Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 392
________________ NYÀYÁVATÃRAŤ द्वत्तितया तथैव व्यवहारदर्शनात् । तस्मादेक एव पर्याय शब्दानामर्थ इति शब्दः । शब्द्यते आहूयतेऽनेनाभिप्रायेणार्थ इति निरुक्तादेकार्थप्रतिपादकताभिप्रायेणैव पर्यायध्वनीनां प्रायोगादिति । सांप्रतं समभिरूढमतमुपवर्ण्यते-तत्र सम् एकीभावेनाभिरोहति व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृतौ योऽभिप्रायः सः समभिरूढः । अयं हि पर्यायशब्दानां प्रतिविभक्तमेवार्थमभिमन्यन्ते, तद्यथा-इन्दनादिन्द्रः, परमैश्वर्यमिन्द्रशब्दवाच्यं परमार्थतः, तद्वत्यर्थे पुनरूपचारतो प्रवर्तते, न वा कश्चित् तद्वान् सर्वशब्दानां परस्परप्रविभक्तार्थप्रतिपादकतया आश्रयाश्रयिभावेन प्रवृत्त्यसिद्धेः । एवं शकनाच्छक्रः, पूर्दारणात् पुरन्दर इत्यादि भिन्नार्थत्वं सर्वशब्दानां दर्शयति, प्रमाणयति च-पर्यायशब्दा विभिन्नार्थाः, प्रतिविभक्तव्युत्पत्तिनिमित्तकत्वात्, इह ये ये प्रतिविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थाः, यथा इन्द्रघटपुरुषादिशब्दाः, विभिन्न व्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नार्था इति । यत्पुनरविचारितप्रतीतिबलादेकार्थाभिधायकत्वं प्रतिपाद्यते तदयुक्तम्, अतिप्रसङ्गात् । तथा हि-यदि युक्तिरिक्ता प्रतीतिरेव शरणीक्रियते, तदा तदा मन्दमन्दप्रकाशे दवीयसि देशे संनिविष्टशरीरविभिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकतर्वाकारतामाविभ्राणाः प्रतीयन्ते इति एकतयैवाभ्युपगन्तव्याः । न चैतदस्ति, विविक्ततत्स्वरूपग्राहिप्रत्यनीकप्रत्ययोपनिपातवाधितत्वेन पूर्वप्रतीतेः विविक्तानामेव तेषामभ्युपगमात्, तन्नैकार्थवाचिनो ध्वनयः सन्ति, रूढिः पुनरविचारिततदर्थानामिति समभिरूढः ।। सांप्रतमेवंभूताभिप्राय: प्रतिपाद्यते-तत्रैवंशब्दः प्रकारवचनः, ततश्चैवं यथा व्युत्पादितः तं प्रकारं भूतः प्राप्तो यः शब्दः स एवंभूतः, तत्समर्थनप्रधानाभिप्रायोऽप्येवंभूतः, तद्विषयत्वात, विषयशब्देन च विषयिणोऽभिधानात् । अयं विरोधे लिङ्गसंख्यादिभेदाद् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ।। एकीभावेनेति प्रत्येकम् । अयमभिप्रायः यथा विरुद्धलिङ्गाद् भिद्यते वस्तु, तथा संज्ञाभेदादपिः ततो यावन्तोऽर्थस्य स्वाभिधायका ध्वनयस्तावन्तोऽर्थ भेदाः, प्रत्यर्थं शब्दनिवासादिति । तद्वतीति । परमैश्वर्य युक्ते उपचारस्य च निमित्तम्, तत्रैश्वर्यस्थावस्थानम्, न वा कश्चित् तद्वान् शब्दानामभिधेय इति शेषः । दवीयसीति दूरतरे । अविचारिततवर्थानामिति । तेषां शब्दानामर्थस्तदर्थः, न विचारितस्तदर्थों यैस्ते तथा तेषाम् । संग्रहश्लोकः तथाविधस्य तस्यापि वस्तुनः क्षरणवृत्तिनः । ब्रूते समभिरूढस्तु . संज्ञाभेदेन भिन्नताम् ।। तथाविधस्येति विरुद्धलिङ्गादियोगभेदिनः ।। तद्विषयत्वादिति । स एवंभूतः शब्दो विषयो यस्याभिप्रायस्य तद्भावस्तत्त्वं तस्मात् । विषयिण इति । अभिप्रायस्य । यद्वा यत्क्रियाविशिष्ट शब्देनोच्यते स च क्रियां कुर्वद् वस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414