Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 387
________________ Mill!: 70 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I क्षमान सामान्यादत्यन्तविनि ठितस्वरूपानभिप्रेति । तथा हि किल-संविनिष्ठाः पदार्थव्यवस्थितयः, न च सामान्यग्राहिणि विज्ञाने विशेषावभासोऽस्ति, अनुवर्तमानकाकारपरामर्शेन तद्ग्रहणाद्, अन्यथा सामान्यग्राहकत्वायोगात्, नापि विशेषग्रहणदक्षे संवेदने सामान्यं चकास्ति, विशिष्टदेशदशावच्छिन्नपदार्थग्राहितया तत्प्रवृत्तेः, अन्यथा विशेषसंवेदनत्वायोगात् । न चेतौ परस्परविभिन्नावपि प्रतिभासमानौ सामान्यविशेषौ कथंचिन्मिश्रयितुं युक्तौ, अतिप्रसङ्गात्, विभिन्न प्रतिभासिनामपि निखिलार्थात्मनामैक्यप्राप्तेः । एवं च प्रमाणयति-परस्परविश्लिष्टौ सामान्यविशेषौ, पार्थक्येनोपलब्धेः, इह यद्यत् पार्थक्येनोपलभ्यते तत्तत् परस्परविश्लिष्टं द्रव्यम्, तद्यथा-देवदत्तयज्ञदत्ताविति, प्रार्थक्येन चोपलभ्येते सामान्यविशेषौ, अतः परस्परविभिन्नाविति। न सामान्यात् पृथग्विशेषोपलम्भ इति चेत्, कथं तर्हि तस्योपलम्भ इति वाच्यम्, सामान्यव्याप्तस्येति चेत्, न तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात्, ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति, विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात्, तस्माद्विशेषमभिलषता तत्र च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः । तथा सामान्यमपि विविक्तकारतया स्वग्राहिणि ज्ञाने यदि न प्रकाशेत, तदा तद्गोचराभिमतसंवेदनेन विशेषस्याप्याकलनात् सामान्याभिधानव्यवहारयोः प्रवृत्तेरुच्छेदस्तथैव वक्तव्यः, विविक्तसामान्यग्राहिबोधमूलकत्वात्तयोः, तदनिष्टौ तयोरप्यभावापत्तेः । न च सामान्यं विशेष वा तिरस्कृत्य केवलस्य विशेषस्य सामान्यस्य वाभ्युपगमः कर्तु युक्तः, द्वयोरपि स्वग्राहिज्ञाने प्रतिभासमानतया विशेषाभावात् । तस्मादेतौ द्वावपीतरेतरविशकलितावङ्गीकरणाऱ्याविति नैगमः ॥ अधुना संग्रहाभिप्रायो वर्ण्यते। तत्र संगृह्णाति अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया जगदादत्त इति संग्रहः । अयं हि मन्यते-भावलक्षणसामान्याद् व्यतिरिच्यमानमूर्तयो वा विशेषाः परिकल्प्येरन्, अव्यतिरिच्यमानमूर्तयो वा, गत्यन्तराभावात् । तत्र यद्याद्यः पक्षः, तदा निःस्वभावतां ते स्वीकुर्युः, भावव्यतिरेकित्वात्, गगनकुसुमादिवत् । अथ द्वितीयः कल्पः, तहि भावमात्रमापद्यन्ते । तथा गतत्वादिभिस्तुल्येषु सर्वात्मसु चायमस्माद्विलक्षण इति यतो योगिनां प्रत्ययः स प्रतिपरमाणु प्रत्यात्म च विशेष इति । तयोरिति उभयत्रापि सामान्याभिधानव्यहारयोः । तदनिष्टाविति । केवलसामान्यग्राहिबोधानिष्टौ । अत्र नैगमाभिप्रायसंग्रहश्लोक: अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ।। सामान्यरूपतया जगदावत्ते इति । सर्वमेकम्, सदविशेषादिति हि तसिद्धान्तः । प्रत्यक्ष हीति । यदाहुस्तद्वादिनः-- पाहुविधातृ प्रत्यक्षं न निषेधृ विपश्चितः । नैकत्व प्रागमस्तेन प्रत्यक्षेण प्रबाध्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414