Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 369
________________ 52 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 तमासाद्य क्रमेण कार्य कुर्यादिति चेत, न, सहकारिकारणस्य नित्येऽकिंचितकरत्वात, अकिंचित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि यौगपद्येन नित्योऽर्थोऽर्थक्रियां कुरुते, अध्यक्षविरोधात् । न ह्येककालं सकलाः क्रियाःप्रारभमाणः कश्चिदुपलभ्यते, करोतु वा, तथाप्याद्यक्षणे एव सकलक्रियापरिसमाप्तेद्वितीयादिक्षणेष्वकुर्वाणस्यानित्यता बलादाढौकते, करणाकरणयोरेकस्मिन् विरुद्धत्वादिति । नित्यवादी पुनरेवं प्रमाणयति-सर्वं नित्यम्, सत्त्वात्, क्षणिके सदसत्कालयोरर्थक्रियाविरोधात्, तल्लक्षणं सत्त्वं नावस्थां बध्नातीति ततो निवर्तमानमनन्यशरणतया नित्यत्वं साधयति । तथा हि-क्षणिकोऽर्थः सद् वा कार्यं कुर्यात्, असद् वा, गत्यन्तराभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकरणभावप्राप्त्यातिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकरणशक्तिविकलत्वात्, अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन, विशेषा. भावादिति । तदेवमेकान्तद्वयेऽपि ये ये हेतवस्ते ते युक्त : समानतया विरुद्धं न व्यभिचरन्ति, अविचारितरमणीयतया मुग्धजनध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिकाः, सर्ववस्तुधर्माणां वस्तुतोऽनेकान्तप्रतिबद्धत्वादिति । तस्मादमी सर्व एव हेतवः सन्तोऽनेकान्तमन्तरेण नोपपद्यन्ते, इति तमेव प्रतिपादयितुमीशते । विमूढबुद्धिभिः पुनः विपक्षसाधनार्थमुपन्यस्यमाना विवक्षयासिद्धविरुद्धानैकान्तिकतामाबिभ्रतीति स्थितम् ।।२३।। तदेवं हेत्वाभासान् प्रतिपाद्य दृष्टान्तलक्षणव्युदस्तान् दृष्टान्ताभासानाह-- साधफेरणात्र दृष्टान्तदोषा न्यायविदीरिताः । अपलक्षरण हेतूत्थाः साध्यादिविकलादयः ॥२४॥ साधनं साध्याक्रान्तमुपदर्शयितुमभिप्रेतं यस्मिस्तत् साधर्म्यम् तेन, अत्र व्यतिकरे, दुष्यन्त इति दोषाः दृष्टान्ता एव दोषाः दृष्टान्तदोषाः, दृष्टान्ताभासा इत्यर्थः, न्यायविदीरिता विद्वद्भिर्गदिताः । साध्यं गम्यम्, आदिशब्दात् साधनोभयपरिग्रहः, तद्विकलास्तच्छन्याः, आदिशब्दात् संदिग्धसाध्यसाधनोभयधर्मा गृह्यन्ते । किंभूता एते इत्याह-अपगतं लक्षणं येभ्यस्ते तथा च ते हेतवश्च तेभ्य उत्थानं येषां तेऽपलक्षणहेतूत्थाः । इदं च प्रायिकं विशेषणम्, सम्यग्हेतावपि वक्तृदोषवशात् दृष्टान्ताभासतोपपत्तेः। यथा-नित्यानित्यः शब्दः, श्रावणत्वात् घटवदित्यादि । तत्र साध्य विकलो यथा-भ्रान्तमनुमानम्, प्रमाणत्वात्, प्रत्यक्षवत् । प्रत्यक्षस्य सत्त्वं निवर्तयति । ननु चार्थक्रियासामर्थ्य मेव सत्त्वं नान्यत्, तथा च ज्ञानश्री:-"यदि नाम प्रतिदर्शनं सत्त्वभेदस्तथाऽपीहार्थक्रियासामर्थ्यमेव सत्त्वमभिप्रेतमिति," ततश्चार्थक्रियासामर्थ्यत्वयोर्घटकुम्भयोरिव व्यावृत्तिकृतस्य भेदस्याभावात् कथं व्याप्यव्यापकभावः । उच्यते, कारणस्य कार्यात्प्राग्भावित्वमर्थक्रियासामर्थ्य भवनधर्मकत्वमात्रं तु सत्त्वमिति व्यक्तो व्यावृत्तिकृतो भेदः । यत्तूक्तम्-अर्थक्रियासामर्थ्य मेव सत्त्वमिति, तदर्थक्रियासामर्थ्य व्यभिचारित्वात् सत्त्वस्येति ।।२३॥ संदिग्धसाध्यधर्मेति । संदिग्धश्चासौ साध्यश्च संदिग्धसाध्यः संदिग्धसाध्यो धर्मो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414