Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
74 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 व्यापिनि रूपे प्रमाणानवतारात् परस्परविश्लिष्टाः परमाणव एव परमार्थत इति ऋजुसूत्रः ॥
तदिदमर्थस्वरूपनिरूपणनिपुणानां नयानां मतमुपणितम्, अधुना शब्दविचारचतुराणामुपवर्ण्यते-तत्र त्रयाणामपि शब्दादीनामिदं साधारणाकृतम्, यदुत शब्द एव परमार्थो नार्थः, तस्य तदव्यतिरिक्तत्वात् । पार्थक्येन वस्तुत्वसिद्धेः कथमव्यतिरेक इति चेत, प्रमाणादिति ब्रमः । तथा हि-न व्यतिरिक्तोऽर्थः शब्दात्, तत्प्रतीतौ तस्य प्रतीयमानत्वात्, इह यत्प्रतीतौ यत्प्रतीयते तत ततोऽव्यतिरिक्तं भवति, तद्यथा शब्दे प्रतीयमाने तस्यैव स्वरूपम्, प्रतीयते च शब्दे प्रतीयमानेऽर्थः, अतोऽसौ ततोऽव्यतिरिक्त इति । अथ अगृहीतसंकेतस्य घटशब्दश्रवणेऽपि घटप्रतीतेरभावाद् व्यतिरिक्त इति चेत , एवं तहि विषस्य मारणात्मकत्वं तदज्ञस्य न प्रतिभातीति तत्ततो व्यतिरिक्तमापद्येत, न चैतदस्ति, तदव्यतिरेकाविशेषेण गुडखण्डवद्विषस्याप्यमारकत्वापत्तेः, संबन्धस्य च व्यतिरिक्तेन सह प्रागेवापास्तत्वात , तन्न अबुधप्रमातृदोषेण वस्तुनोऽन्यथात्वम्, अन्यथान्धो रूपं नेक्षते इति तदभावोऽपि प्रतिपत्तव्य इति । ये निरभिधाना वर्तन्तेऽर्थास्तेषां शब्दात्पार्थक्येन वस्तुत्वसिद्धिरिति चेन्न, निरभिधानार्थाभावात , केवलं केचित विशेषशब्दैः संकीर्त्यन्ते, केचित सामान्यध्वनिभिरित्येतावान् विशेषः स्यात् । यदि वा सकलार्थवाचका विशेषध्वनयो न सन्तीति नास्त्यत्र प्रमारणम् । ततश्च सर्वेऽर्था विद्यमानस्ववाचकाः, अर्थत्वात , घटार्थवदिति प्रमाणात; सर्वेषां स्ववाचकत्वेन पूर्वोक्तयुक्तेःशब्दादपार्थक्य सिद्धिः । तस्मान्न परमार्थतोऽर्थः शब्दादव्यतिरिक्तोऽस्ति, उपचारतः पुनलौकिकैरपर्यालोचितपरमार्थैर्व्यवहियते । असावप्यौपचारिकः शब्दात्मको वार्थः प्रतिक्षणभङ्गुरः स्वीकर्तव्यः, वर्णानां क्षणध्वंसिताप्रतीतेः, ऋजुसूत्रप्रतिपादितयुक्तिकलापाच्च ।।
सांप्रतमेतेषामेव प्रत्येकमभिप्रायः कथ्यते-तत्र शब्दो रूढितो यावन्तो ध्वनयः कस्मिश्चिदर्थे प्रवर्तन्ते, यथा इन्द्रशक्रपुरन्दरादयः, तेषां सर्वेषामप्येकमर्थमभिप्रैति किल प्रतीतिवशात् यथा शब्दाव्यतिरेकोऽर्थस्य प्रतिपाद्यते तथैव तस्यैकत्वं वा नैकत्वं वा प्रतिपादनीयम्, न चेन्द्रशक्रपुरन्दरादयः पर्यायशब्दा विभिनार्थवाचितया कदाचन प्रतीयन्ते, तेभ्यः सर्वदैवैकाकारपरामर्शोत्पत्तेः, अस्खल
रूपम्। वासनेति । पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः । तया संपादितमतीतार्थरूपमाकारो येषां स्मरणादीनां तेषां भावस्तया, प्रतीतार्थाकारवन्ति वयं स्म इति स्मरणादीनि विकल्पयन्ति । तस्येति । स्वरूपस्य । संग्रहश्लोकः :
तत्रर्जुसूत्रनीति: स्यात् शुद्धपर्यायसंश्रिता ।
नश्वरस्यैव भावस्य भावात् स्थिति वियोगतः ॥ __एक एवेत्यादि । यथा शब्दनयः पर्यायशब्दानामेकमर्थमभिप्रेति तथा तटस्तटीतटमिति विरुद्धलिङ्गलक्षणधर्माभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि विरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्मयोगो युक्तः, एवं संख्याकालकारकपुरुषादिभेदादपि भेदोऽवगन्तव्यः । संग्रहश्लोक :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414