Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 394
________________ 77 विशेषप्रतिभासः, यत्र च विशिष्टदेशदशावच्छिन्नबोधनिर्ग्राह्यो विशेषो न तत्र सामान्यावगतिः, तद्वचनमात्रमेव, धवखदिरपलाशादिसमस्तविशेषा पसरणे वृक्षत्वादिसामान्यप्रतिभासाभावात् । दूराद्विशेषाग्रहणेऽपि केवलं तच्चकास्तीति चेत्, तत्राप्यभ्यन्तरीभूतविशेषप्रतिभासात, तद्विरहे शशविषाणरूपत्वात् । एवं विशेषा अपि न सामान्यादत्यन्तव्यतिरेकिणः प्रतिभान्ति, तन्निमग्नानामेव तेषां ग्रहणात्, इतरथा सत्तातोऽतिरिच्यमाना भावा निःस्वभावतामात्मसात्कुर्वन्ति । तथा वृक्षत्वादिसामान्येभ्योऽपि भेदिनो वृक्षादयो न स्युः, तदभेदनिबन्धनत्वात् तत् - स्वरूपस्थितेः, तस्मात्तदेव संवेदनमुपसर्जनीकृतवैषम्यं प्रधानीकृतैकाकारं सामान्यं गृह्णाति इत्युच्यते, न्यक्कृतसमत्वमुत्कलितनानात्वं पुनर्विशेषग्राहीति, समत्वनानात्वयोः कथंचिद् भेदाभेदिनोः परस्परं सर्वार्थेषु भावात, तदभावे तथाविधप्रतिभासानुपपत्तेः । एतेन यदवादि 'न चैतौ विभिन्नावपि प्रतिभासमानौ सामान्यविशेषौ कथंचिद् मिश्रयितुं युक्तावित्यादि' तदपास्तमवगन्तव्यम्, विभिन्नयोः प्रतिभासाभावात, व्यवहारोऽपि सर्वप्रधानोपसर्जनद्वारेण कथंचिदितरेतराविनिर्लुठितसामान्यविशेषसाध्य एव । न हि सामान्यं दोहवाहादिक्रियायामुपयुज्यते, विशेषाणामेव तत्रोपयोगात ; नापि विशेषा एव तत्कारिणः, गोत्वशून्यानां तेषां वृक्षाद्यविशिष्टतया तत्करणसामर्थ्याभावात् । किं च अत्यन्तव्यतिरेके सामान्यविशेषयोः 'वृक्षं छिन्द्धि' इति चोदितः किमिति तद्विशेषे पलाशादौ छेदं विधत्ते ? तत्र तस्य समवायादिति चेन्न । समवायग्राहकप्रमाणाभावात, भावेऽपि विश्लिष्टयोरभेदबुद्धयुत्पादनाक्षमत्वात, तस्यापि व्यतिरिक्ततया पदार्थान्तराविशेषात् नित्यत्वकत्वसर्वगतत्वादिभिश्च सर्वत्र तत्करणप्रसङ्गात् । यत्पुनरवादी: 'यदुत यदि सामान्यं विशेषनिष्ठम्, विशेषो वा सामान्यव्याप्तः समुपलभ्येत ततो विविक्तः योस्तयोः क्वचिदनुपलम्भात् योऽयं विविक्तः सामान्य विशेषेषु चाभिधानार्थक्रियालक्षणो व्यवहारः स समस्तः प्रलयं यायाद्, लोलीभावेन तद्विवेकस्य कर्तुमशक्यत्वात', तदप्यसमीचीनम् । यतो यद्यपि परस्पराविविक्तयोः विशेषयोः सर्वत्रोपलम्भ:, तथापि यत्रैव प्रमातुरर्थित्वं तदेव सामान्यम्, विशेषान्वा प्रधानीकृत्य तद्गोचरं ध्वनिमर्थक्रियां वा प्रवर्तयति, इतरस्याप्युपसर्जनभावेन तत्र व्यापारात, तद्विकलस्येतरस्थापि शशविषाणायमानतया क्वचिदनुपयोगात् । किं च प्रत्यन्तव्यतिरेकिणि विशेषेभ्यः सामान्ये वृत्तिविकल्पोपलम्भनूतन विशेषसंबन्धादिद्वारेण दूषणमुद्गर कदम्बकं मूर्धनि पतद् दुर्विषहं स्यात् । तथा हितत्तेषु कथं वर्तेत सामस्त्येन एकदेशेन वा ? सामस्त्यपक्षे प्रतिविशेषं परिसमाप्ततया सामान्यबहुत्वप्रसङ्गः, अनिष्टं चैतद्, एकत्वाभ्युपगमक्षतेः । एकदेशेन सामान्य NYAYAVATARAḤ तद्विरहे विशेषाणामभावे । शशविषाणरूपत्वादिति । यदुक्तम् निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । विशेषोऽपि च नैवास्ति सामान्येन विनाकृतः ॥ इति । उवसर्जनीत्यादि । उपसर्जनीकृतं गौणीकृतं वैषम्यं विशेषरूपता येन तत्तथा न्यक्कृतसमत्वमिति । तिरस्कृत सामान्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414