Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
72
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1
ऋजुसूत्रः । तथा हि- प्रस्याभिप्रायः । अतीतस्य विनष्टत्वात् अनागतस्यालब्धात्मलाभत्वात् खरविषाणादिभ्योऽविशिष्यमारणतया सकलशक्तिविरहरूपत्वान्नार्थक्रियानिर्वर्तनक्षमत्वम्, अर्थक्रियाक्षमं च वस्तु तदभावान्न तयोर्वं स्तुत्वमिति, वर्तमानक्षणालिङ्गितं च पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियते इति तदेव पारमार्थिकम् । तदपि च निरंशमभ्युपगन्तव्यम्, अंशव्याप्तेर्युक्तिरिक्तत्वाद्, एकस्यानेकस्वभावतामन्तरेणानेकस्वावयवव्यापनायोगात् । अनेकस्वभावतैवास्त्विति चेन्न विरोधाघ्रातत्वात् । तथा हि-यद्येकः स्वभावः कथमनेकः अनेकश्चेत् कथमेकः ? एकानेकयोः परस्परपरिहारेणावस्थानात् तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिन्निचयरूपतामापन्ना निखिल - कार्येषु व्यापारभा इति ते एव स्वलक्षणम्, न स्थूरतां धारयत्पारमार्थिकमिति । किं च प्रमाणतोऽर्थव्यवस्था, न च प्रमाणं देशकालव्याप्तिग्रहणे किंचन प्रवर्तते, सर्वप्रमाणानां वर्तमानप्रकाशरूपत्वात् । तथा हि- प्रत्यक्षं तावद्रूपालोकमनस्कारचक्षुर्लक्षणकारणचतुष्टयाल्लब्धसत्ताकं वर्तमानक्षणे एव प्रकाशते, अतीत वर्त्स्य - त्क्षणयोरसंनिहितत्वात् ततश्च तत् तत्कालसंबद्धमेव वस्तुनो रूपं साक्षात्कर्तु क्षमतेन पूर्वमपरं वा, असंनिधानादेव । यदि पुनर्विनष्टमपि पूर्वक्षणवर्तिरूप -
संग्रहश्लोकः-
,
Jain Education International
व्यवहारस्तु तामेव प्रतिवस्तुव्यस्थिताम् । तथैव दृश्यमानत्वाद् व्यवहारयति देहिनः ॥ तामिति सत्तारूपताम् । शेषं सुगमम् ।
देशकालव्याप्तीति । एकस्यानेकावयवव्याप्तिर्देशव्याप्तिः, एतावता स्थूरत्वमुक्तम्, एकस्यानेकक्षणव्याप्तिः कालव्याप्तिः अनेन तु स्थिरत्वमभिहितम् । तत्र कालव्याप्तेरनन्तरत्वेन संनिहितत्वाद् यथाकथंचिदर्थप्रकाशस्य वा विवक्षितत्वात् । सर्वप्रमाणानामित्यादिना तावत् कालव्याप्ति दूषयितुमारभते - वर्तमानप्रकाशरूपत्वादिति । वर्तमान: पूर्वापरसमयविविक्तः, प्रकाशः परिच्छेदो रूपं येषां प्रमाणानां तेषां प्रमाणानां तेषां भावस्तत्वं तस्मात् । इदमत्र हृदयम् - परिच्छेदकं हि प्रमाणमेकक्षणवर्त्येव ततस्तेन परिच्छिद्यमानोऽर्थोपि स्वैकक्षरणवर्त्येव परिच्छेत्तव्यः, न पूर्वापरक्षणवर्ती, तस्य परिच्छेदकप्रमाणकालेऽभावात्, तत्काले च परिच्छेदकप्रमाणस्यासत्त्वादिति ।
वर्तमानकालपरिगतवस्तु
तदिति प्रत्यक्षम् । तत्काल संबद्धं वर्तमानकाल संगतम् । ग्राहित्वं चाध्यक्षस्य वैभाषिकाभिप्रायेण, क्षणक्षयाद्यवस्थितत्वलक्षणत्वाद्वस्तुनः, अन्यथा चक्षुरिन्द्रियसंनिकृष्टादर्थादुत्पद्यमानस्य द्वितीयक्षणभाविनो ज्ञानस्य न प्राक्क्षणवतिरूपग्राहकत्वेन वर्तमानवस्तुग्राहकत्वं स्यात् । सौत्रान्तिकाभिप्रायेण वस्तुजन्यज्ञानगतग्राह्याकारलक्षणमेव वस्तुनो रूपं साक्षात्कतु क्षमते इति व्याख्या । ' वस्त्वाहितमात्मगतमाकारं प्रत्यक्षं परिच्छिनत्ति' - इति हि सौत्रान्तिकानां सिद्धान्तः । यदाहुस्तद्वादिन:अर्थी ज्ञानसमन्वितो मतिमता वैभाषिकेरणोच्यते प्रत्यक्षो न हि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचारानुरभिहिता साकार बुद्धि: मन्यन्ते वत मध्यमाः कृतधियः स्वच्छां परं संविदम् ॥ इति ॥
परा
'
,
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414