामर्थ्यात । न च वाच्यवाचकभावलक्षणसंबन्धानर्थक्यम्, तदभावे प्रयोक्त्रभिप्रायादिमात्रेण रूपस्यैव नियोक्त मशक्यत्वात् । न च समस्तधर्मयुक्तमेव वस्तु प्रतिपादयद्वचनं सत्यमित्यभिदध्महे, येनैकैकधर्मालिङ्कितवस्तुसंदर्शकानामलीकता स्यात , किं तर्हि संभवदर्थप्रतिपादकं सत्यमिति, संभवन्ति च शेषधर्माप्रतिक्षेपे वचनगोचरापन्ना धर्माः, तस्मात् तत्प्रतिपादकं सत्यमेव । यदा दुर्नयमताभिनिविष्टबुद्धिभिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तरनिराकरणाभिप्रायेणैव सावधारणं तत् प्रयुज्यते, यथा नित्यमेव वस्तु अनित्यमेव वेत्यादि, तदा निरालम्बनत्वादलीकतां प्राप्नुवत केन वार्येत ? तत्त्वचिन्तकाः पुनः प्रत्यक्षादिप्रमाणसिद्धमनेकान्तात्मकं वस्तु दर्शयन्तो द्वेधा दर्शयेयुः, तद्यथा-विकलादेशेन सकलादेशेन वा। तत्र विकलादेशो नयाधीनः, सकलादेशः प्रमाणायत्तः । तथा हि-यदा मध्यस्थभावेनाथित्ववशात किंचिद्धर्म प्रतिपिपादयिषवः शेषधर्मस्वीकरणनिराकरणविमुखया धिया वाचं प्रयुञ्जते तदा तत्त्वचिन्तका अपि लौकिकवत संमुग्धाकारतयाचक्षते-यदुत जीवोऽस्ति कर्ता प्रमाता भोक्त त्यादि, अतः संपूर्णवस्तुप्रतिपादनाभावाद् विकलादेशोऽभिधीयते, नयमतेन संभवद्धर्माणां दर्शनमात्रमित्यर्थः । यदा तु प्रमाणव्यापारमविकलं परामृश्य
इति न्यायात् । तद्वयवच्छेदाभिप्रायेणेति । तस्य देवदत्तादेरसंभवमात्रस्य व्यवच्छेदाभिप्रायेण, देवदत्तोऽस्तीति वाक्यस्योच्चारणात् । 'अप्रयोगाद' इति तु पाठे किमित्यवधारणम् । शेषपुरुषान्तराणि पररूपेण नास्तित्वं च न व्यवच्छिनत्ति इत्याह तदिति । तेषां शेषपुरुषान्तराणां पररूपेण नास्तित्वस्य व्यवच्छेदाभिप्रायेण प्रस्तुतवाक्यानभिधानात् । प्रयोक्त्रभिप्रायावीति । आदिशब्दात् संकेतादिग्रहः। अङ्गीकृतेत्यादि । अङ्गीकृता गुण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414