Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
82 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I तत्वात, स्थरावयवानां च स्वावयवेषु भेदाभेदद्वारेण पर्यालोच्यमानानामवस्थानाभावात क्षणक्षयिपरमाणव एव प्रतिभ्रान्ति, ततश्च प्रतिभास एव स्थिरस्थरदर्शनस्य बाधक इति चेत् । एवं तर्हि प्रतिभासस्योपदेशगम्यतानुपपत्तेः तथैव व्यवहारः प्रवर्तेत । पाश्चात्यमिथ्याविकल्पविप्लवान्न प्रवर्तते इति चेत्, न, अन्यत्राप्यस्योत्तरस्य विप्लवहेतुत्वात् । तथा हि-धवले जलजादौ प्रतिभातेऽपि 'नीलोऽयम्' अध्यक्षेणावलोकितः पाश्चात्यमिथ्याविकल्पविप्लवाद् धवल: प्रतिभातीति भवन्न्यायन शठः प्रतिजानानः केन वार्येत । तन्न दृष्टापलापः कर्तु शक्य इति स्थिरस्थूरवस्तुसिद्धिः, तस्यैव दर्शनात्, इतरस्य दद्दर्शनद्वारेण साध्यमानस्यानुमेयत्वात, तदनिष्टौ तस्याप्यसिद्धेः । एतेन स्थिरस्थूरवस्तुनोऽर्थक्रियाविरहप्रतिपादनमपि प्रतिव्यूढम्, तथाविधस्यैव सर्वक्रियासु व्यापारदर्शनात क्षणक्षयिणोऽर्थक्रियानिषेधाच्च । यथोक्त प्राक्क्षणभङ्गुरो ह्यर्थात्मा स्वक्षणे पूर्वं पश्चाद्वा कार्यं कुर्यादित्यादि। किं च सत्त्वपुरुषत्वचैतन्यादिभिर्बालकुमारयुवस्थविरत्वहर्षविषादादिभिश्चानुवर्तमानव्यावर्तमानरूपस्य सर्वस्य वस्तुनः प्रतीतेव्यपर्यायात्मकत्वम्. अभेदस्य द्रव्यत्वात्, भेदस्य पर्यायरूपत्वादिति । ततश्च भूतभाविक्षणयोरसंनिधानद्वारेण वार्तमानिकक्षणस्यैवार्थक्रियाकारित्वप्रतिपादनं नास्मद्वाधाकरम्, पर्यायाणां क्रमभावितया वर्तमानपर्यायालिङ्गितस्यैव द्रव्यस्यार्थक्रियाकरणचतुरत्वात, केवलं तत्त्रिकालव्यापि द्रष्टापि द्रव्यरूपतया यथाभूत एव, ततश्च क्षणिकपर्यायतिरोधानद्वारेण तपसंकलनात स्थिरमेवेदं समस्तक्रियासु व्याप्रियते इति प्रतीतिवीथीमवतरति, स्थैर्यस्यापि तात्त्विकत्वात , क्षणिकपर्यायाणां विद्यमानानामप्यग्रहणात , प्राकृतलोकज्ञानस्यावरणक्षयोपशमापेक्षितया कतिचिदंशविषयत्वात । यदि पुनद्रव्यबुद्धिः पर्यायपरंपरादर्शनबलायातत्वादतात्त्विकी कल्प्येत, तदा पूर्वपर्यायस्योत्तरपर्यायोत्पादने सान्वयत्वं निरन्वयत्वं वा वक्तव्यम्, गत्यन्तराभावात् । सान्वयत्वे द्रव्यं पर्यायान्तरेणाभिहितं स्यात, निरन्वयत्वाच्च पुनर्निर्हेतुतयोत्तरपर्यायानुत्पादप्रसङ्गः । तन्नोभयरूपवस्तुव्यतिरेकेणार्थक्रियासिद्धिः । न चार्थक्रिया वस्तुलक्षणम्, शब्दविद्यत्प्रदीपादिचरमक्षणानां क्षणान्तराम्भकत्वेनावस्तुत्वप्राप्तेः, तदवस्तुत्वे पुनरुपान्त्यक्षणस्यापि वस्तुनि व्यापाराभावात, एवं यावत्सर्वक्षणानां संकलिकयावस्तुत्वम् । अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजनकत्वमर्थक्रिया परिकल्प्येत, तथा सति अतीतभावपर्यायपरंपरापि योगिज्ञानगोचरतां यातीति वस्तुत्वं स्वीकुर्यात, तन्नार्थक्रियावस्तुलक्षणम्, अपि तु उत्पादव्ययध्रौव्ययुक्तता, प्रमाणप्रतिष्ठित्वात । उत्पादव्ययौ ध्रौव्येण सह विरुद्धाविति चेत, कुतोऽयं विरोधः, प्रमाणादप्रमाणाद्
इतरस्य क्षणक्षयिपरमाणुतत्त्वस्य । तद्दर्शनेति । स्थिरस्थूरवस्तुदर्शनद्वारेग ।
वीथीं मार्गम् । पर्यायान्तरेण नामान्तरेण । न चार्थक्रिया वस्तुलक्षणमिति । यदाह रागान्धावस्थायामपि धर्मकीर्ति :
गच्छतु क्वापि ते स्वान्तः कान्ते कार्य स्वयैव च । यदेवार्थ क्रियाकारि. तदेव परमार्थसत् ॥ इति ।
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org
Loading... Page Navigation 1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414