________________
61
NYAYĀVATĀRAN नेकावयवत्वप्राप्तेः । अथ भिन्नास्तेष्वपि ते कथं वर्तन्ते इति वाच्यम्, एकदेशेन सामस्त्येन वा। एकदेश पक्षे तदेवावर्तते इत्यनवस्था । अथ सामस्त्येनतदप्यसाधीयः, प्रत्येक परिसमाप्ततया संयोगादिबहुत्वप्रसङ्गात्तदभिन्नाः पुन संयोगादयो न विकल्पभाजो भवन्ति । अभेदपक्षेऽपि संयोगादिमात्रं संयोग्यादिमात्रं वा स्यादिति चेन्न, तस्याप्येकान्तेनानभ्युपगमात्, किं तर्हि अन्यान्याविश्लिष्टस्वरूपा विवक्षया संदर्शनीयभेदाः सर्वे एवैतेऽभ्युपगम्यन्ते, तथाविधानां कुयुक्तिविकल्पोत्थापितदूषणसमूहनिराकरणक्षमत्वात्, अबाधितप्रतिभासेषु सर्वत्र तेषां तथैव प्रतिभासनात, अन्यथा प्रतिभासमानानामन्यथा परिकल्पने दृष्टहान्यदष्टपरिकल्पनाद्वारेणासमञ्जसप्राप्तेः, तथा च ब्रह्माद्वैतशून्यवादादयः सिद्धिमश्नुवीरन्, विशेषाभावादिति ।।
___ एतेनास्य हेतोः कापिला अप्यसिद्धतादिदोषमभिधित्सवो मौक्यमानीताः । तथा हि-अन्तरेकं संवेदनमपरापरहर्षविषादाद्यनन्तधर्मविवर्ताक्रान्तरूपं वहिश्च घटादिकमर्थं नवपुराणादिवर्तुलपार्थिवत्वाद्यनेकस्वभावावष्टब्धशरीरं साक्षाल्लक्षयन्तः कथं तद्विपरीतकथने प्रवर्तेरन् ? प्रकृतिपुरुषात्मकं द्रव्यमेवैकं तात्त्विकम्, पर्यायभ्रान्तिजनकः पुनर्विवर्तोऽपारमार्थिक इति चेन्न, द्वयोरपि सर्वप्रमाणेषु प्रकाशमानयोरवाधितयोः सर्वव्यवहारनिवन्धनयोः पक्षपातमन्तरेणैकस्य निह्नोतुमशक्यत्वात् । तथा सति विवर्त एव तात्त्विकः, द्रव्यं पुनरलीकमिति पर्यायपक्षपाती प्रसञ्जयन् दुनिषेधः स्यादिति । अथेत्थमभिदधीथाः-द्रव्यं सर्वत्राव्यभिचरितरूपत्वात् सत्यम्, पर्याया: पुनर्व्यभिचारिण इत्यसत्याः । तदयुक्तम्, यदि नाम द्रव्यमभेदरूपत्वात् सर्वत्रानुवर्तते, पर्यायास्तु भेदरूपत्वात् व्यवच्छिद्यन्ते, तथापि तत्सत्यम् इतरेऽलीका इति वक्त न पार्यते, न हि नीलं पीतरूपतां न विति इत्येतावता तदसत्यम्, अतिप्रसङ्गात्, सर्वस्य पररूपपरिहारावस्थायितयालीकत्वप्राप्तेः । अथ द्रव्यमेव पर्यायास्तदव्यतिरिक्तत्वात् तत्स्वरूपवत्, न सन्ति वा द्रव्यव्यतिरेकिणः पर्यायाः निःस्वभावत्वात् खपुष्पवत् इति प्रमाणयसि, तथा सति पर्याया एव द्रव्यं, तदव्यतिरिक्तत्वात् तत्स्वरूपवत्, नास्ति वा पर्यायव्यतिरिक्तं द्रव्यम् निष्पर्यायत्वात् आकाशकुसुमवदिति इतरोऽपि प्रमाणयन् केन वार्यते । तन्न पक्षद्वयेऽपि काचिद्विशेषोपलब्धिरिति । यथैवानन्तसहक्रमवर्तिपर्यायाध्यासितं वस्तु सर्वप्रमाणेषु प्रकाशते तथैवाभ्युपगन्तव्यम्,तथा चान्यस्याभावात् तदेव तद्गोचर इति स्थितम् ।।
तथा सुगतमतानुसारिणामपि मध्ये सौत्रान्तिकस्तावदस्य हेतोरसिद्धातामाविर्भावयितुं नोत्सहते, तदभ्युपगतिव्यतिरेकेण निजदर्शनव्यवस्थानुपपत्तेः । तथा नव संयोगे लब्धे गोबलीवर्दन्यायेनात्यन्त प्रसिद्धत्वात् गुणेभ्यो निष्कृष्य पृथक् संयोगस्योपादानम, गुणास्तु रूपादयो द्रष्टव्याः, प्रादिशब्दाद् द्रव्ये कम्पादिकर्मणो वृत्तौ दूषणपरिग्रहः । तेषां संयोगादीनाम् । दृष्टेत्यादि । संयोग्यादिभ्यः कथंचिद्भिन्नाः संयोगादय इति दृष्टम, घटपटादिवदेकान्तभेदिनः संयोगादय इति स्वप्नेऽप्य इन्टम्, तयोर्हानिपरिकल्पने त एव द्वारं तेन ॥ सौत्रान्तिक इति। 'सूत्र अवमोचने' चुरादावदन्तः, ततः सूयते निीयते तत्त्वमनेनेति स्वरान्तत्वादलि सूत्रमागम: तस्यायं सौत्रः, अन्तः परिनिष्ठा; यदाहुस्तद्वादिन:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org