Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
NYAYAVATĀRA यथा बाह्यत्वङ्मात्रप्रतिभासेऽपि सर्ववस्तूनां तावता व्यवहाराभावाद् मध्यभागादिसाधनेन संपूर्णानि तत्समर्थानि तानि साध्यन्ते, तथैव कियत्कालभाविघनाकारदर्शनेऽप्यनाद्यनन्तपरमाणुतादात्म्यव्यवस्थितशरीराणि तानि साध्यन्ताम्, तदभावेऽपि तेषामनुपपत्तेः । तथा हि-व्यवहारावतारिणो दर्शनयोग्यस्याद्यपर्यायस्य तावदतीतपर्यायानभ्युपगमे निर्हेतुकत्वम्, तत्र चोक्तो दोषः, तदुत्पादकादन्तरपर्यायष्टौ पुनस्तज्जनकपर्यायोऽभ्युपगन्तव्य इति अनादिपर्यायपरंपरासिद्धि. मध्यासीत, तथा व्यवहारावतारिवस्तुपर्यन्तपर्यायस्य पर्यायान्तरानुत्पादकत्वे बलादवस्तुत्वमाढौकते, भवन्नीतेरेवार्थक्रियाकरणवैकल्यात, तदुत्पादकत्वे पुनरसावप्यपरपर्यायोत्पादकत्वे इत्यनन्तपर्यायमालोपपद्यते । तथा घनाकारोऽपि विशददर्शनेन साक्षाक्रियमाणो निष्प्रदेशपर्यन्तावयवव्यतिरेकेण नोपपद्यते, करचरणशिरोग्रीवाद्यवयवानां खण्डशो भिद्यमानतयावयविरूपत्वात, तदवयवानामप्यवयवान्तरघटितत्वात । परमाणव एव पर्यन्तावयवाः परमार्थतो घनाकारहेतवः, तदभावे पुनराकस्मिकोऽसौ सर्वत्रोपलभ्येत, न वा क्वचित, विशेषाभावात । एतेन यदवादि-लोकव्यवहारावतारिणः प्रमाणमनुग्राहकमस्ति वस्तुनो नेतरस्येत्यादि तदपि प्रतिक्षिप्तमवगन्तव्यम्, दृश्यमानार्थान्यथानुपपत्त्यैव तत्साधनात । यत् पुनरुक्तम्-किं तेषामतीतानागतपर्यायपरमाण्वादीनां पर्यालोचनेन लोकव्यवहारानुपयोगितया (अ) वस्तुत्वादित्यादि, तदयुक्तम्, उपेक्षया वार्तमानिकवस्तूनोऽनुपयोगित्वेनावस्तुत्वप्राप्तेः, सर्वस्य सर्वलोकानुपयोगित्वात । कस्यचिदुपयोगितया वस्तुत्वे तेषामपि सा समस्त्येव, सर्वज्ञानादिगोचरत्वाद् इत्यास्तां तावत । तदेवं प्रमाणप्रसिद्धार्थापलापित्वाद् व्यवहारो दुर्नयः, तदुपेक्षया व्यवहारानुपातिवस्तुसमर्थकस्य व्यवहारनयत्वादिति ।
अथ ऋजुसूत्रोऽपि दृष्टापलापेनादृष्टमेव क्षणक्षयिपरमाणुलक्षणं वस्तुस्वरूप परमार्थतया मन्यमानो दुर्नयतामास्कन्दति, दृश्यमानस्थिरास्थूरार्थापह्नवे निर्मलतया स्वाभिप्रेतवस्तुसमर्थकपरामर्शस्योत्थानाभावात । तथा हि-स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं साक्षाल्लक्षयन् पश्चात् कुयुक्तिविकल्पेन विवेचयेत, यदुतष स्थिरस्थूरो दृश्यमानः खल्वाकारो न घटामियति, विचाराक्षमत्वादित्यादिना च दृष्टमदृष्टसंदर्शकः कुयुक्तिविकल्पैर्बाधितु शक्यम, सर्वत्रानाश्वासप्रसङ्गात । अथाभिदधीथाः-मन्दमन्दप्रकाशे प्रदेशे रज्जो विषधरभ्रान्तिः प्राक्तनी यथोदीचीनेन तन्निर्णयकारिणा विकल्पेन बाध्यते, तथेदमपि स्थिरस्थूरदर्शनं क्षणक्षयिपरमाणुप्रसाधकपरामर्शन, किमत्रायुक्तम्, नैतदस्ति, रज्जूप्रतिभासस्यैव प्राक्प्रवृत्तविषधरभ्रान्त्यपनोददक्षत्वात , तदभावे च विकल्पशतैरपि निवर्तयितुमशक्यत्वात् । अत्राप्यतीतवय॑तोविनष्टानुत्पन्नतयाऽसंनिहि
भागमात्रं न त्वर्वाग्भाग इति कथं तेन व्यभिचारः ? तानीति । वस्तूनि । प्राद्यपर्यायस्येति । वातमानिकस्य, तत्र चोक्तो दोष इति ।
नित्यं सत्वमसस्वं वाहेतोरन्यानपेक्षणात् । प्रपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥ इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414