________________
VAISHALI INŠTITUTE RESEARCH BULLETIN NO. I
बुभुत्सितार्थसाधकौ अतो दृष्टान्ताभासावेताविति चेत्, एवं तर्हि करणापाटवादयोऽपि दृष्टान्ताभासा वाच्याः । तथा हि-करणपाटवव्यतिरेकेणापि न परप्रत्यायनं समस्ति विस्पष्टवर्णाग्रहणे व्यक्ततया तदर्थावगमाभावादित्यास्तां तावत् ।।२४।।
तदेवं साधर्म्येण दृष्टान्ताभासान् प्रतिपाद्य वैधर्म्येणाह -
54
वैधर्म्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ॥२५॥
साध्याभावः साधनाभावव्याप्तौ दर्शयितुमभिप्रेतो यस्मिन् तद् वैधर्म्यम्, तेनात्र दृष्टान्तदोषा न्यायविदीरिता इति दत्तार्थम् । साध्यसाधनयुग्मानां गम्यगमकोभयानां ग्रनिवृत्तेर निवर्तनात् च शब्दस्य व्यवहितप्रयोगत्वात् संशयाच्च, निवृत्तिसंदेहाच्चेत्यर्थः । तदनेन षड्दृष्टान्ताभासाः सूचिताः । तद्यथा-- १, साध्याव्यतिरेकी; २, साधनाव्यतिरेकी; ३, साध्यसाधनाव्यतिरेकी; तथा ४, संदिग्धसाध्यव्यतिरेकः ; ५, संदिग्धसाधनव्यदिरेक: ; ६, संदिग्धसाध्यसाधनव्यतिरेकश्चेति । तत्र साध्यव्यतिरेकी यथा - भ्रान्तमनुमानं प्रमाणत्वाद् इति । अत्र वैधर्म्यदृष्टान्तः - यत् पुनर्भ्रान्तं न भवति न तत् प्रमाणम्, तद्यथा - स्वप्नज्ञानमिति, स्वप्नज्ञानाद् भ्रान्ततानिवृत्तेः साध्याव्यतिरेकित्वमिति । साधनाव्यतिरेकी यथा— निर्विकल्पकं प्रत्यक्षं प्रमाणत्वादिति । अत्र वैधर्म्यदृष्टान्तःयत् पुनः सविकल्पकं न तत् प्रमाणम्, तद्यथानुमानम्, अनुमानात् प्रमाणतानिवृत्तेः साधनाव्यतिरेकित्वम् । उभयाव्यतिरेकी यथा - नित्यानित्यः शब्दः सत्त्वादिति । अत्र वैधर्म्यदृष्टान्तः-- यः पुनर्न नित्यानित्यः स न सन्, तद्यथा घटः, घटादुभयस्याप्यव्यावृत्तेरुभयाव्यतिरेकित्वमिति । तथा संदिग्धसाध्यव्यतिरेको यथा - असर्वज्ञा अनाप्ता वा कपिलादयः आर्यसत्यचतुष्टयाप्रतिपादकत्वादिति । अत्र वैधर्म्यदृष्टान्तः - यः पुनः सर्वज्ञ प्राप्तो वा असावार्यसत्यचतुष्टयं प्रत्यपीपदत्, तद्यथा शौद्धोदनिरिति । अयं च साध्याव्यतिरेकी वा आर्यसत्यचतुष्टयस्य दुःखसमुदयमार्ग-निरोधलक्षणस्य प्रमाणबाधितत्वेन तद्भाष
कस्यासर्वज्ञतानाप्ततोपपत्तेः, केवलं
तन्निराकारकप्रमाणसामर्थ्यपर्यालोचन
,
आर्यसत्यचतुष्टयमिति । श्राराद् दुरं यान्ति पापादित्यार्याः, निरुक्तलक्षणं, तेषां सतां साधूनां पदानां वा यथासंभवं मुक्तिप्रापकत्वेन यथावस्थित वस्तुस्वरूपचिन्तनेन च हितानि सत्याति तत्त्वानीत्यर्थः तेषां चतुष्टयम् । दुःखेत्यादि । दुःखं फलभूताः पञ्चोपादानस्कन्धाः—रूप वेदना संज्ञा संस्कारो विज्ञानमेव चेति; ते एव तृष्णासहाया हेतुभूताः समुदयः, समुदेति स्कन्धपञ्चकलक्षणं दुःखमस्मादिति व्युत्पत्तित: । निरोध हेतु नैरात्म्याद्याकारचित्तविशेषो मार्गः, 'मार्ग अन्वेषणे', मार्ग्यतेऽन्विष्यते याच्यते निरोधार्थिभिरिति चुरादीनन्तत्वेन स्वरान्तत्वादल्प्रत्ययः । निष्क्लेशावस्था चित्तस्य निरोधः, निरुध्यते रागद्वेषोपहतचित्तलक्षणः संसारोऽनेनेति करणे घञि मुक्तिरित्यर्थः । एतच्च दुःखादिरूपं विस्तारार्थिना प्रमाण विनिश्चयटीकादेनिष्टङ्कनीयम् । प्रमाणबाधितत्वेनेति । दुःखादीनां हि मूलमात्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org