Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 396
________________ 79 NYAYĀVATĀRAŇ प्रधानोपसर्जनभावस्य द्वयनिष्ठत्वात , अत्यन्ततादात्म्येन तत्कारिण्या विवक्षाया अपि निर्गोचरताप्रसङ्गात । तस्मात्कथंचिद् भेदाभेदिनावेवैतो, तदन्यतरसमर्थकः पुन: निरालम्वनत्वात् दुर्नयतां स्वीकरोतीति स्थितम । तथा संग्रहोऽप्यशेषविशेषप्रतिक्षेपमुखेन सामान्यमेकं समर्थयमानो दुर्नयः, तदुपेक्षाद्वारेणैव तस्य नयत्वात , विशेषविकलस्य सामान्यस्यासंभवात तथा हियत्तावदुक्तम्-यदुत विशेषाः सामान्याद् व्यतिरेकिरणोऽव्यतिरेकिणो वा। व्यतिरेकपक्षे निःस्वभावत्वम, निःसत्ताकत्वात । अव्यतिरेकपक्षे भावमात्रम, तदव्यतिरिक्तत्वात , तत्स्वरूपवत । तदयुक्तम् , विशेषवादिनोऽप्येवंविधविकल्पसंभवात् । तथा हि-विशेषेभ्यः सामान्य व्यतिरिक्तमव्यतिरिक्त वा । व्यतिरिक्त चेन्न तहि सामान्यम् , स्वस्वरूपव्यवस्थिततया विशेषरूपत्वात् । अव्यतिरिक्त चेत , तथापि न सामान्यम , विशेषाव्यतिरिक्तत्वादेव, तत्स्वरूपवत । यदप्यवादि-अनाद्य विद्यावलप्रवत्तो विशेषव्यवहारः, तात्त्विकं सामान्यम, तदपि च वचनमात्रमेव, युक्तिरिक्तत्वात , सामान्यमेवानाद्यविद्यादशितम्, विशेषाः पुनः पारमार्थिका इति विशेषवादिनोऽपि वदतो वक्त्रभङ्गाभावात । यत्पुनर्विशेषग्राहकप्रमाणाभावं प्रतिपादयता अभ्यधायि-यदुत प्रत्यक्षं भावसंपादितसत्ताक तमेव साक्षात्करोति नाभावं तस्यानुत्पादकत्वादित्यादि, तदयुक्ततरम्, यतः केनेदं भवतोऽत्यन्तसुहृदा निवेदित भाव एव केवल: प्रत्यक्षमुपस्थापयति, न पुनरभावोऽपि । अभावव्यापाराभावप्रतिपादकयुक्तिकलापेनेति चेत मुग्ध विप्रतारितोऽसि, तद्व्यापाराभावासिद्धेः, सदसद्रूपवस्तुनः समस्तक्रियासु व्यापारात् । भावतादात्म्येन व्यवस्थितस्याभावस्य व्यापारविरोधा भावात् । कथं भावाभावयोस्तादात्म्यम् ? विरोधादिति चेत, न, प्रमाणप्रसिद्ध विरोधाभावात् । तथा हि-घटादिकः पदार्थात्मा स्वरूपेण सन्, न पटादिरूपेणापि इति भावाभावात्मकः, यदि पूनः कथंचिन्नाभावात्मकः स्यात्, तदा पटादिरूपेणापि भावात् सर्वात्मकः प्राप्नोति, युक्तमेतत्, अत एव भेदप्रपञ्चविलयसिद्धिरिति चेत , स्यादेतत् , यदि पटाद्यभावैकान्ताच्छ्न्य वादिनो मनोरथपूरणं न स्यात् । तथा हि--पटादिविविक्तो घटोऽनुभूयते, न च पटाद्यभावो भावेन सह तादात्म्यमनुभवति, तस्मादभावात्मक एवायम्, एवं पटादयोऽपीतरेतरापेक्षयेति शून्यत्वापत्तिः, तस्मात स्वरूपमाविभ्राणं पररूपेभ्यो व्यावृत्तमेव वस्तु सर्वक्रियासु व्याप्रियते इति भावाभावात्मकस्यैव व्यापारः स्वरूपधारणस्य स्वभावत्वात , पररूपव्यावर्तनस्याभावत्वादिति । एवं स्वगोचरप्रत्यक्षोत्पादनेऽपि व्याप्रियते, ततश्च तद्रूपमेव तत्साक्षात्कुर्यादिति स्वरूपनियते पररूपेभ्यो व्यावृत्ते एव वस्तुनि प्रत्यक्ष प्रवर्तते, तज्जन्यत्वात् , न भावमात्रे, इतरथेति । यदि कथंचिद् व्यतिरेकिणावपि सामान्यविशेषौ न स्याताम् । तथेति । व्यतिरेकेण । तत्कारिण्या भेदविधायिन्या । ___ युक्तिकलापेनेति । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि । इत्यादिना व्याप्रियते इति भावाभावात्मकं वस्त्विति शेषः । तद्रूपमिति । भावाभावात्मकवस्तुरूपम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414