________________
NYAYĀVATĀRAH भ्रान्तताविकलत्वात्, तद्भ्रान्तत्वे सकलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च प्रमाणप्रमेयाभावात् न किंचित् केनचित् साध्यत इति भ्रान्तवादिनो मूकतामापद्येत । साधन विकलो यथा-जाग्रत्संवेदनं भ्रान्तम्, प्रमाणत्वात् स्वप्नसंवेदनवत् । स्वप्नसंवेदनस्य प्रमाणतावैकल्यात् तत्प्रत्यनीकजाग्रत्प्रत्ययोपनिपातबाधितत्वादिति । उभयविकलो यथा-नास्ति सर्वज्ञः, प्रत्यक्षाद्यनुपलब्धत्वात्, घटवत् । घटस्य सत्त्वात् प्रत्यक्षादिभिरुपलब्धत्वाच्च । संदिग्धसाध्यधर्मो यथावीतरागोऽयम्, मरणधर्मत्वात् रथ्यापुरुषवत् । रथ्यापुरुषे वीतरागत्वस्य संदिग्धत्वात्, विशिष्टचेतोधर्माणां विशिष्टव्याहारादिलिङ्गगम्यत्वात् रथ्यापुरुषे तन्निर्णयस्याप्यभावादिति। संदिग्धसाधनधर्मो यथा-मरणधर्मायं पुरुषः, रागादिमत्त्वात्, रथ्यापुरुषवत् । रथ्यापुरुषे रागादिमत्त्वस्य संदिग्धत्वात, वीतरागस्यापि तथा संभवादिति। संदिग्धोभयधर्मो यथा-असर्वज्ञोऽयम्, रागादिमत्त्वात्, रथ्यापुरुषवत् । रथ्यापुरुषे प्रदर्शितन्यायेनोभयस्यापि संदिग्धत्वादिति। ननु च परैरन्यदपि दृष्टान्ताभासत्रयमुक्तम्, तद्यथा--अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति । तत्रानन्वयो यथा-रागादिमान् विवक्षितः पुरुषः, वक्तृत्वाद्, इष्टपुरुषवदिति । यद्यपि किलेष्टपुरुषे रागादिमत्त्वं वक्तृत्वं च साध्यसाधनधमौं दृष्टौ, तथापि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्धेरनन्वयोऽयं दृष्टान्तः । तथा अप्रशितान्वयो यथा--अनित्य : शब्दः, कृतकत्वात्, घटवदिति। अत्र यद्यपि वास्तवोऽन्वयोऽस्ति, तथापि वादिना वचनेन न प्रकाशित इत्यप्रदर्शितान्वयो दृष्टान्तः । विपरीतान्वयो यथा-अनित्यः शब्दः, कृतकत्वादिति हेतुमभिधाय यदनित्यं तत् कृतकं घटवदिति । विपरीतव्याप्तिदर्शनात् विपरीतान्वयः । साधर्म्यप्रयोगे हि साधनं साध्याक्रान्तमुपदर्शनीयम्, इह तु विपर्यासदर्शनाद्विपरीतता। तदेतद् भवद्भिः कस्मान्नोक्तमिति अत्रोच्यते, परेषां न सुपर्यालोचितमेतद् दृष्टान्ताभासत्रयाभिधानमिति ज्ञापनार्थम् । तथा हि-न तावदनन्वयो दृष्टान्ताभासो भवितुमर्हति । यदि हि दृष्टान्तबलेन व्याप्तिः साध्यसाधनयोः प्रतिपाद्येत, ततः स्यादनन्वयो दृष्टान्ताभासः, स्वकार्याकरणात्, यदा तु पूर्वप्रवृत्तसंबन्धग्राहिप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तोदाहतिरिति स्थितम, तदानन्वयलक्षणो न दृष्टान्तस्य दोषः, किं तर्हि हेतोरेव, प्रतिबन्धस्याद्यापि प्रमाणेनाप्रतिष्ठितत्वात्, प्रतिबन्धाभावे चान्वयासिद्धेः । न च हेतुदोषोऽपि दृष्टान्ते वाच्यः, अतिप्रसङ्गादिति । तथा अप्रदर्शितान्वयविपरीतान्यावपि न दृष्टान्ताभासतां स्वीकुरुतः, अन्वयाप्रदर्शनस्य विपर्यस्तान्वयप्रदर्शनस्य च वक्तृदोषत्वात्, तद्दोषद्वारेणापि दृष्टान्ताभासप्रतिपादने तदियत्ता विशीर्येत, वक्तृदोषाणामानत्यात् । वक्तृदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षते इति । एवं चोपन्यासे न यस्येति बहुव्रीहिः, न पुनः संदिग्धः साध्यो धर्मो यस्येति संदिग्धः साध्यधर्मो यस्येति वा, धर्मादन् वा केवलात् इत्यनेन केवलात्पदात्परो य : केवलो धर्मशब्दः तस्मादनो विधानात् । एवं संदिग्धसाधनधर्मादिष्वपि वाच्यम् । व्याहारादीति । प्रादिशब्दाच्चेष्टाकारपरिग्रहः । तन्निर्णयस्येति । विशिष्ट व्यापारादिलिङ्गनिश्चयस्येत्यर्थः ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org