________________
NYAYAVATARAN
55 विकलानां संदिग्धसाध्यव्यतिरेकतया प्रतिभाति इति तथोपन्यस्तः। तथा हि-यद्यप्यार्यसत्यचतुष्टयं शौद्धोदनिः प्रतिपादितवान्, तथापि सर्वज्ञताप्तते तस्य न सिध्यतः, ताभ्यां सहार्यसत्यचतुष्टयप्रतिपादनस्यान्यथानुपपत्यसिद्धेः, असर्वज्ञानाप्तेनापि परप्रतारणाभिप्रायप्रवृत्तनिपुणबुद्धिशठपुरुषेण तथाविधप्रतिपादनस्य कर्तुं शक्यत्वात् । तस्मात् शौद्धोदनेः सकाशादसर्वज्ञतानाप्ततालक्षणस्य साध्यस्य : व्यावृत्तिः संदिग्धेति संदिग्धसाध्यव्यतिरेकित्वमिति । संदिग्धसाधनव्यतिरेको यथा-अनादेयवाक्यः कश्चिद् विवक्षितः पुरुषः रागादिमत्वादिति । अत्र वैधर्म्यदृष्टान्तः यः पुनरादेयवाक्यो न स रागादिमान्, तद्यथा सुगत इति। यद्यपि तद्दर्शनानुरक्तान्तःकरणानां सुगतस्यादेयवचनता सिद्धिसौधमध्यारूढा, तथापि रागादिमत्त्वाभावस्तत्प्रतिपादकप्रमाणवैधुर्यात् संदेहगोचरचारितामनुभवति, अतः सुगताद् रागादिमत्ताव्यावृत्तिसंशयात् संदिग्धसाधनव्यतिरेकित्वमिति । संदिग्धसाध्यसाधनव्यतिरेको यथा--न वीतरागाः कपिलादयः करुणास्पदेष्वप्यकरुणापरीतचित्ततयादत्तनिजकमांसशकलत्वादिति । अत्र वैधय॑दृष्टान्त:-ये पुनर्वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकलाः, तद्यथा बोधिसत्त्वा इति । अत्र साध्यसाधनधर्मयोर्बोधिसत्त्वेभ्यो व्यावृत्तिः संदिग्धा, तत्प्रतिपादितप्रमाणवैकल्याद् न ज्ञायते किं ते रागादिमन्तः उत वीतरागाः, तथानुकम्प्येषु किं स्वपिशितखण्डानि दत्तवन्तो नेति वा, अतः संदिग्धसाध्यसाधनव्यतिरेकित्वमिति । परैरपरेऽपि दृष्टान्ताभासास्त्रयोऽविमृश्यभाषितया दर्शिताः । तद्यथा--- अव्यतिरेकः, अप्रशितव्यतिरेकः, विपरीतव्यतिरेकश्चेति, तेऽस्माभिरयुक्तत्त्वान्न दर्शयितव्याः। तथा हि-अव्यतिरेकस्तैर्दशितः, यथा-अवीतरागः कश्चिद् विवक्षितः पुरुषः, वक्तृत्वादिति, अत्र वैधर्म्यदृष्टान्तःयः पुनर्वीतरागो न स वक्ता, यथोपलखण्ड इति । यद्यपि किलोपलखण्डादुभयं व्यावृत्तम्, तथापि व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकित्वमिति । अयुक्तश्चायं वक्तुम्, अव्यतिरेकिताया हेतुदोषत्वात् । यदि हि दृष्टान्तबलेनैव व्यतिरेकः प्रतिपाद्येत, तदा तथाविधसामर्थ्य विकलस्य तदाभासता युज्येत, न चैतदस्ति, प्राक्प्रवृत्तसंबन्धग्रहणप्रवणप्रमाणगोचरस्मरणसंपादनार्थं दृष्टान्तोपादानात् ; . न ह्येकत्र यो यदभावे न दृष्टः स तदभावे न भवतीति प्रतिबन्धग्राहिप्रमाणव्यतिरेकेण सिध्यति, अतिप्रसङ्गात्; तस्मादसिद्धप्रतिबन्धस्य हेतोरेवायं दोषो न दृष्टान्तस्येति । तथाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकावपि वक्तुमयुक्ती, तयोर्वक्तृदोषत्वात् । तथा हि-अप्रदर्शितव्यतिरेकस्तैरुक्तः, यथा-नित्यः शब्दः कृतकत्वादाकाशवत्-इति । अत्र विद्यमानोऽपि व्यतिरेको वादिना वचनेन नोद्भातदभावे कथं तेषां संभवः । तथा हि-दुःखं नाम देहधर्मविलक्षणोऽन्तःसंवेद्यो धर्मः, धर्माश्च धर्मिणमन्तरेण न भवन्ति, रूपादय इव घटम्, नास्ति च बौद्धादीनां दुःखादिधर्मानुगुणो जीवः, मुख्यदुःखाभावे च दु:खहेतुत्वात् दुःखं संसारिणः स्कन्धा अपि न स्युः तदभावे च न हेतुः । एवं मार्गनिरोधयोरपि प्रमाणबाधित्वमपि भावनीय मिति । उपलखण्ड इति । खण्डध्वनिः पुनपुंसकः ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org