Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 388
________________ NYÀYAVATÃRAN हि-भावमात्रं विशेषाः। तदव्यतिरिक्तत्वाद, इह यद्यतोऽव्यतिरिक्तं तत्तदेव भवति, तद्यथा भावस्यैव स्वरूपम्, अव्यतिरेकिणश्च विशेषाः, अतस्तद्रूपा एव । ननु च यदि भावमात्रमेव तत्त्वं तदा तस्य सर्वत्राविशेषाद् य एते प्रतिप्राणि प्रसिद्धाः स्तम्भेभकुम्भाम्भोरुहादिविशिष्टवस्तुसाध्या व्यवहारिणस्ते सर्वेऽपि प्रलयमापोरन्, अतो विशेषा अपि विविक्तव्यवहारहेतवोऽभ्युपगन्तव्याः । नैतदस्ति, व्यवहारस्याप्यनाद्यविद्याबलप्रवर्तितत्वात्, तेन पारमार्थिकप्रमाणप्रतिष्ठिततत्त्वप्रतिबन्धाभावात् । किं च विशेषाग्रहो विशेषेण त्याज्यः, विशेषव्यवस्थापकप्रमाणाभावात् । तथा हि-भेदरूपा विशेषाः, न च किंचित्प्रमाणं भेदमवगाहते, प्रत्यक्षं हि तावद्भावसंपादितसत्ताकं तमेव साक्षात्कर्तु युक्तं नाभावम्, तस्य सकलशक्तिविरहरूपतया तदुत्पादने व्यापाराभावात्, अनुत्पादकस्य च साक्षात्करणे सर्वसाक्षात्करणप्रसङ्गात्, तथा च विशेषाभावात् सर्वो द्रष्टा सर्वदर्शी स्यात्, अनिष्टं चैतद् भवताम्, तस्माद् भावग्राहकमेव तदेष्टव्यम् । स च भावः सर्वत्राविशिष्ट इति तथैव तेन साह्यः, तदुत्तरकालभावी पुनर्विकल्पो 'घटोऽयं पटादिर्न भवति' इत्येवमाकारो व्यवहारं रचयन् अविद्यामूलत्वान्न प्रमाणम्, तन्न प्रत्यक्षाद्विशेषावगतिः । नाप्यनुमानादेः, प्रत्यक्षमूलकत्वाच्छेषप्रमाणवर्गस्य, तस्मात् सामान्यमेव परमार्थो न विशेषा इति संग्रहः ॥ सांप्रतं व्यवहारमतमुच्यते--तत्र व्यवहरणं व्यवह्रियते वानेन लौकिकैरभिप्रायेणेति व्यवहारः । अयं तु मन्यते-यथालोकग्राहमेव वस्त्वस्तू, किमनयादष्टाव्यवह्रियमाणवस्तुपरिकल्पनकष्टपिष्टिकया ? यदेव च लोकव्यवहारपथमवतरति तस्यानुग्राहकं प्रमाणमुपलभ्यते, नेतरस्य, न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमाणभूमिः, तथानुभवाभावात, सर्वस्य सर्वशित्वप्रसङ्गाच्च । नापि विशेषाः परमाणलक्षणाः क्षणक्षयिणः प्रमाणगोचरः, तथा प्रवृत्तेरभावात् । तस्मादिदमेव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थरतामाविभ्राणमुदकाहरणाद्यर्थक्रियानिर्वर्तनक्षमं घटादिकं च वस्तुरूपं पारमार्थिकमस्तु, पूर्वोत्तरकालभावितत्पर्यायपर्यालोचना पुनरज्यायसी, तत्र प्रमाणप्रसराभावात्, प्रमाणमन्तरेण च विचारस्य कर्तुमशक्यत्वात्, अवस्तुत्वाच्च तेषां किं तद्गोचरपर्यालोचनेन ? तथा हि-पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कंचन लोकव्यवहारमुपरचयन्ति, तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् इति व्यवहारः ॥ सांप्रतं ऋजुसूत्राभिप्रायः कथ्यते तत्र ऋजुप्रगुणमकुटिलमतीतानागतवक्रपरित्यागाद्वर्तमानक्षणविवर्ति वस्तुनो रूपं सूत्रयति निष्टङ्कितं दर्शयतीति - संग्रहश्लोक: सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ।। यथालोकग्राहमिति । ग्राहयतीति ग्राहोऽभिप्रायः, पचाद्यच्, लोकाभिप्रायविशेषः, तस्यानतिक्रमेणेति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414