________________
56 VAISHALI INSTITUIÊ RESEARCH BULLETIN NO. I वित इति दुष्टता। विपरीत व्यतिरेकः पुनरभिहितः, यथा-अनित्यः शब्दः कृतकत्वादिति । अत्र वैधर्म्यदृष्टान्तः–यदकृतकं तन्नित्यं भवति, यथा आकाशमिति, अत्र विपर्यस्तव्यतिरेकप्रदर्शनाद्विपरीतव्यतिरेकित्वम्, वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाक्रान्तोदर्शनीयः, न चैवमत्र, साधनाभावस्य साध्याभावव्याप्ततयाभिधानादिति। व्यतिरेकाप्रदर्शनं विपरीतव्यतिरेकप्रदर्शनं च न वस्तुनो दोषः, किं तर्हि वचनकुशलताविकलस्याभिधायकस्य । किं च येषां भवतामदो दर्शनम्-यदुत स्वार्थानुमानकाले स्वयं हेतुदर्शनमात्रात् साध्यप्रतीतेः परार्थातुमानावसरेऽपिहेतुप्रतिपादनमेवकर्तव्यम्, “विदुषां वाच्यो हेतुरेव हि केवलः"--इति वचनात्, तेषां कृतकत्वाद् इतीयता हेतूपन्यासेनैव सिसाधयिषित. साध्यसिद्धेः समस्तदृष्टान्ताभासवर्णनमपि पूर्वापरव्याहतवचनरचनाचातुर्यमाविर्भावयति । आसातां तावदेतो, दृष्टान्तस्य साधनावयवत्वेनानभ्युपगमात् । अथेत्थमाचक्षीथाः-अन्वयव्यतिरेकापरिज्ञाने प्रतिपाद्यस्य न दृष्टान्तमन्तरेणैतौ दर्शयितुं शक्यौ, अतोऽन्वयव्यतिरेकदर्शनार्थं दृष्टान्तोऽभिधातव्यः, ततश्च तत्कार्याकारिणां तदाभासतेति चेत्, गले गृहीतस्यायमुल्लापः तथाप्यप्रदशितव्यतिरेकविपरीतव्यतिरेको दृष्टान्ताभासौ न वास्तवौ, किं तर्हि वक्तृदोषसमुत्थौ, अतो नाभिधातुं युक्तौ, तथाविधस्य विद्यमानवस्तुप्रकाशनसामर्थ्यरहितस्य निबिडजडिमावष्टब्धस्य पुंसो वादानधिकारित्वाद्, मातृकापाठशालायोग्यतया विदुषां वादयितुमयुक्तत्वादिति ॥२५॥
तदेवं परार्थानुमानं व्याचक्षाणेन यदुक्तम्-यदुत तत्पक्षादिवचनात्मकमिति तत्पक्षहेतुदृष्टान्तानां साभासानां प्रतिपादनात् प्रायः पर्यन्तितम्, केवलं तत्परोक्षदूषणोद्धारादेव समीचीनतामाबिभर्ति, इत्यमुना प्रस्तावेन दूषणं साभासमभिधातुकाम आह
वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् ।
दूषणं निरवद्ये तु दूषणाभासनामकम् ॥२६॥ बदनशीलो वादी प्रत्यायकस्तेनोक्त उपन्यस्ते, कस्मिन् ? साधने, साध्यते प्रतिपाद्यप्रतीतावारोप्यतेऽनुमेयं येन तत्साधनम् । तच्चानेकरूपं प्राक् प्रत्यपादि । तद्यथा क्वचिद्धेतुरेवैकः, क्वचित्पक्षहेतू, क्वचित् पक्ष हेतुदृष्टान्ताः, क्वचित्ते एव सोपनयाः, क्वचित् सनिगमनाः, क्वचिदेकैकतच्छद्धिवृद्धति, प्रतिपाद्यस्य क्वचित् कथंचित् प्रत्याययितुं शक्यत्वात्, तत्प्रत्यायनोपायस्य च साधनत्वादिति, तत्रह सम्यक्साधनस्य · दूषयितुमशक्यत्वात् साधनाभास एव तत्सामोपपत्तेः । साधनाभासमेव दूषणोपनिपातात् प्रागवस्थायामनितिं सामान्येन साधनध्वनिनोक्तम्, तत्र प्रोक्तदोषाणां प्रत्यक्षादिनिराकृतपक्षासिद्धादिहेतुसाध्यादिविकलदृष्टान्ताद्युपन्यासलक्षणानामुद्भावनं प्राश्निकानां पुरतः प्रकाशनं यत् तद् दूष्यते
वदनशीलो वादीति, वदतीति ग्रहादेणिन् इति णिन् अवश्यं वदतीति आवश्यकार्थे वा पावश्यकाधमर्णयोणि न् इति णिन्। वदनं वाद; सोऽस्यास्तीति वा वादी; शीलार्थे तूपपदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org