________________
NYAYĀVATĀRA” तया सितपीतादिषु ज्ञानस्य बोधरूपेणैवाविशिष्टत्वात् । तदेवं बहिरन्तश्चैकानेकरूपत्वे प्रमाणतः स्थिते स्वलक्षणस्यान्यथा स्वाभ्युपेतदर्शन व्यवस्थायोगाद् नार्थवाद्यनेकान्तप्रकाशं प्रतिक्षेप्तुमर्हति ।।
तथोररोकृतयोगाचारमतमपि बलादनेकान्तप्रकाशरज्जुरावेष्टयति, एकस्यापि ज्ञानस्यानेकवेद्यवेदकाकारतया प्रथनोपगतेः । एक योगक्षेमत्वात तदैक्यमिति चेन्न, युगपदुदयप्रलयवतां सहवेदिनां सकलसंतानानामेकत्वप्रसङ्गात् । संवृतिदशितत्वादनेकत्वस्य न तेन स्वसंवेदनसाक्षात्कृतपारमार्थिकैव त्वक्षतिरिति चेन्न, ब्रह्मवादिमताप्रतिषेधप्रसक्तः। यतोऽनाद्यविद्याबलादेकमक्रमं सचेतनं स्वसंवेदनसाक्षात्कृतमपि ब्रह्मानेकं क्रमवत चेतनाचेतनं परोक्षापरोक्षं लक्ष्यते, भवत्परिकल्पितग्राह्यग्राहकाकारविविक्तसंवेदनवदिति तेनापि न दुरुपपादम्। अस्तु चायमनेकान्तावभासो भ्रान्तस्तथापि संवेदनस्याद्वयता न लक्ष्यते, तल्लक्षणे सकलासुमतामधुनैव मुक्ततावाप्तेः, लक्ष्यते च तत्कथंचित्, इतरथा सुषुप्तदशावत् सर्वव्यवहारोच्छेदप्रसङ्गात्, इत्येकस्यापि संवेदनस्य लक्षितालक्षितत्वेनानेकान्तप्रति- . भासो दुःशकोऽपह्नोतुमिति ज्ञानवाद्यप्यस्य हेतोरसिद्धताविर्भावनं प्रति तूष्णीमासीत ॥
शून्यवादिनः समस्ताभावादसिद्धोऽनेकान्तप्रकाश इति चेन्न, तस्यापि
परक्तभावे । अभिन्नयोगक्षेमत्वाविति । प्राग्वद्भावनीयम् । तद्विपर्ययादिति। भिन्न कालभावित्वात् । तत्सामर्थ्यादित्यादि । तेषा संविदन्तनिविष्टाकारणां सितपीतादीनां सामर्थ्यम्, तेन व्यवस्थाप्यो योऽर्थस्तस्यैक्यप्रसङ्गात् । तदेकतया प्राकाराणामेकतया, सितपीतांदिवस्तुविषयिणो ज्ञानस्य बोधरूपेणैव वा विशिष्टत्वात्, बोधस्वरूपतैव ज्ञानस्योद्वारिता, न पुनः सितपीतादयो बहिरर्थव्यवस्थापका: केचिदाकारा:। क्वापि बोधरूपेणैवाविशिष्टत्वात् इति पाठः, तदेवं व्याख्या-- यथा वहुष्वपि सितपीतादिषु वस्तुषु ज्ञानस्य बोधरूपेणाविशिष्टत्वं समानत्वम्, तथा सितपीताद्याकाराणामेकतयापीत्यर्थः । अयमभिप्रायः-यदैकज्ञानान्तर्वतिनां नानादेशव्यवस्थितार्थप्रभवानां बहूनामप्याकाराणामेकत्वम्, तदा तदेकाकारज्ञानव्यवस्थाप्यस्य बहिर्वस्तुस्तोमस्याप्येकत्वं स्यात; एकनीलाकारज्ञानव्यवस्थाप्य बहिनीलस्वलक्षण एकत्ववत् । बहिरन्तश्चेत्यादि । प्रमाणत एकानेकरूपत्वे स्वलक्षणस्प व्यवस्थिते इति संबन्धः । यथा च वृक्षादिवस्तूनां संनिहितासंनिहिताभ्यां स्पष्टास्पष्टप्रतिभासजनकत्वेन स्वलक्षणत्वम्, यस्यार्थस्य संनिधानागंनिधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणमिति तल्लक्षणात्, तथान्तःसंवेदनस्यापि । तथा हि-स्मर्य माणसंवेदनमसंनिहितत्वादस्फुटं प्रतिभाति, अनुभूयमानं तु संनिहितत्वात् स्फुटम्; यद्वा परसंतानवति संवेदनमसंनिहितत्वादस्फुटम्, स्वसंतानवति तु संनिहितत्वात् स्फुटम्, तस्मादन्तःसंवेदनस्यापि तल्लक्षणलक्षितत्वात् स्वलक्षणत्वमिति । योगाचारेति योजनं योगः, ज्ञानाकारयोः संबन्धः, तमाचरन्ति व्यवहरन्ति इति कर्मण्यण् इति अण्. साकारज्ञानमात्रवादिन इत्यर्थः, योगः समाधिः साकारज्ञानमात्रैकाग्रता, तमाचरन्ति इति वा, पूर्ववत् अण् । ब्रह्मेति ज्ञानाद्वैतमिति । न तेनापि दुरुपपादमिति । एतत् कर्मतापन्नं तेनापि ब्रह्मवादिना न दुःखेनोपपाद्यते, किंतु सूपपाद-सुखेनैव घटयितुं शक्यमित्यर्थः । मुक्ततावाप्तेरिति तत्त्वज्ञानोत्पत्तिर्मुक्तिः इति मुक्तिलक्षणाभिधानात्, तत्त्वं च ज्ञानाद्वैतमेवेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org