SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ NYÁYĀVATĀRAN स्वाभिप्रेतसाध्यप्रत्यायनवैकल्यलक्षणं विकृति नीयते साधनमनेनेति दूषणमिति ज्ञेयम् । अधुना तदाभासमाह-निर्गतं सम्यक्प्रयुक्तत्वादवद्यं पापं पक्षादिदोषलक्षणं दौष्टयमस्मादिति निरवद्यम्, तस्मिन् साधने वादिनोक्त इति वर्तते, तथापि मत्सरितया प्रमृद्योदरं यदविद्यमानानां दोषाणामुद्भावनं तद्रूषणस्थानोपन्यस्तत्वात् तत्कार्याकरणात् सम्यक्साधने दोषोद्भावनस्य प्रलापायमानत्वात् दूषणवदाभासते इति दूषणाभासमिति, तदेव नाम संज्ञा यस्य तत्तथा, समर्थसाधनोपन्यस्तत्वात् साधिते साध्ये सतामप्यपशब्दालंकारादिदोषाणां यदुद्भावनं तदपि दूषणाभासनामकमिति । तु शब्देन विशेषणार्थेन दर्शयति-वस्तुसिद्धयर्थं वादप्रवृत्तेः, तस्य सिद्धत्वात्, अपशब्दादीनामप्रस्तुततया तद्द्वारेण दोषप्रकाशनस्यासंबद्धप्रलापरूपत्वात्, इतरथा तावन्मात्रेणैव परापाकरणसिद्धेः समर्थसाधनान्वेषणप्रयत्नोविशीर्येत, प्रयोजनाभावादिति ।।२६।। तदेवं व्यावहारिकप्रमाणस्य प्रत्यक्षपरोक्षस्वार्थपरार्थादिभेदभिन्नस्य लक्षणं प्रतिपाद्याधुना यैः पारमार्थिक समस्तावरणविच्छेदलभ्यमशेषार्थगोचरं केवलज्ञानं नाभ्युपगम्यते, तन्मतोद्दलनार्थं तल्लक्षणमभिधित्सुराह--. सकलावरणमुक्तात्म केवलं यत्प्रकाशते । प्रत्यक्षं सकलात्मसततप्रतिभासनम् ॥२७॥ सकलं समस्तमावृणोत्यावियते वा अनेनेत्यावरणम्, तत्स्वरूपप्रच्छादनं कर्मेत्यर्थः, सकलं च तदावरणं च सकलावरणं तेन मुक्तो रहितः आत्मा स्वरूपं यस्य तत्तथा, अत एव केवलमसहायं आवरणक्षयोपशमविचित्रतयैव वोधस्य नानाकारतया प्रवृत्तेः, सामस्त्येन पुनरावरणनिर्दलने विवन्धककारणवैकल्यादेकाकारतयैव तस्य विवर्तनात्, अतो ज्ञानान्तरनिरपेक्षं यत् प्रकाशते प्रथते निरुपाधिकं द्योतते इत्यर्थः, तत्परमार्थतः प्रत्यक्षम् । तदिदं सकलावरणमुक्तात्म इति हेतुद्वारेण तथा केवलं यत् प्रकाशते इति स्वरूपतो निरूप्याधुना कार्यद्वारेण निरूपयन्नाहसकलार्थात्मनां समस्तवस्तुरूपाणां सततप्रतिभासनम्---अनवरतप्रकाशनं सकलार्थात्मसततप्रतिभासनमिति, प्रतिभास्यतेऽनेनेति प्रतिभासनं, आत्मनो धर्मरूपतया भेदवद्विवक्षितं ज्ञानमिति यावत् । अस्य च पारमार्थिकत्वम्, निरुपचरितशब्दार्थोपपत्तेः । तथा हि-अक्षशब्दो जीवपर्यायस्ततश्चाक्षं प्रति वर्तते इति प्रत्यक्षम्, यत्रात्मनः साक्षाद् व्यापारः, व्यावहारिकं पुनरिन्द्रियव्यवहितात्मव्यापारसंपाद्यत्वात् परमार्थतः परोक्षमेव, धूमादग्निज्ञानवत्, तिरोधानाविशेषात् । ननु च प्रसिद्धं लक्ष्यमनद्याप्रसिद्ध लक्षणं विधीयते, सर्वत्रायं न्यायः, अप्रसिद्ध पुनर्लक्ष्ये लक्षणमभिधीयमानमम्वरारविन्दिनीकुसुमलक्षणवनिर्गोचरतां यायात्, तदिदं स्वरूपतोऽप्रसाध्य लक्षणमभिधानस्य कोऽभिप्रायः इति । अत्रोच्यते-ये ये भावेन णिन्प्रत्ययस्यासंभवादर्थकथनमात्रमेतत् । तावन्मात्रेणैवेति । अपशब्दालंकारादिदोषोद्भावनमात्रेणैव । प्रयोजनाभावादिति । समर्थसाधनस्य हि परनिराकरणं प्रयोजनम्, तच्चेदपशब्दादिदोषोद्भावना चक्रे तदा कृतं वादिदूषणार्थ प्रतिवादिनः समर्थसाधनोपन्यासप्रयासेनेति ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.522601
Book TitleVaishali Institute Research Bulletin 1
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherResearch Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
Publication Year1971
Total Pages414
LanguageEnglish, Hindi
ClassificationMagazine, India_Vaishali Institute Research Bulletin, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy