________________
58 VAISHALI INSTITUTE RESEARCH BULLETIN No. i मिथ्यावलेपाध्मातान्तःकरणाः प्रमाणप्रसिद्धमप्यदः प्रति विप्रतिपद्यन्ते, तेषां धान्यीकृतबुद्धित्वादवधारणीयतामनेन दर्शयति । किमस्य प्रतिपादकं प्रमाणमिति चेत्, एते ब्रमः- समस्ति समस्तवस्तुविचारगोचरं विशददर्शनम्, तद्गोचरानुमानप्रवत्तेः । इह यद्यद् गोचरमनुमानं प्रवर्तते, तस्य तस्य ग्राहकं किंचित् प्रत्यक्षमुदयपदवीं समासादयति, यथा चित्रभानोः। प्रवर्तते च सकलार्थविषयमनुमानम्, अतस्तदवलोकिना विशददर्शनेनापि भाव्यमिति । सर्वार्थविषयकं किमनुमानं प्रवर्तते इति चेत् । इदमपि ब्रम:--इह यद्यदस्ति तत् सर्वं स्थित्युदयापवर्गसंसर्गमनुभवति, वस्तुत्वात्, यद्यद्वस्तु तत्तत् स्थेमजन्मप्रलयः क्रोडीकृतम् । तद्यथाअङ्गुलिरङगुलित्ववक्रत्वर्जुत्वापेक्षयेति, वस्तु च यदस्ति, अत: प्रस्तुतत्रयाक्रान्तं तदवगन्तव्यम् । इदमेव निखिलार्थगोचरमनेकान्तानुमानं ज्ञानक्रियाभ्यासातिशयानिखिलावरणविच्छेदे विवन्धककारणाभावाद् विशददर्शनीभवति । न चानुमानप्रवृत्तावप्यर्थित्वादिना प्रमातुरप्रवृत्तौ अनुमेयगोचरप्रत्यक्षासंभवेन व्यभिचारश्चोदनीयः, संभवस्य साध्यतयाभिप्रेतत्वात् । न च संभवमात्रेऽस्ति व्यभिचारः, सर्वानुमेयानां-संभवत्प्रत्यक्षतया व्याप्तत्वादिति । अथवान्यथानुमानयामः-संभवत्समस्तशुद्धिक आत्मा, विद्यमान शुद्धथुपायत्वात्, इह यो यो विद्यमानशुद्धथुपायः स स संभवत्समस्तशुद्धिकः, यथा विद्यमानक्षारमृत्पुटपाकादिशुद्ध युपायो रत्नविशेषः, तथा च विद्यमानज्ञानाभ्यासशुद्धथुपाय अात्मा, अतः संभवत्समस्तशुद्धिक इति । सामस्त्यशुद्धश्चात्मा ज्ञानज्ञानिनोः कथंचिद. भेदात् केवल मभिधीयते इति । ज्ञानाद्यभ्यासः कथं विशुद्धिकारणमिति चेत्, आवरणमलप्रतिपक्षरूपत्वादिति ब्रूमः । प्रतिपक्षरूपता कथमवधारिता इति चेत, तवैव दर्शनात् । तथा हि-दृश्यते ज्ञानाद्यभ्यासतः प्रतिक्षणमावरणविलयः, विशिष्टविशिष्टतरतत्कार्यबोधाद्यनुभवात्, तदतिशये पुनः सामस्त्योच्छेदः स्यादित्यभिदध्महे । एतेन यत्परे प्रोचुः यथा-प्रत्यक्षादि प्रमाणपञ्चकगोचरातिक्रान्तत्वात् सर्वार्थसंवेदनमभावाख्यषष्ठप्रमाणगोचरतां प्रतिपद्यते तदयुक्तम्, तत्संभवस्यानुमानेन प्रतिपादनात्, प्रमाणपञ्चकप्रवर्तनाभावासिद्धेः किं च । प्रमाणपञ्चक तद्गोचरं न प्रवर्तते इति कथं भवतो निर्णयः किं नियतदेशकालव्याप्त्या, यद्वा समस्तदेशकालास्कन्दनेनेति ? यद्याद्यः पक्षः, ततो यथा घटादेः क्वचित प्रमाणपञ्चकं तद् गोचरं निवर्तमानमभावं साधयति, एवं समस्तवस्तुसंवेदनगोचरमपि तन्निवर्तमानं नियतदेशदशावच्छिन्नमभावं साधयेत , न सर्वत्र, ततश्च घटादिवत तदुनिर्वारं स्यात । अथ द्वितीयः पक्षः, असौ असंभव्येव, समस्तदेशकालवर्तिपुरुषपरिषत्संवेदनसाक्षात्कारिणो ह्येवं वक्तुं युक्तम्-यदुत न क्वचित समस्तार्थ
मिथ्यावलेपाध्मातान्तःकरणा इति । अलीकाभिमानापूरितमनसः । चित्रभानोरिति। वह्नः । स्थेमेति । स्थिरस्य भावः, पृथ्व्यादित्वादिमनि स्थादेशे ध्रौव्यमित्यर्थः । ज्ञानाद्यभ्यासत इति । ज्ञानाभ्यासात् ज्ञानावरणविलये ज्ञानावरणविलयकार्यो ज्ञानविशेषो दृश्यते । आदिशब्दात् दर्शनाभ्यासात् दर्शनावरण विलये दर्शनावरण विलयकार्यो दर्शनविशेषानुभवो गृह्यते । एवं चारित्राभ्यासेऽपि । तदतिशये ज्ञानाद्यभ्यासातिशये ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org