Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 380
________________ NYAYĀVATĀRA” तया सितपीतादिषु ज्ञानस्य बोधरूपेणैवाविशिष्टत्वात् । तदेवं बहिरन्तश्चैकानेकरूपत्वे प्रमाणतः स्थिते स्वलक्षणस्यान्यथा स्वाभ्युपेतदर्शन व्यवस्थायोगाद् नार्थवाद्यनेकान्तप्रकाशं प्रतिक्षेप्तुमर्हति ।। तथोररोकृतयोगाचारमतमपि बलादनेकान्तप्रकाशरज्जुरावेष्टयति, एकस्यापि ज्ञानस्यानेकवेद्यवेदकाकारतया प्रथनोपगतेः । एक योगक्षेमत्वात तदैक्यमिति चेन्न, युगपदुदयप्रलयवतां सहवेदिनां सकलसंतानानामेकत्वप्रसङ्गात् । संवृतिदशितत्वादनेकत्वस्य न तेन स्वसंवेदनसाक्षात्कृतपारमार्थिकैव त्वक्षतिरिति चेन्न, ब्रह्मवादिमताप्रतिषेधप्रसक्तः। यतोऽनाद्यविद्याबलादेकमक्रमं सचेतनं स्वसंवेदनसाक्षात्कृतमपि ब्रह्मानेकं क्रमवत चेतनाचेतनं परोक्षापरोक्षं लक्ष्यते, भवत्परिकल्पितग्राह्यग्राहकाकारविविक्तसंवेदनवदिति तेनापि न दुरुपपादम्। अस्तु चायमनेकान्तावभासो भ्रान्तस्तथापि संवेदनस्याद्वयता न लक्ष्यते, तल्लक्षणे सकलासुमतामधुनैव मुक्ततावाप्तेः, लक्ष्यते च तत्कथंचित्, इतरथा सुषुप्तदशावत् सर्वव्यवहारोच्छेदप्रसङ्गात्, इत्येकस्यापि संवेदनस्य लक्षितालक्षितत्वेनानेकान्तप्रति- . भासो दुःशकोऽपह्नोतुमिति ज्ञानवाद्यप्यस्य हेतोरसिद्धताविर्भावनं प्रति तूष्णीमासीत ॥ शून्यवादिनः समस्ताभावादसिद्धोऽनेकान्तप्रकाश इति चेन्न, तस्यापि परक्तभावे । अभिन्नयोगक्षेमत्वाविति । प्राग्वद्भावनीयम् । तद्विपर्ययादिति। भिन्न कालभावित्वात् । तत्सामर्थ्यादित्यादि । तेषा संविदन्तनिविष्टाकारणां सितपीतादीनां सामर्थ्यम्, तेन व्यवस्थाप्यो योऽर्थस्तस्यैक्यप्रसङ्गात् । तदेकतया प्राकाराणामेकतया, सितपीतांदिवस्तुविषयिणो ज्ञानस्य बोधरूपेणैव वा विशिष्टत्वात्, बोधस्वरूपतैव ज्ञानस्योद्वारिता, न पुनः सितपीतादयो बहिरर्थव्यवस्थापका: केचिदाकारा:। क्वापि बोधरूपेणैवाविशिष्टत्वात् इति पाठः, तदेवं व्याख्या-- यथा वहुष्वपि सितपीतादिषु वस्तुषु ज्ञानस्य बोधरूपेणाविशिष्टत्वं समानत्वम्, तथा सितपीताद्याकाराणामेकतयापीत्यर्थः । अयमभिप्रायः-यदैकज्ञानान्तर्वतिनां नानादेशव्यवस्थितार्थप्रभवानां बहूनामप्याकाराणामेकत्वम्, तदा तदेकाकारज्ञानव्यवस्थाप्यस्य बहिर्वस्तुस्तोमस्याप्येकत्वं स्यात; एकनीलाकारज्ञानव्यवस्थाप्य बहिनीलस्वलक्षण एकत्ववत् । बहिरन्तश्चेत्यादि । प्रमाणत एकानेकरूपत्वे स्वलक्षणस्प व्यवस्थिते इति संबन्धः । यथा च वृक्षादिवस्तूनां संनिहितासंनिहिताभ्यां स्पष्टास्पष्टप्रतिभासजनकत्वेन स्वलक्षणत्वम्, यस्यार्थस्य संनिधानागंनिधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणमिति तल्लक्षणात्, तथान्तःसंवेदनस्यापि । तथा हि-स्मर्य माणसंवेदनमसंनिहितत्वादस्फुटं प्रतिभाति, अनुभूयमानं तु संनिहितत्वात् स्फुटम्; यद्वा परसंतानवति संवेदनमसंनिहितत्वादस्फुटम्, स्वसंतानवति तु संनिहितत्वात् स्फुटम्, तस्मादन्तःसंवेदनस्यापि तल्लक्षणलक्षितत्वात् स्वलक्षणत्वमिति । योगाचारेति योजनं योगः, ज्ञानाकारयोः संबन्धः, तमाचरन्ति व्यवहरन्ति इति कर्मण्यण् इति अण्. साकारज्ञानमात्रवादिन इत्यर्थः, योगः समाधिः साकारज्ञानमात्रैकाग्रता, तमाचरन्ति इति वा, पूर्ववत् अण् । ब्रह्मेति ज्ञानाद्वैतमिति । न तेनापि दुरुपपादमिति । एतत् कर्मतापन्नं तेनापि ब्रह्मवादिना न दुःखेनोपपाद्यते, किंतु सूपपाद-सुखेनैव घटयितुं शक्यमित्यर्थः । मुक्ततावाप्तेरिति तत्त्वज्ञानोत्पत्तिर्मुक्तिः इति मुक्तिलक्षणाभिधानात्, तत्त्वं च ज्ञानाद्वैतमेवेति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414