________________
NYĀVĀVATĂRAH संवेदनमस्ति इति, न भवतः, तथाविधपुरुषसंभवानभ्युपगमात , इतरथा य एव कश्चिनिश्चित्येवमभिदध्यात्, स एव समस्तवस्तुविस्तारव्यापिज्ञानालोकः इति समस्तार्थगोचरसंवेदनसिद्धिरित्यास्तां तावत् ।।२७।।
तदेवं प्रमाणविषये लक्षणसंख्याविप्रतिपत्ती निराकृत्याधुना क्रमप्राप्तां गोचरविप्रतिपत्ति बहुवक्तव्यत्वादनिराकृत्य तावत् फलविप्रतिपत्ति निराचिकीर्षुराह
प्रमारणस्य फलं साक्षादज्ञानविनिवर्तनम् ।
केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥२८॥ द्विविधं हि प्रमाणस्य फलम्-साक्षादसाक्षाच्च, अनन्तरं व्यवहितं चेत्यर्थः । तत्र साक्षादज्ञानमनध्यवसाय: प्रमेयापरिच्छित्तिस्तस्य विनिवर्तनं विशेषेण प्रलयापादनं प्रमाणस्य फलम्, अज्ञानोद्दलनद्वारेण तस्य प्रवृत्तेः, तस्य च सर्वानर्थमूलतया प्रमात्रपकारित्वात् तन्निवर्तनस्य प्रयोजनता युक्तव, एतच्चानन्तरप्रयोजनं सर्वज्ञानानामेकरूपत्वात् सामान्येनोक्तम्। व्यवहितप्रयोजनं पुनर्विभागेनाहकेवलस्य सर्वज्ञज्ञानस्य सुखं वैषयिकसुखातीतपरमालादानुभवः, उपेक्षा साक्षात् समस्तार्थानुभवेऽपि हानोपादानेच्छाभावान्मध्यस्थवृत्तिता, ते सुखोपेक्षे फलमित्यर्थः। शेषस्य तद्व्यतिरिक्तप्राकृतलोकप्रमाणस्यादानं ग्रहणं हानं परित्यागस्तयोरादानहानयो(बुद्धिरादानहानधीः सा फलं इति यावत् । ततश्चादेयानां सम्यग्दर्शनादि-स्त्रक्चन्दनादीनां यादित्सा, तथा हेयानां मिथ्यादर्शनादिविषकण्टकादीनां या जिहासा प्रमाणसाध्या, अप्रमाणात् तदसिद्धेः, प्रेक्षापूर्वकारिणां ततः प्रवृत्त्ययोगादित्युक्त भवति ॥२८॥ अधुना गोचरविप्रतिपत्ति निराचष्टे
अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् ।
एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥२६॥ अनेके बहवोऽन्ता अंशा धर्मा वा आत्मानः स्वरूपाणि यस्य तदनेकान्तात्मकम् । किं तत् ? वस्तु बहिरन्तश्च, गोचरो विषयः सर्वसंविदां समस्तसंवित्तीनाम् । अनेनानेकान्तमन्तरेण संवेदनप्रसरव्यवच्छेदं दर्शयति, भ्रान्तसंवेदनानामप्यनेकान्तोद्योतनपटिष्ठतया प्रवृत्तः, केवलं केषुचिदंशेषु विसंवादकत्वादप्रमाणानि तानि संगीर्यन्ते । तदयमभिप्रायः-यदा संवेदनसामान्यमप्यनेकान्तविरहेण न
अज्ञानोद्दलनद्वारेणेति । अज्ञान मुद्दल यदेव प्रमाणं प्रवर्तते इति । किमुक्तं भवति ? न प्रमाणात् फलमेकान्तेन भिन्नमभिन्नं वा, भेदाभेदरूपतयैवान्तररंपरभेदस्य प्रतिभासनात् । तथा हि-यस्यैवात्मनः फलरूपतयापि तस्यैव सः, य एव प्रमिमीते स एव निवृताज्ञानो जहात्याददाति उपेक्षते चेति प्रतीतः । एष चैकप्रमापेक्षया प्रमाण फलयोरभेदः, करणक्रियापरिणामभेदाच्च भेदः उक्तं च--
पारंपर्येण साक्षाच्च फलं द्वेधाभ्यधायि यत् । जिनैभिन्न मभिन्नं च प्रमाणात्तदिहोदितम् ॥२८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org