________________
60 VAISHALI INSTITUTE RESEARCH BULLETIN NO. i प्रवर्तितुमुत्सहते, तदा तद्विशेषणभूतं प्रमाणं एकान्ते प्रवर्तयिष्यते इति दुरापास्तावकाशा एवैषा वार्ता, तथाप्यनादिमिथ्याभिनिवेशवासितान्तःकरणाः कुदर्शनविप्रलब्धबुद्धयो बहवोऽत्र विप्रतिपद्यन्ते इति सर्व प्रमाणानामनेकान्तगोचरत्वसाधक प्रमाणमभिधीयते । इह यत्प्रमाणं तत्परस्पराविनिर्मुठितानेकधर्मपरिकरितवस्तुनो ग्राहकम्, तस्यैव तत्र प्रतिभासमानत्वात्, इह यद्यत्र प्रतिभाति, तदेव तद्गोचरतयाभ्युपगन्तव्यम् । तद्यथा-निरादीनवनयनप्रभवदर्शने प्रतिभासमानं पाटलतया जपाकुसुमं तथैव तद्गोचरतयाभ्युपगम्यते, परस्पराविभक्तानेकस्वभावाक्रान्तमूर्तिकं च बहिरन्तश्च वस्तु सर्वप्रमाणेषु प्रथते इति, अतस्तदेव तेषां गोचरः । न चेतरेतरविशकलितमिधर्मभाववादिभिः कणभक्षाक्षपादशिष्यकैस्तावदस्य हेतोरसिद्धतादिदोषः प्रतिपादयितुं शक्यः, तदभ्युपगममन्तरेण स्वाभिप्रेतवस्तुनोऽवस्थानाभावात् । तथा हि-एकस्मिन् धर्मिणि बहवो घस्तितो भिन्नतनवः कथं वर्तेरन् ? भेदाविशेषेण सर्वत्र तवत्तिप्रसङ्गात् । तत्रैव तेषां समवायान्नान्यत्र वर्तन्ते इति चेत्, ननु सोऽपि समवायो यद्युपकार्योपकारकभावव्यतिरेकेणापि भवति, ततः सर्वत्राविशेषेण प्रसज्येत, तदभावाविशेषात् अस्त्येवोपकार्योपकारकभाव इति चेत्, हन्त हतोऽसि अनेकोपकारकस्यानेकस्वभावताप्राप्तेः, तद्विरहेऽनेकोपकारकत्वाभावात् । न हि येन स्वभावेनैकस्योपकरोति तेनैव द्वितीयस्य, तस्य तत्रैवोपयुक्तात्वात्, द्वितीयोपकारक स्वभावस्य तदुपमर्दनद्वारेणोत्पत्तेः, इतरथैकमेवोपकुर्वस्तिष्ठेत्, तदेकस्वभावत्वात् । भिन्नाभिः शक्तिभिरुपकरोति न भिन्नैः स्वभावैः, तेन नानेकान्त इति चेत्, तास्तहि कथं वर्तन्ते इति वाच्यम् । समवायाद् इत्युत्तरेऽसावप्युपकार्योपकारकभावमन्तरेण कथं न सर्वत्र इति प्राचीनं चोद्यं पश्चाल्लग्नमनुधावति। उपकार्योपकारक भावाभ्युपगमे पुनरप्यनेकस्वभावतां प्रदर्शितयुक्तेः पुनः शक्त्युपकारकभिन्नशक्तिपरिकल्पनेऽप्यनेकान्तान्मोक्षः इति वरमादावेव मत्सरितां विहायानेकधर्माध्यासितं वस्त्वभ्युपगतं किं भेदकल्पनयास्थान एवात्मना परिक्लेशितेन इति । किं चानेकान्तभ्युपगमे सत्येष गुणः-परस्परविभक्त षु संयोगिसंयोगसमवायिसमवायगुणिगुणावयवावयविव्यक्तिसामान्यादिषु संयोगसमवायगुण्यवयविसामान्यादीनां संयोगिसमवायिगुणावयविशेषादिषु वर्तनचिन्तायां यदूषणजालमुपनिपतति, तदपि परिहृतं भवति, एकान्तभेद एव तदुपपत्तेः, अनेकान्ते तदुत्थानाभावात् । तथा हि-भिन्नाः खलु संयोगादयः संयोग्यादिभ्यो विकल्पयितुं पार्यन्ते-यदुत कथमेत एतेषु वर्तन्ते इति । किमेकदेशेन यद्वा सामस्त्येन। यद्येकदेशेन, तदयुक्तम्, तेषां निरवयवत्वाभ्युपगमात्, सावयवत्वेऽपि तेभ्योऽवयवेभ्यो यद्यभिन्नाः, ततोऽनेकान्ताः पत्तिः, एकस्या
निरादीनवेति । प्रादीनवो दोषः । इतरेतरेत्यादि । विविधानि शकलानि येषां तानि विशकलानि, तानि करोतीति इनि विशकल्यन्ते पृथक क्रियन्ते स्मेति कर्मणि क्तः, विविधानि शकलानि संजातानि येषामिति तारकादेराकृतिगण त्वात् इतच्प्रत्ययो वा, तत् इतरेतरं विशकलिताविति विशेषणसमासे तेषां धर्ममिभावं वदन्तीत्येवंशीलास्तैः । परस्परविभक्तेषु संयोगिसंयोगसमवायिसमवायगुरिणगुणावयवावयविव्यक्तिसामान्यादिष्विति प्रत्र गुणग्रहणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org