________________
62
VAISHALI INSTITUTE RESEARCH BULLETIN NO. I
1
हि - बहिस्तावदेकं कारणमपरापरसामग्रयन्तः पातितयानेक कार्य कार्यावेद्यते, यथारूपं स्वोत्तरक्षणं स्वावगाहिज्ञानादिकं च युगपज्जनयति । यदि चेकक्षणवर्तिनः सामग्रीभेदेन भेदमनुभवत एव भिन्नदेशनाना कार्यकारिता, तथा सति नित्यपक्षोदितं दूषणं स्वमस्तकोपनिपाति स्यात्, तस्यापि तथैव भिन्नकालकार्यनिवर्तनेऽपि भेदाभावप्रसङ्गात् । तथा प्रतिभासभेदेन क्षणक्षयिरूपादिस्वलक्षणत्वाभ्युपगमश्चैवं निर्निबन्धनः स्यात्, कौटस्थ्यमाविभ्रतोऽपि द्रव्यस्यापरापरकारणकलापान्तर्गततयानवपुराणादिपर्यायरूपरसगन्धस्पर्शावभासलक्षणकार्य संपादनाविरोधप्रसक्त ेः किं चायमेकं स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं साक्षाल्लक्षयन् क्षणक्षयिपरमाणु लक्षणानि स्वलक्षणानि व्याचक्षीत नान्यथा, यथाकूतं तदवभासस्य स्वप्नान्तरेऽप्यनुपलक्षणात्, लक्षितस्य चालक्षितव्यतिरेकनिराकरणतस्तादात्म्यं कथयन् स्वगिरानेकान्तावभासं समर्थयते । तथा हि-अलक्षितपरमाणुपारिमाण्डल्यप्रतिक्षणविवर्तमपि स्वलक्षणं स्थिरस्थूराद्यात्मना दर्शयति स्वरूपम्, अन्यथा सुषुप्तं जगदासज्येत तदप्रकाशने प्रमाणान्तरस्याप्यत्यन्त विलक्षणस्वलक्षणा वेदकस्याप्रवृत्तिप्रसङ्गात् । तथान्तः संवेदनमर्थं स्वरूपापेक्षया बहिर्मुखान्तर्मुखसविकल्पविकल्प भ्रान्ताभ्रान्तादिप्रतिभासमेकमभ्युपयतः कथमनेकान्तावभासोऽसिद्धः स्यात् ? तथा नानादेशस्थितार्थ सार्थ समर्पिताकारोपरक्तमेकमाकारभेदेऽप्यन्यथा युगपत्प्रकाशमान सितासिताद्यर्थ व्यवस्थित्यनुपपत्तेः संवेदनमनुमन्यमानः कथं भित्रसमयभावि हर्षविषादाद्यनेकविवर्तवशात् तदभेदमात्यन्तिकमभिदधीत, अभिन्नयोगक्षेमत्वात् । युगपद्भाविनां संविदन्तर्निविष्टाकाराणामेकत्वं न हर्षादीनाम् तद्विपर्ययादिति चेन्न तत्सामर्थ्यव्यवस्थाप्यार्थाभेदप्रसङ्गात्, तदेक
3
प्रतिक्षणं विशरावो रूपरसगन्धस्पर्श परमाणवो ज्ञानं चेत्येव तत्त्वम् इति, ततः सोत्रश्चासो अन्तश्च सौत्रान्तः, स विद्यते यस्य श्रतोऽनेकस्वरात् ( सि० हे० ७-२-६) इति इकः । यद्वा सूत्रान्तः प्रयोजनं प्रवर्तकं यस्य इति प्रयोजनम् (सि० हे० ५-४- ११७ ) इतीकण् । स्वोत्तरेत्यादि । स्व आत्मीयः स चासौ उत्तरक्षणश्च यद्वा स्वस्मादुत्तरः स्वोत्तरः स चासौ क्षणश्चेति, स्वस्योत्तरक्षणः स्वोत्तरक्षण इति वा । स्वमात्मानमवगाहते विषयीकरोतीत्येवं शीलं स्वावगाहि तच्च तत् ज्ञानं चेति । प्रदिशब्दात् सहकारिकारणभावेन रसालोकादिकार्यं जननग्रहः । नित्यपक्षोदितमिति । एकस्य भिन्नकालानेककार्यजनकस्वभावत्वे विरुद्धधर्माध्यासादनेकत्वमिति । तथैवेति । यथेककालमेकमनेकदेशं नानाकार्यं कुर्वदप्येकनेव, तथा श्रभिन्नकाला
कार्यवर्तनेऽप्येकमेवेति स्थायित्वसिद्धिः । अलक्षितेत्यादि । परिमण्डलाः परमाणवः तेषां भावः पारिमाण्डल्यं वर्तुलत्वं परमाणुपरिमाणमेव वा अनुशतिकादित्वाद् उभयपदवृद्धिः । प्रतिक्षणं प्रतिसमयं विवर्तः परिणमनं स तथा परमाणूनां पारिमाण्डत्य प्रतिक्षण विवर्ती, तथा न लक्षितौ परमाणुपारिमाडल्य प्रतिक्षण विवर्तौ यस्य स्वलक्षणस्य तत् । स्थिरस्थूरादीति । आदिशब्दात् पृथुबुध्नोदराद्याकारो गृह्यते । तदप्रकाशने स्थिरस्थूराद्यात्मकवस्त्वप्रकाशने । बहिर्मुखेति । बहिर्बाह्यवस्तुविषये मुखमारम्भः प्रकाशनप्रवृत्तिर्यस्य तत्तथा बाह्यवस्त्वभिमुखमित्यर्थ: । एवमन्तर्मुखेत्यप्युक्तानुसारतो व्याख्येयम्, श्रादिशब्दात् प्रमाणाप्रमाणादिपरिग्रहः । नानादेशेत्यादि । उपरक्तं विशेषितं एकं संवेदनमिति संबन्ध: । अन्यथेति । नानाकारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org